________________ संकम 26 - अनिधानराजेन्द्रः - भाग 7 संकम यगुणम् / ततोऽपि तृतीयसमयेऽसंख्येयगुणम् / एवं तावद्वाच्यं यावदन्तमर्मुहूर्तस्य चरमसमयः। गुणकारश्चात्र पल्योपमासंख्येयभागलक्षणो वेदितव्यः एवं सर्वेष्वपि स्थितिखण्डेषु द्रष्टव्यम् / दलिकं चोत्कीर्य व प्रक्षिप्यत इति चेदुच्यते-किंचित्स्वस्थाने किंचित्परस्थाने / तत्र कियत्प्रक्षिप्यत इति विशेषतो निरूप्यते-प्रथमे स्थितिखण्डे प्रथमसमये यत्कर्मदलिकमन्यप्रकृतिषु प्रक्षिपति तत् स्तोकम् / यत् स्वस्थान एवाधस्तात्प्रक्षिप्यते तत्ततोऽसंख्येयगुणम् / ततोऽपि द्वितीयसमये यत्स्वस्थाने प्रक्षिप्यते तदसंख्येयगुणम्। परप्रकृतिषु पुनर्यत् प्रक्षिप्यते तत्प्रथमसमयपरस्थानप्रक्षिप्ताद्विशेषहीनम् / तृतीयसमये यत्स्वस्थाने प्रक्षिप्यते तत् द्वितीयसमयस्वस्थानप्रक्षिप्तादसंख्येयगुणम् / यत्पुनःपरप्रकृतिषु प्रक्षिप्यते, तत् द्वितीयसमयपरस्थानप्रक्षिप्ता द्विशे षहीनम्। एवं तावद्वाच्यं यावदन्तर्मुहूर्तचरमसमयः / एवं सर्वेष्वपि स्थितिखण्डेषु द्विचरमस्थितिखण्डपर्यवसानेषु वाच्यम् / सम्प्रति चरमखण्डस्य विधिरूच्यते-चरमस्थितिखण्डं द्वि चरमस्थितिखण्डापेक्षयाऽसंख्येयगुणं तदपि चरमस्थितिखण्डमन्तर्मुहूर्तन कालेनोत्कीर्यते। तरय च यत्प्रदेशाग्रं तदुदयावलिकागतं मुक्त्वा शेष सर्व परस्थाने प्रक्षिपति। तचैवम्-प्रथमसमये स्तोकं, द्वितीये समयेऽसंख्येयगुणं, ततोऽपि तृतीयसमयेऽसंख्येयगुणम, एवं यावच्चरमसमयः / चरमसमये तुथरपरप्रकृतिषु प्रक्षिप्यते दलिक स सर्वसंक्रम उच्यते। तत्र यावत्प्रमाणं द्विचरमस्थितिखण्डसत्कं कर्मदलिकं चरमसमये परप्रकृतिषु संक्रमयति, तावत्प्रमाणं चेच्चरमस्थितिखण्डस्य कर्मदलिकं प्रतिसमयमपहियते तर्हि तच्चरमं स्थितिखण्डमसंख्येयाभिरूत्सर्पिण्यवसर्पिणी-भिर्निलेपीभवति एषा कालतो मार्गणा / क्षेत्रतः पुनरियम्-यावत्प्रमाण द्विचरमस्थितिखण्डसत्कं कर्मदलिकं परप्रकृतिषु संक्रमयति. तावत्प्रमाणं कर्मदलिक चरम-स्थितिखण्डस्य सत्कमेकत्रापहियते, अन्यत्र एक आकाशप्रदेशः। एवमपहियमाणं चरमस्थितिखण्डमङगुलमात्रक्षेत्रगतप्रदेशराशेरसंख्येयतमेन भागेनापहियते / अड्गुलस्यासंख्येयतमे भागे यावन्त आकाशप्रदेशास्तावन्ति चरमस्थितिखण्डे यथोक्तप्रभाणानि खण्डानि भवन्तीत्यर्थः यावत्प्रमाणां पुनर्द्धिचरमस्थितिखण्डसत्कं कर्मदलिक स्वस्थाने संक्रमयति, तावत्प्रमाणं चेच्चरमस्थितिखण्डस्य कर्मदलिक प्रतिसमयमपहियते तर्हि तच्चरमं स्थितिखण्डं पल्योपमासंख्येयभागमात्रगतैः समयैर्निपीभवति। तदेवमुक्तपुद्वलनासंक्रमलक्षणम्। सम्प्रत्येतदेव लक्षणं योजयन्नाहारकसप्तकस्योद्वलनासंक्रमकारकमाहआहरतणू मिन्नमु-हुत्ता अविरइगओ पउव्वलए। जा अविरतो त्ति उव्वल-इ पल्लभागे असंखतमे / / 61 / / 'आहार' ति-आहारकसप्तकसत्कर्माऽविरतिर्विरत्यभाव गतः सन् अन्तर्मुहूर्तात्परत आहारकतनुम्, इहाहारकग्रहणेनाहारकसप्तकं गृहीत द्रष्टव्यम् तत आहारकसप्तकम्। 