________________ संकम 27 - अभिधानराजेन्द्रः - भाग 7 संकम एगिंदियस्स सुरदुग-मओ स वेउव्विनिरयदुर्ग / / 66|| 'एवं' ति-अष्टाविंशतिसत्कर्मा मिथ्यादृष्टिः प्रथमत एवमुपदर्शितेन प्रकारेण सम्यक्त्वमुद्वलयति, ततः सम्यग्मिथ्यात्वम्। तथा एकेन्द्रियाहारकसप्तकरहिता या नामकर्मणः पश्चनवतिप्रकृतयस्तत्सत्कर्मा देवगतिदेवानुपूर्यों पूर्वोक्तेन विधिना युगपदुद्रलयति ततोऽनन्तरं वैक्रियसप्तकं नरकद्विकं च युगपदुद्बलयति। सुहुमतसेगो उत्तम-मओ य नरदुगमहानियट्टिम्मि। छत्तीसाए नियगे, संजोयणदिट्ठिजुयले य॥६७।। 'सुहुम' त्ति-सूक्ष्मत्रसस्तैजस्कायिको वायुकायिकश्च / उत्तम गोत्रमुच्चेगर्गोत्रम् / प्रथमतः पूर्वोक्तेन विधिनोबलयति। ततो नरद्विकंमनुजगतिमनुजानुपूर्वीलक्षणम। तदेवं मिथ्यादृष्टरूदलना प्रतिपादिता / / सम्प्रति सम्यदृष्टः प्रतिपाद्यत-'अहानियट्टिम्मि छत्तीसाए' ति अथशब्दोऽधिकारान्तरसूचकः / किमिदमधिकारान्तरमिति चेदुच्यते-प्राक्तनीना प्रकृतीनामुद्बलना पल्योपमासंख्येयभागमात्रेण कालेन भवति यथायोग मिथ्यादृष्टेश्व, वक्ष्यमाणाना चान्तर्मुहूर्तेन कालेन सम्यग्दृष्टीनां चेत्यधिकारान्तरता। अनिवृत्तावनिवृत्तबादरसम्पराये षट्त्रिंशत्प्रकृतीनामुदलना। एतदुक्तं भवति-अनिवृत्तिबादरसम्परायःक्षपकः स्त्यानद्धित्रिकनामत्रयोदशकाप्रत्याख्यानप्रत्याख्यानावरणकषायाष्टकनवनोकषायसंज्वलनक्रोधमानमायालक्षणाः षट्त्रिंशत्प्रकृतीः स्वस्वक्षपणकालेऽन्तर्मुहूतेन कालेनोद्वलयति / 'नियगे' इत्यादि, निजके-आत्मीये क्षपकेस्वक्षपके, अविरतसम्यग्दृष्ट्यावित्यर्थः। संयोजनदृष्टियुगले च। अत्र षष्ठ्यर्थे सप्तमी, संयोजनानामनन्तानुबन्धिनां दृष्टियुगलस्य च मिथ्यात्वसम्यमिथ्यात्वयोश्च पूर्वोक्तविधिनोदलनाऽन्तर्मुहूर्तेन कालेनावगन्तव्या। तदेवमुद्वलनासंक्रम उक्तः। सम्प्रति विध्यातसंक्रमस्य लक्षणगाहजासि न बंधो गुणभव-पच्चयओ तासि होइ विभाओ। अंगुलअसंखभागो, ववहारो तेण सेसस्स॥६८|| 'जासि' त्ति-यासा प्रकृतीनां गुणप्रत्ययतो भवप्रत्ययतो वा बन्धो न भवति तासां विध्यातसंक्रमोऽवसेयः। कास्ता भवप्रत्ययतो गुणप्रत्ययतो वा बन्धनायान्तीति चेदुच्यते-इह या मिथ्यादृष्टि-गुणस्थानान्ताः षोडश प्रकृतयस्तासां सासादनादिषु गुणप्रत्ययतो बन्धो न भवति / सासादनान्तानां पञ्चविंशतिप्रकृतीनां सभ्यग्मिथ्यादृष्ट्यादिषु, अविरतसम्यगदृष्ट्यन्तानां दशानां दशविरतादिषु, देशविरतान्तानां च चतसृणां प्रमत्तादिषु, प्रमत्तान्तानां षण्णमप्रमत्तादिषु, गुणप्रत्ययतो बन्धो न भवति / ततस्ता-सां तत्र तत्र विध्यातसंक्रमः प्रवर्तते। तथा वैक्रियसप्तकदेवद्विकनरकद्विकैकेन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियजातिस्थावर सूक्ष्मसाधारणापर्याप्ताऽऽतपलक्षणानां विंशतिप्रकृतीनां नैरयिका मिथ्यात्वादिरूपे हेतौ विद्यमानेऽपि भवप्रत्ययतो बन्धका न भवन्ति / नरकद्विकदेवद्विकवैक्रियसप्तकद्वित्रिचतुरिन्द्रियजातिसूक्ष्मापर्याप्तासाधारणानां