________________ संकम 25 - अभिधानराजेन्द्रः - भाग 7 संकम न विनाशयति / क्षपण-क्षपणकालं वर्जयित्वा / एतदुक्तं भवतिक्षपणकाले सम्यग्दृष्टिरपि सम्यक्त्वसम्यग्मिथ्यात्वयोरूत्कृष्टमनुभाग विनाशयति, तेन क्षपणकालो वय॑ते / तथा चोक्त पञ्चसंग्रहमूलटीकायाम्- “सम्यग्दृष्टियो मिथ्यादृष्टयश्च सम्यक्त्वसम्यग्मिथ्यात्वयोनोंत्कृष्टमनुभाग विनाशयन्ति, अपि तु क्षपकः सम्यग्दृष्टिविनाशयति, उभयोरपि दृष्ट्योरिति” मिथ्यादृष्टिः पुनः सर्वासामपि शुभप्रकृतीना संक्लेशेनाशुभप्रकृतीना तु विशुद्धषाऽन्तर्मुहूर्तात्परत उत्कृष्टमनुभागमवश्यं विनाशयति। तदेव जघन्यानुभार्गसंक्रमस्वामित्वप्रतिपादनाय भावना कृता सम्प्रति जघन्यानुभागसंक्रमस्वामित्वमेवाहअंतरकरणा उवरिं, जहन्नठिइसंकमो उ जस्स जहिं। घाईण नियगचरम-रसखंडे दिट्ठिमोहदुगे / / 57 / / 'अतकरण' ति-अन्तकरणादूर्ध्व घातिकर्मप्रकृतीनां मध्ये यस्याः प्रकृतेर्यत्र गुणस्थानके जघन्यस्थितिसंक्र म उक्तः,तस्यास्तत्र जघन्यानुभागसंक्रमोऽपि वेदितव्यः। एतदुक्तं भवति-अन्तरकरणे कृति सति अनिवृत्तिबादरसपरायक्षपको नवनोकषायसंज्वलनचतुष्टयानां क्षपणक्रमेण जघन्यस्थितिसंक्रमणकाले जघन्यानुभागसंक्रमं करोति, ज्ञानावरणपञ्चकान्तरायपञ्चकचक्षुरचक्षुरवधिकेवलदर्शनावरणनिद्राप्रचलारूपदर्शनाऽऽवरणषट्कानां क्षीणकषय समयाधिकावलिकाशेषायां स्थिती वर्तमानो जपन्यानुभागसंक्रम करोति नियगे' त्यादि दर्शनमोहनीयद्विकरय सम्यक्त्वसम्यग्मिथ्यात्वरूपस्य क्षपणकाले निजकचरमरसखण्डे आत्मीयात्मीयचरमरसखण्डसंक्रमणकाले जघन्यानुभागसंक्रमो भवति। आऊण जहण्णठिई,बंधिय जाव त्थि संकमो ताव / उव्वलणतित्थसंजो-यणा य पढमालियं गंतु // 58|| 'आऊण' ति चतुर्णामय्यायुषां जघन्यां स्थिति बवा, जघन्यां हि स्थिति बध्नन् जघन्यमनुभागं वध्नातीति जघन्यस्थितिग्रहणम्। ततो जघन्यां स्थिति बवा बन्धावलिकायाः परतस्तावज्जघन्यानुभागं संक्रमयति यावत्समयाधिकावलिका शेषा भवति / ततो जघन्यां स्थिति बद्धा याववस्ति संक्रमस्तावजघन्यानुभागसंक्रमः प्राप्यते। तथा नरकद्विकमनुजद्विका देवद्विकवैक्रियसप्तकाहारकसप्तको चैर्गोत्रलक्षणानामेकविशत्युद्वलनप्रकृतीनां तार्थकरस्यानन्तानुबन्धिना च जघन्यमनुभाग बद्धा प्रथमावलिका बन्धावलिकालक्षणां गत्वाऽतिक्रम्यः बन्धावलिकायाः परतः इत्यर्थः / जघन्यमनुभाग संक्रमयति / कः संक्रमयतीति चेदुच्यते-वैक्रियसप्तकदेवद्विकनरकद्विकानामसंज्ञिपञ्चेन्द्रियः, मनुष्यद्विकोर्चर्गोत्रयोः सूक्ष्मनिगोदः, आहारकसप्तकस्याप्रमत्तः, तीर्थकरस्या विरतसम्यग्दृष्टिः, अनन्तानुबन्धिनां पश्चात्कृतसम्यक्त्वो मिथ्यादृष्टिः संक्रमयतीति। सेसाण सुहुमहयसं-तकम्भिगो तस्स हेट्ठओ जाव। बंधइ तविं एगि-दिओ वऽणेगिंदिओ वाऽवि।।५।। 