'पउव्वलए' ति प्रद्विलयति / कियता पुनः कालेनोदलयतीति चेदुच्यते-यावदविरतिस्तावदुरलयति / एतेनाविरतिप्रत्यया आहारकसप्तकस्योद्वलना प्रतिपादिता द्रष्टव्या / अविरतिश्चानन्तमपि कालं यावद्भवति, ततो नियममाह- 'पल्लभागे असंखतमे' पल्योपमस्यासंख्येयतमेन भागेनसर्वमुद्रलयतीत्यर्थः। अंतोमुहुत्तमर्द्ध, पल्लासंखिज्जमित्तठिइखंडं। उकिरइ पुणो वि तहा, उणूणमसंखगुण्हं जा // 62 / / 'अंतोमुहत्तं त्ति-अन्तर्मुहूर्तप्रमाणामद्धा यावदन्तर्मुहूर्तेनकालेनेत्यर्थः / पल्योपमासंख्येयभागमात्रं स्थितिखण्डमुत्किरति / एष विधिः प्रथमखण्डस्य / / ततः पुनरपि तथा तेनैव प्रकारेणान्तर्मुहूतेन कालेनान्यत् पल्योपमासंख्येभागमात्र खण्ड पूर्वस्मादूनमूनतरमुत्किरति / एवं तावद्वाच्यं यावद् द्विचरमं स्थितिखण्डम् / तच्च प्रथमस्थितिखण्डा-- पेक्षयाऽसंख्येयगुणहीनम्। तं दलियं सत्थाणे, समए समए असंखगुणियाए। सेढीए परठाणे विसेसहाणीऐं संछुभइ॥६३।। 'त' ति-तदुत्कीर्यमाणं दलिक समये समये स्वस्थाने असंख्येयगुणितया श्रेण्या संक्षुभते-प्रक्षिपति / यत्पुनः परस्थाने परप्रकृतौ तद्विशेषहान्या / तद्यथा-प्रथमसमये यत् परप्रकृतौ प्रक्षिपति तत् स्तोकम् / यत्पुनः स्वस्थाने एवाधस्तात् प्रक्षिप्यते, तत्ततोऽसंख्येयगुणम्। ततोऽपि द्वितीयसमये यत् स्वस्थानेप्रक्षिप्यतेतदसंख्येयगुणम् / परप्रकृतिषु पुनर्यत प्रक्षिप्यते तत्प्रथमसनये परस्थानप्रक्षिप्ताद्विशेषहीनम् / एवं तावत्प्रतिसमयं वाच्यं यावदन्तर्मुहूर्तस्य चरमसमयः / एष प्रथमस्थितिखण्डस्योत्करणविधिः एवमन्येषामपि द्रष्टव्यम्। जं दुचरमस्स चरिमे, अन्नं संकमइ तेण सव्वं पि। अंगुलअसंखभागे-ण हीरए एस उव्वलणा॥६॥ 'ज' ति-द्विचरमस्थितिखण्डस्य चरमसमये यत् कर्मदलिकमयां प्रकृति संक्रमयति, तेन मानेनतावत्प्रमाणेन दलिकेनेत्यर्थः / यदि चरम स्थितिखण्डमपहियते, ततः कालतोऽसंख्येयाभिरूत्सर्पिण्यवसर्पिणीभिरपहियते क्षेत्रतः पुनरङ्गुलमात्रक्षेत्रासंख्येयतमेन भागेन / एषा प्रागुक्ता द्विचरमस्थितिखण्डं यावदाहारकसप्तकस्योद्बलना। सम्प्रति चरमस्थितिखण्डकस्य वक्तव्यतामाहघरममसंखिज्जगुणं, अणुसमयमसंखगुणियसेढीए। देइपरत्थाणे ए-वं संछुभतीणि (एव) मविकसिणो // 65 'चरम' ति-द्विचरमस्थितिखण्डाचरम स्थितिखण्डं स्थित्यपेक्षयाऽसंख्येयगुणम् / तथा तस्य चरमखण्डस्य यत्प्रदेशाग्रं तदुदयावलिकागतं मुक्त्वा शेष परस्थाने परप्रकृतिषु / अनुसमयम्-प्रतिसमयम् असंख्येयगुणनया श्रेण्या प्रक्षिपति / तद्यथा-प्रथमसमये स्तोकम्, द्वितीयसमयेऽसंख्येयगुणम्, तृतीयसमयेऽसंख्येयगुणम्। एवं यावच्चरमसमयः / एवममुना प्रकारेण परप्रकृतौ प्रक्षिप्यमाणानां प्रकृतीनाम्। अपिः सम्भावने / चरमसमये यः कृत्स्नसंक्रमो भवति स सर्वसंक्रमः। एतेन सर्वसंक्रमस्य लक्षणं प्रतिपादितं द्रष्टव्यम्। ___ सम्प्रति वेदकसम्यक्त्वादीनामुद्वलनासंक्रमकारकानाहएवं मिच्छद्दिट्ठि-स्स वेयगं मीसगं ततो पच्छा।