सप्तदशप्रकृतीना समस्ता अपि देवा भवप्रत्ययतो बन्धका नोपजायन्ते। एकेन्द्रियजात्यातपस्थावरनामामपितु सनत्कुमारादयः। संहननषट्क- / समचतुरस्त्रवर्जसंस्थानपशकतपुंसकवेदमनुजद्विकौदारिक सप्तकतिर्यगेकान्तयोग्यस्थावरादिप्रकृतिदशकदुर्भगादित्रिकनीचैर्गोत्राप्रशस्तविहायो-गतिप्रकृतीनां त्वसंख्येयवर्षायुषः / एवं यस्य यत् यत् कर्म भवप्रत्ययतो गुणप्रत्ययतो वा न बन्धमायाति तत्तत्तस्य तस्य विध्यातसंक्रमयोग्यं वेदितव्यम् / दलिकप्रमाणनिरूपणार्थमिदमाह'अंगुले' त्यादि यावत्प्रमाणं कर्मदलिकं प्रथमसमये विध्यातसंक्रमेण परप्रकृतिषु प्रक्षिप्यते, तेन मानेन शेषस्यदलिकस्यापहारे क्रियमाणेडगुलस्यासंख्येयतमेन भागेनापहारो भवति। इयमत्र भावनायावत्प्रमाणं प्रथमसमये कर्मदलिक विध्यातसंक्रमेण प्रकृत्यन्तरे प्रक्षिप्यते, तावत्प्रमाणैः खण्डः शेषं सर्वमपि तत्प्रकृतिगतं दलिकमपहियमाणमडगुलमात्रस्य क्षेत्रस्यासंख्येयतमे भागे यावन्त आकाशप्रदेशास्तावत्संख्याकैरपहियते इदं क्षेत्रतो निरूपणम्। कालतस्त्वसंख्येयाभिरूत्सर्पिण्यवसर्पिणीभिरपहारः। अयं च विध्यातसंक्रमः प्रायो यथाप्रवृत्तसंक्रमावसाने वेदितव्यः। (गुणसंक्रमस्य लक्षणं गुणसंक्रम' शब्दे तृतीयभागे 130 पृष्ठे गतम्) सम्प्रति यथाप्रवृत्तसंक्रामस्य लक्षणं प्रतिपादयतिबंधे अहापवत्तो, परित्तिओवा अबंधे वि॥६६॥ 'बंधे' इत्यादि, ध्रुवबन्धिनीनां प्रकृतीनां बन्धे सति यथाप्रवृत्त संक्रमः प्रवर्तते / 'परितिओ वा इति,' 'परि' त्ति अनेन परावर्तमानाः प्रकतय उच्यन्ते। तासामवन्धेऽपि आस्तां बन्धेइत्यपिशब्दार्थः, यथाप्रवृत्तसंक्रमो भवति / इयमत्र भावनासर्वेषामपि संसारस्थानमसुमतां ध्रुवबन्धिनीनां बन्धे परावर्तमानप्रकृतीनां तु स्वस्वभवबन्धयोग्यानां बन्धेऽबन्धे वा यथाप्रवृत्तसंक्रमो भवति। सांप्रतमेतैरवोद्वलनासंक्रमविध्यातसंक्रमगुणसंक्रमयथाप्रवृत्तसंक्रमैरपहारकाल स्याल्पबहुत्वमभिधीयतेथोवोवहारकालो, गुणसंकमणेण संखगुणणाए। सेसस्स हापवत्ते, विज्झाए उव्वलणनामे / / 7 / / 'थोवो' त्ति-उद्वलनासंक्रमाभिधानावसरे यत्प्रागभिहितं चरमखण्ड तच्छेषमित्युच्यते। तस्य शेषस्य यदि गुणसंक्रममानेनापहारः क्रियते, ततोऽन्तर्मुहूर्तमात्रेण कालेन सकलनपि तदपहियते। ततो गुणसंक्रमेणापहारकालः सर्वस्तोकः / ततो यथाप्रवृत्तसंक्रमेणापहारकालोऽसंख्येयगुणः / यतस्तदेव चरमखण्ड चरमखण्डयदि यथा प्रवृत्तसंक्रमेणापहियते तर्हि पल्योपमासंख्येयभागमात्रेण कालेनापहियते / ततो विध्यातसंक्रमेणापहारकालोऽसंख्येयगुणः। यतस्तदेव चरमखण्डं यदि विध्यातसंक्रमेणापहियते ततोऽसंख्येयाभिरूत्सर्पिण्यवसर्पिणीभिरपहियते। ततोऽप्युद्वलनासंक्रमेणापहारकालोऽसंख्येयगुणः / तथाहितदेव चरमखण्ड द्विचरमस्थितिखण्डस्य चरमसमये यत्परप्रकृती प्रक्षिप्यते तेन मानेन चेदपहियते, ततोऽतिप्रभूताभिरसंख्येयोत्सर्पिण्यवसर्पिणीभिरपहियते / ततः पाश्चात्यादयमुद्वलनासंक्रमेणापहारकालोऽसंख्येयगुणः।