'सेसाण' त्ति-उक्तेशेषाणां शुभानामशुभानाम् प्रकृतीनां सप्तनवति- | संख्यानां यः सूक्ष्मैकेन्द्रियो वायुकायिकोऽग्रिकायिको वा हतसत्कर्मा, | हतविनाशित प्रभूतमनुभागसत्कर्म येन स हतसत्कर्मा, स तस्यात्मकसत्कस्यानुभागसत्कर्मणोऽधस्तात् ततः स्तोकतरमित्यर्थः, अनुभाग तावद्वध्नाति यावदे केन्द्रियस्तस्मिन्नन्यस्मिन् वा एकेन्द्रियभवे वर्तमानोऽनेकेन्द्रियो वेति, स एव हतसत्कर्मा एकेन्द्रियोऽन्यस्मिन् द्वीन्द्रियादिभवे वर्तमानो यावदन्यं बृहत्तरमनुभागं न बध्नाति तावत्तमेव जघन्यमनुभाग संक्रमयति। तदेवमुक्तोऽनुभागसंक्रमः / सम्प्रति प्रदेशसंक्रमाभिधानावसरः / तत्र चैतेऽर्थाधिकाराः, तद्यथा-सामान्यलक्षणभेदैः साद्यानादिप्ररूपणा। उत्कृष्ट प्रदेशसंक्रमस्वामी जघन्यप्रदेशसंक्रमस्वामी च। तत्र सामा न्यलक्षणप्रतिपादनार्थमाहजं दलियमन्नपगई, निजइ सो संकमो पएसस्स। उव्वलणो विज्झाओ, अहापवत्तो गुणो सव्वो॥६०।। जं 'ति' - यत्संक्रमप्रायोग्यं दलिकं कर्मद्रव्यम् अन्य प्रकृति नीयत अन्यप्रकृतिरूपतया परिणम्यते स प्रदेशसंक्रमः। उक्तं सामान्यलक्षणम / / सम्प्रति भेदमाह- 'उव्वलणो' इत्यादि / प्रदेशसंक्रमः पञ्चधा। तद्यथा-उद्वलनासक्रमः, विध्यातसक्रमः यथाप्रवृत्तसंक्रमः, गुणसंक्रमः, सर्वसंक्रमश्च / तत्र यथोद्देशं निर्देश इति न्यायात्प्रथमत उद्बलनासंक्रमस्य लक्षणमभिधीयते- इहानन्तानुबन्धिचतष्टयसम्यक्त्वसम्यग्मिथ्यात्वदेवद्विकनरकद्विकवैक्रियसप्तकाहारकसप्तकमनुजद्विकोच्चैर्गोत्रलक्षणानां सप्तविंशतिप्रकृतीनां प्रथमतःपल्योपमासंख्येयभागमात्रं स्थितिखण्डमन्तमुहूर्तेन काले नोत्किरति / ततः पुनरपि द्वितीयं स्थितिखण्ड पल्योपमासख्येयभागमात्रमेव, केवलं प्रथमात् स्थितिखण्डात् विशेषहीनमन्तर्मुहूर्तेन कालेनोत्किरति / ततोऽपि तृतीयं स्थितिखण्ड पल्योपमासंख्येयभागमात्रम्, द्वितीयात् स्थितिखण्डात् विशेषहीनमन्तर्मुहूर्तेन कालेनोत्किरति / एवं पल्योपमासंख्येयभागमात्राणि स्थितिखण्डानि पूर्वस्मात् पूर्वस्मात् स्थितिखण्डाद्विशेषहीनानि तावद्वाच्यानि यावत् द्विचरम स्थितिखण्डम् सर्वाण्यपि च तानि प्रत्येकमन्तर्मुहूर्तेन कालेनोत्कीर्यन्ते / इह च द्विधा प्ररूपणाअनन्तरोपनिधया, परम्परोपनिधया च / तत्रानन्तरोपनिधया प्रथमस्थितिखण्डस्य प्रभूता स्थितिः। ततो द्वितीयस्य विशेषहीना। ततोऽपि तृतीयस्य विशेषहीना। एवं यावद् द्विचरम स्थितिखण्डम् / कृताऽनन्तरोपनिधया प्ररूपणा / / संप्रति परम्परोपनिधया क्रियते-तत्र प्रथमस्थितिखण्डापेक्षया कानिचित् स्थितिखण्डानि स्थित्यपेक्षयाऽसंख्येयभागहीनानि, कानिचित्संख्येयभागहीनानि, कानिचित संख्येयगुणहीनानि, कानिचिदसंख्येयगुणहीनानि / यदा तु प्रदेशापरिमाणं चिन्त्यते, तदा प्रथमस्थितिखण्डात् द्वितीयं स्थितिखण्ड दलिकापेक्षया विशेषाधिकम् / ततोऽपि तृतीयं विशेषाधिकम्, एवं तावद्वाच्यं यावत् द्विचरमं स्थितिखण्डम्। इयमनन्तरोपनिधा। परम्परोपनिधा पुनरियम-प्रथमात् स्थितिखण्डाइलिकमपेक्ष्य किंचिदसंख्येयभागाधिकम्, किं चित्संख्येयभागाधिकम् ,किंचित्संख्येयगुणाधिकम्, किंचिदसंख्येयगुणाधिकम्, स्थितिखण्डानां चोत्करणविधिरयम्प्रथमसमये स्तोकं दलिक मुत्किरति। द्वितीये समयेऽसंख्ये -