________________ संकम 28 - अभिधानराजेन्द्रः - भाग 7 संकम इह प्राग्यथाप्रवृत्तसंक्रमस्य कालो नोक्तः, उदलनासक्र मेऽपि यद् द्विचरम स्थितिखण्ड तस्य चरमसमये स्वस्था ने यत्कर्मदलिकं प्रक्षिप्यते तेन मानेन शेषस्य चर मस्थितिखण्डस्यापहारकालो नोक्तस्ततस्तंत्रि रूपणार्थमाहपल्लासंखियभागेण-हापवत्तेण सेसगऽवहारो। उव्वलगेण वि थियुगो, अणुइनाए उजं उदए / / 71 / / 'पल्ल' त्ति-उदलनासंक्रमे यच्चरमं स्थितिखण्ड तस्य यदि यथाप्रवृत्तसंक्रममानेनापहारः क्रियते, तर्हि पल्योपमासंख्येयभागमात्रेण कालेन निःशेषतोऽपहारो भवति। उद्वलनासंक्रमेणापि द्विचरमस्थितिखण्डकस्य चरमसमये यत्स्वस्थाने प्रक्षिप्यते दलिक तेन मानेन चरमस्थितिखण्डस्यापहारकाल: पल्योपमासंख्येयभागलक्षणो वेदितव्यः / तत एती द्वावपि तुल्यौ / इहान्योऽपि षष्ठः स्तिबुकसंक्रमाऽस्ति, पर नासौ राक्रमकरणे सम्बध्यते करणलक्षणासम्भवात्। करणं हि सला वीर्यमुच्यते / अथ च लेश्यातीतोऽपि भगवानयोगिकेवली द्विधरमसमये द्विसप्ततिप्रकृतीः स्तिबुकसंक्रमेण संक्रमयति / अपि च स्तिबुकसंक्रमेण संक्रान्तं दलिक न सर्वथा पतद्ग्रहप्रकृतिरूपतया परिणमते, ततो नासौ संक्रमे संबध्यते। परमेषोऽपि संक्रम इति संक्रमप्रस्तावातल्लक्षणनिरूपणार्थमाह - 'पिबुगो' इत्यादि अनुदीर्णायाअनुदयप्राप्तायाः सत्कं यत्कर्मदलिकं सजातीयप्रकृतावुदयप्राप्तायां समानकालस्थिती संक्रगयति संक्रमय्य चानुभवति, यथा मनुजगतावुदयप्राप्तायां शेष गतित्रयम, एकेन्द्रियजातौ जातिचतुष्यमित्यादि स स्तिबुकसंक्रमः / एष एव च प्रदेशानुभवः / तदेवमुक्त लक्षण भेदश्च। सम्प्रति साधनादिप्ररूपणा कर्तव्या। तत्र मूलप्रकृतीना परस्परं संक्रमो न भवति, तत उतरप्रकृतीनामेव साधनादिप्ररूपणार्थमाहधुवसंकमअजहन्नो, ऽणुकोसो तासि वा विवजित्तु / आवरणनवगविग्घं, ओरालियसत्तगं चेव / / 72 / / साइयमाइ चउद्धा, सेसविगप्पा य सेसगाणं च। सव्वविगप्पा नेया, साई अधुवा पएसम्मि।।७३।। 'धुवसंकम' ति-प्रागुक्तानां ध्रुवसत्कर्मणा षड्रिंशत्युत्तरशतसंख्यानामजघन्यः प्रदेशसंक्रमश्चतुर्धाचतुष्प्रकारः। तद्यथा-सादिरनादिधुवोऽध्रुवश्च / तत्र क्षपितकर्माशो वक्ष्यमाणलक्षणः क्षपणार्थमभ्युद्यतो ध्रुवसत्कर्मप्रकृतीनां सर्वासामपि जघन्यं प्रदेशसंक्रमं करोति, रा च सादिरध्रुवश्च। ततोऽन्यः सर्वोऽप्यजधन्यः। सचापशमश्रेण्या बन्धव्यवच्छेदे सति सर्वासामपि प्रकृतीना न भवति. ततः प्रतिपाते च भवति, ततोऽसौ साऽऽदिः, तत्स्थानमप्राप्तस्य पुनरनादिः / ध्रुवाध्रुवावभव्यभव्यापेक्षया / अनुत्कृष्टोऽपि प्रदेशसंक्रमो ध्रुवसत्कर्मप्रकृतीनां चतुर्धा / किं सर्वासा त्याह-आवरणनवकं ज्ञानावरणापक्षकदर्शनावरणचतुष्टयलक्षणम्, तथाऽन्तरायपञ्चकमौदारिकसप्तकं च वर्जयित्वा शेषस्य पश्चोत्तरप्रकृतिशतस्य / तथाहि- सर्वासामपि प्रकृतीनां गुणितकर्माशे वक्ष्यमाणलक्षणे क्षपणार्थमभ्युद्यते उत्कष्टः प्रदेशसंक्रमः प्राप्यते. नान्यत्र / ततोऽसौ सादिः / तरमादन्यः सर्वोऽप्यनुत्कृष्टः स चोपशमश्रेण्यां व्यवच्छिद्यते, ततः