________________ संकम 26 - अभिधानराजेन्द्रः - भाग 7 संकम प्रभूतान् पुद्गलान् परिसाटयति / न च तेन प्रयोजनम्, अतो जघन्ययोगग्रहणम् / तथोपरितनीषु स्थितिषु निषेकं कर्मदलिकन्यासरूपं बहु स्वभूमिकानुसारणातिशयेन प्रभूतं कृत्वा। एवं बादरपृथ्वीकायिकेषु मध्ये पूर्वकाटिपृथक्त्वाभ्यधिकसागरोपमसहस्रद्वयन्यूनाः सप्ततिसागरोपमकोटीकोटी: संसृत्य ततो विनिर्गच्छति, विनिर्गत्य चबादरत्रसकायेषु द्वीन्द्रियादिषु मध्ये समुत्पद्यते। बायरतसेसु तक्का-लमेवमंते य सत्तमखिईए। सव्वलहुं पज्जत्तो, जोगकसायाहिओ बहुसो॥७६|| 'बायर' त्ति-एवं पूर्वोक्तेन विधिना- “पज्जत्तापज्जत्तग-दीहेयरद्धासु / / जोगकसाउनोसो, बहुसो निसमवि आउबन्धं च। जोगजहण्णणुवरिलटिइनिसेग बहु किच्चा / / 1 / / " इत्येवरूपेण बादत्रसेषु तत्काल बादरत्रसकायस्थितिकालं पूर्वकोटिपृथक्त्वाभ्यधिकसागरोपमसहस्रदयप्रमाणं परिभ्रम्य यावतो वारन् सप्तमी नरकपृथिवीं गन्तुं योग्यो भवति तावतो वारान गत्वा अन्तिम सप्तमपृथिवीनारकभवे वर्तमानः। इह दीर्घजीवित्वं योगकषायोत्कटता च लभ्यत इति यावत्सम्भवसप्तमनरकपृथ्वीगमनग्रहणमा तथा सप्तमपृथ्वीनारकभवे सर्वलघुपर्याप्तः सर्वेभ्योऽप्यन्येभ्यो नारके कभ्यः शीघ्र पर्याप्तभावमुपगतः / इहापर्याप्तापेक्षया पर्याप्तस्य योगोऽसंख्येयगुणो भवति। तथा च सति तस्यातीव प्रभूतकर्मपुग़लोपादानसम्भवः। तेन चेह प्रयोजनमिति सर्वलघुपर्याप्त इत्युक्तम्। बहुशश्चानेकवारं च तस्मिन् भवे वर्तमानो योगकषायधिक उत्कृष्टानियोगस्थानानि उत्कृष्टांश्च काषायिकान् परिणामविशेषान् गच्छन्। जोगजवमज्झ उवरिं, मुहुत्तमच्छित्तु जीवियवसाणे / तिचरिमदुचरिमसमए, पूरित्तु कसायउक्कस्सं // 77 / / जोगुकोसं चरिमदु-चरिमे समए य चरिमसमयम्मि। संपुण्णगुणियकम्मो, पगयं तेणेह सामित्ते / / 78|| 'जोग' त्ति-योगयवमध्यस्योपरि अष्टसामायिकानां योगस्थानानामुपरीत्यर्थः / अन्तर्मुहूर्त कालं यावत् स्थित्वा जीवितावसानेऽन्तर्मुहूर्ते आयुषः शेष। एतदुक्तं भवति- अन्तर्मुहूर्ताविशेषे आयुषि योगयवमध्यस्योपरि असंख्येयगुणवृद्ध्याऽन्तर्मुहूर्त कालं यावत् प्रवर्धमानो भूत्वा / ततः किमित्याह-'तिचरिमें त्यादि त्रय-श्वरमा यस्मात्स त्रिचरमः यत आरभ्यान्तिमःसमयस्तृतीयो भवति; स त्रिचरम इत्यर्थः / तस्मिन् भवस्य / विचरमे द्विचरमे च समये वर्तमान उत्कृष्ट काषायिक संक्लेशस्थान पूरयित्वा चरमे द्विचरमे च समये योगस्थानमपि चोत्कृष्ट पूरयित्वा / इहोत्कृष्टो योग उत्कृष्टश्च संक्लेशो युगपदेकमेव समयं यावत् प्राप्यते, नाधिकमिति विषम्समयतया उत्कृष्टयोगोत्कृष्टकषायस्थानग्रहणम् / त्रिचरमे द्विचरम च समये उत्कृष्टसंक्लेशग्रहणं प्रभूतोद्वर्तनास्वल्पापवर्तनाभावनार्थ द्विचरमे चरभे च समये उत्कृष्टयोगग्रहणं परिपूर्णप्रदेशोपचयसम्भवार्थम / स इत्थंभूतो नारकभवस्य चरमसमये वर्तमानः सम्पूर्णगुणितकर्माशो भवति, तेन च सम्पूर्णगुणितकर्माशेन इहोत्कृष्टप्रदेशसंक्रमस्वामित्वे प्रकृतमधिकारः / तदेवमुक्तो गुणितकर्माशः। सम्प्रति स्वामित्वमभिधीयते तत्तो उव्वट्टित्ता, आवलिगासमयतब्भवत्थस्स। आवरणविग्घचोद्दस-गोरालियसत्त उक्कोसो।।७।। 'तत्तो' ति-स गुणितकशिस्ततः सप्तमपृथ्वीरूपान्नरकादुवृत्य पर्याप्तपशेन्द्रियतिर्यक्षु मध्ये समुत्पन्नस्ततस्तद्भवस्थस्य तस्मिन् पर्याप्तसज्ञिपशेन्द्रियभव तिष्ठतः प्रथमावलिकाया उपरितने चरमे समये ज्ञानावरणपञ्चकदर्शनावरणचतुष्टयान्तरायपञ्चकौदारिकसप्तकलक्षणानामेकविंशतिप्रकृतीनामुत्कृष्टप्रदेशसंक्रमो भवति। एतासां हि कर्मप्रकृतीनां नारकमवचरमसमये उत्कृष्टयोगवशात् प्रभूतं कर्मदलिकमात्रम्। तच बन्धावलिकायामतीतायां संक्रमयति, नान्यथा। अन्यत्र चैतावत् प्रभूतं कर्मदलिक न प्राप्यत इति 'आवलिगासमयतब्भवत्थस्स' इत्युपात्तम्। कम्मचउक्के असुभा-ण बज्झमाणीण सुहुसरागते / संछोभणम्मि नियगे,चउवीसाए नियट्टिस्स // 80| 'कम्मचउके' त्ति-कर्मचतुष्के दर्शनावरणवेदनीयनामगोत्रलक्षणेया अशुभाः सूक्ष्मसम्परायावस्थायामबध्यमानाः प्रकृतयो निद्राद्विकासातवेदनीयप्रथमवर्जसंस्थानप्रथमवर्जसंहननाशुभवर्णादिनवकोपघाताप्रशस्तविहायोगत्यपर्याप्तास्थिरासुभगदुर्भगदुःखरानादेयायशः कीर्तिनीचैर्गोत्रलक्षणा द्वात्रिंशत्प्रकृतयस्तासा गुणितकशिस्य क्षपकस्य सूक्ष्मसम्परायस्यान्ते चरमसमये उत्कृष्टःप्रदेशसंक्रमो भवति / तथाऽनिवृत्तिबादरस्य गुणितकर्माशस्य क्षपकस्य मध्यमकषायाष्टकस्त्यानर्द्धित्रिकतिर्यग्द्विकद्वित्रिचतुरिन्द्रियजातिसूक्ष्मसाधारणनो-कषायषट्करूपाणां चतुर्विशतिप्रकृतीनाम् आत्मीये आत्मीये चरमसंक्षोभे चरमसंक्रमे उत्कृष्टः प्रदेशसंक्रमो भवति। तत्तो अणंतरागय-समयादुक्कस्स सायबंधद्धं / बंधिय असायबंधा, लिगंतसमयम्मि सायस्स / / 1 / / 'तत्तो' ति ततो नरकभवादनन्तरभवे समागतः प्रथमसमयादारभ्य सातवेदनीयमुत्कृष्टां बन्धाऽद्धाम् ; उत्कृष्ट बन्धकालं यावदित्यर्थः। बवा असातवेदनीय बझुमारभूते। ततोऽसातवेदनीयस्य बन्धावलिकान्तसमये सातवेदनीयं सकलमपि बन्धावलिकातीतं भवतीतिकृत्वा तस्मिन् समयेऽसातवेदनीये बध्यमाने सातं यथा-प्रवृत्तसंक्रमे संक्रमयतः सातस्योत्कृष्टः प्रदेशसंक्रमो भवति। संछोभणाऍ दोण्हं, मोहाणं वेयगस्स खणसेसे। उप्पाइय सम्मत्तं, मिच्छत्तगए तमतमाए।।८२ 'संछोभणाए'त्ति-क्षपकस्य द्वयोर्मोहनीययोमिथ्यात्वसम्यग्मिथ्यात्वरूपयोरात्मीयात्मीयचरमसक्षोभे सर्वसंक्रमेणोत्कृष्टः प्रदेशसंक्रमो भवति / तथा क्षणशेषेऽन्तर्मुहूर्तावशेष आयुषि तमस्तमाऽभिधानायां सप्तम - पृथिव्या वर्तमान औपशिनिक सम्यक्त्वमुत्पाद्य दीर्घेण चगुणसंक्रमकालेन वेदकसम्यक्त्वपुज समापूर्य सम्यक्त्वात् प्रतिपतितो मिथ्यात्वं च प्रतिपद्य तत्प्रथमसमय एव वेदकसम्यक्त्वस्य मिथ्यात्वे उत्कृष्ट प्रदेशसंक्रमं करोति। भिन्नमुहूत्ते सेसे, तच्चरमावस्सगाणि किच्चेत्थ।