प्रतिपाते च भवति, ततोऽसौ साऽऽदिः-तत्स्थानमप्राप्तस्य पुनरनादिः / धुवाधुवावभव्यभव्यापेक्षया / 'सेसे' त्यादि शेषविकल्पाः पञ्चत्तरशतस्य जघन्य उत्कृष्टश्च ज्ञानावरणीयाोकविंशतिप्रकृतीनां जघन्योत्कृष्टानुत्कृष्टाः सादयोऽध्रुवाश्च / तत्र पश्चोत्तरशतस्य जघन्य उत्कृष्टश्च साद्यधुवतयाँ भावित एव ज्ञानावरणीयादीनां चोत्कृष्टः प्रदेशसंक्रमो गुणितकर्माश मिथ्यादृष्टौ कदाचिल्लभ्यते, शेषकालं चनुत्कृष्टः / तत एतौ द्वावपि साद्यध्रुवौ / जघन्यस्तु साद्यध्रुवतया भावित एव। शेषप्रकृतीनां च सर्वेऽप्युत्कृष्टानुत्कृष्टजघन्याजघन्यविकल्पा अध्रुवसत्कमत्वात् मिथ्यात्वध्रुवसत्कर्मणोऽपि सदैव पतद्ग्रहाप्राप्तींचैगोत्रसातासातवेदनीयानां तु परावर्तमानत्वात् सादयोऽध्रुवाश्चावगन्तव्याः / तदेवं कृता साद्यनादिप्ररूपणा। साम्प्रतमुत्कृष्टप्रदेशनंक्रमस्वामित्वमभिधातव्यम्। तच्च गुणितकार्गशे लभ्यत इति तनिरूपणार्थमाहजो बायरतसकाले, णूणं कम्मट्टिइं तु पुढवीए / बायर (रि) पज्जत्ताप-जत्तगदीहेयरद्धासु // 74 / / जोगकसा उक्कोसो, बहुसो निच्चमवि आउबंधं व। जोगज्जपणेणुवरि-लठिइनिसेगं बहु किच्चा / / 7 / / 'जो बायर' ति-इह द्विधा त्रसाः-सूक्ष्माः ,बादरश्च / तत्र बादरा द्वीन्दियादयः, सूक्ष्भास्तेजोवायुकायिकाः। तत्र सूक्ष्मत्रसव्यवच्छेदार्थ बादरग्रहणम् / बादरत्रसानां द्वीन्द्रियादीनां यः कायस्थितिकालः पूर्वकोटीपृथक्त्वाभ्यधिकद्विसहस्रसागरोपमप्रमाणः, तेनोनां कर्मस्थिति सप्ततिसागरोपमकोटीकोटीप्रमाणां यावत् पृथिव्यां बादरे यादरपृथिवीकायभवेषु स्थित्वा / कथं स्थित्वेत्यत आह- ‘पञ्जत्तापजत्तगदीहेयरद्धासु' त्ति दीर्धेतराऽद्धाभ्यां पर्याप्तापर्याप्तयोर्यथासंख्येन योजना। ततोऽयमर्थःदीर्घाऽद्धं पर्याप्तभवेषु, इतराऽर्द्ध स्तकाद्धमपर्याप्त भवषु / प्रभूतेषु पर्याप्तभवेषु स्तोकेषु चापर्याप्तभवेषु रिथत्वेत्यर्थः / तथा बहुशोऽनेकवारम् / योगकषाोत्कृष्ट उत्कृष्टषु योगस्थानेषु उत्कृष्टेषु च काषायिकेषु संक्लेशपरिणामेषु वर्तित्वा / इह शेषेक न्द्रियेभ्यो बादरपृथिवीकायस्य प्रभूतमायुस्तेनाव्यवच्छिन्नं तस्य प्रभूतकर्मपुगलोपादानम् / बलवत्तया च तस्यातीव वेदनासहिष्णुत्वम् / तेन तस्य प्रभूतकर्मपुदलपरिसाटो न भवतीति बादरपृथिवीकारिकग्रहणम् / अपर्याप्तभवग्रहणं च परिपूर्णकायस्थितिपरिग्रहार्थम् / तेषां चापर्याप्तकभवानां स्तोकानां पर्याप्तकभवानां च प्रभूतानां ग्रहणं प्रभूतकर्मपुद्रलपरिसादाभावप्राप्त्यर्थम् अन्यथा हि निरन्तरमुत्पद्यमानम्रियमाणेषु बहवः पुद्गलाः परिसटन्ति। नच तेन प्रयोजनम् उत्कृष्टषु च योगस्थानेषु वर्तमानः प्रभूतं कर्मदलिकमादते, उत्कृष्टसंक्लेशपरिणामश्चोत्कृष्टां स्थिति बध्नाति प्रभूतां चोद्वर्तयति स्तोकं चापवर्तयति, अतो योगकषायोत्कृष्टग्रहणम्। 'नियमि' त्यादि, नित्यं सर्वकाल भवे भवे आयुर्वन्धकाले जघन्ये योगे वर्तमानः-आयुर्वन्धं कृत्वा / उत्कृष्ट हि आयुःप्रायोग्ये यंगे वर्तमानः प्रभूतानायु:-पुदगलान् आदते, तथा स्वभाव्याच्च ज्ञानावरणीयस्य