________________ संकम 24 - अभिधानराजेन्द्रः - भाग 7 संकम त्सुस्तत्कालप्रमाणनियमनार्थमिदमाहउक्कोसगं पबंधिय, आवलियमइच्छिऊण उक्कोसं / जावं न घाणइ तगं, संकमइ य आमुहुत्तंतो / / 5 / / 'उनोसम' ति-मिथ्यादृष्टिरूत्कृष्टमनुभागं बद्ध्वा तत आवलिकामतिक्रम्यः अन्धावलिकायाः परत इत्यर्थः / तमुत्कृष्टमनुभाग संक्रमयति तावधावन्न विनाशयति / कियन्तं कालं यावत्पुनर्न विनाशयतीति चेदुच्यते-आ मुहूर्तान्तः अन्तर्मुहूर्त यावदित्यर्थः। परतो मिथ्यादृष्टिः शुभप्रकृतीनामनुभागं संक्लेशेन अशुभप्रकृतीनां तु विशुद्ध्याऽवश्यं विनाशयति। सम्प्रति स्वामी प्रतिपाद्यतेअसुभाणं अन्नयरो, सुहुम अपज्जत्तगाइ मिच्छो य! वजिय असंखवासा-उए यमणुओववाए य॥५३|| 'असुभाणं' ति-अशुभानां प्रकृतीना पञ्चविधज्ञानावरणनवविधदर्शनावरणासातवेदनीयाष्टाविंशतिविधमोहनीयनरकद्विकतिर्यग्द्विकपञ्चेन्द्रियजातिवर्जशेषजातिचतुष्टयप्रथमवर्जसंस्थानप्रथमवर्ज संहनननीलकृष्णदुरभिगन्धतितकटुकरूक्षशीतकर्क शगुरुपघाताप्रशस्तविहायोगतिस्थावरसूक्ष्मसाधारणापर्याप्तास्थिराशुभदुर्भगदुःखरानादेयायशःकीर्तिनीचैर्गोत्रपञ्चविधान्तरायलक्षणानामष्टाशीतिसंख्यानामन्यतरः सूक्ष्मापर्याप्तादिः, आदिशब्दात्-पर्याप्तसूक्ष्मपर्याप्तापर्याप्तबादरद्वित्रिचतुरिन्द्रियासंज्ञिसंज्ञितिर्यक्पश्चेन्द्रियमनुष्यदेवनारकपरिग्रहः / तत एतेषामन्यतमो मिथ्यादृष्टिरूत्कृष्टमनुभागसंक्रम करोति। केवलमसंख्येयवर्षायुषो मनुष्यतिरश्चोये च देवाः स्वभवाच्च्युत्त्वा मनुष्येषूत्पद्यन्ते तांश्च मनुष्योपपातान् आनतप्रमुखान् देवान् वर्जयित्वा / एते हि मिथ्यादृष्टयोऽपि नाशुभप्रकृतीनामुक्तस्वरूपाणामुत्कृष्टमनुभाग बध्नन्ति, तीव्रसंक्लेशाभावात्। ततश्चोत्कृष्टानुभागसंक्रमाभाव इति तेषां वर्जनम्। सव्वत्थायावुञ्जो-यमणुयगइपंचगाण आऊणं। समयहिगालिगा से-सग त्ति सेसाण जोगंता॥५४॥ 'सव्वत्थ' त्ति-सर्वत्र-सर्वेषु सूक्ष्मापर्याप्तादिषु नैरयिकपर्यवसानेषु असंख्येयवर्षायुस्तिर्यग्मनुष्येषु मनुष्योपपातेषु च देवेषु आनतादिषु मिथ्यादृष्टिषु सम्यादृष्टिषु वा। आतपस्योद्योतस्य मनुजगतिपञ्चकस्य मनुजगतिमनुजानुपूर्योदारिक द्विकवर्षभनाराचसंहननलक्षणस्य अत्रौदारिकद्विकग्रहणादौदारिकसप्तक गृह्यते, तथा विवक्षणात् / ततः सर्वसंख्यया द्वादशानां प्रकृतीनामुत्कृष्टोऽनुभागसंक्रमो वेदितव्यः / तथाहि-सम्यग्दृष्टिः शुभमनुभाग न विनाशयति, किं तु-विशेषतो द्वे षट्षष्टी सागरोपमाणां यावत् परिपालयति। तत उत्कर्षत एतावन्तं कालं यावदुत्कृष्टमनुभागमविनाश्य पञ्चात्सर्वत्र यथायोग्यमुत्पद्यते / ततो मिथ्यादृष्टिष्वप्यनन्तरोक्तप्रकृतीनामुत्कृष्टोऽनुभागसंक्रमोऽन्तर्मुहूर्त काल यावदवाप्यते। आतपोद्योतयोश्चोत्कृष्टोऽनुभागोमिथ्यादृष्टिनेव बध्यते। ततो न तत्र तयोरूत्कृष्टानुभागसंक्रमाभावः / मिथ्यात्वाच प्रतिपत्य सम्यक्त्वं गते सम्यग्दृष्टावपि प्राप्यते। नच सम्यग्दृष्टिः सन्तयोरुत्कृष्ट मनुभागं विनाशयति, शुभप्रकृतित्वात, ततो द्वेषट्षष्टी अपि सागरोपमाणां यावदुत्कर्षतस्तयोस्तत्र संक्रमो द्रष्टव्यः। तथा चतुर्णामायुषामुत्कृष्टमनुभागं बडा बन्धावलिकायामतीतायां यावत्समयाधिकावलिका शेषा तावदुत्कृष्टानुभागसंक्रमः प्राप्यते। शेषाणां तु शुभप्रकृतीनां सातवेदनीयदेवद्विकपञ्चेन्द्रियजातिवैक्रियसप्तकाहारकसप्तकतैजससप्तकसमचतुरस्रसंस्थानशुक्ललोहितहारिद्रवर्णसुरभिगन्धकषायाम्लमधुररसमृदुलघुसिग्धोष्णस्पर्शप्रशस्तविहायोगत्युच्छासागुरुलघुपराघातत्रसादिदशनिर्माणतीर्थकरोचैर्गोत्रलक्षणानां चतुःपञ्चाशत्संख्यामात्मीयात्मीयबन्धव्यवच्छेदसमये उत्कृष्टमनुभागं बद्धवा बन्धावलिकायाः परतस्तावदुत्कृष्टभनुभाग संक्रमयति यावत्सयोगिकेवलिचरमसमयः / तथा चैतासा प्रकृतीनामुत्कृष्टानुभागसंक्रमस्वामिनः प्रायोऽपूर्वकरणादयः सयोगिकेवलिपर्यवसाना द्रष्टव्याः। तदेवमुक्त उत्कृष्टानुभागसंक्रमस्वामी, संप्रतिजघन्यानुभागसंक्रमस्वामिनं प्रतिपिपादयिषुर्जघन्यानुभाग संक्रमसम्भवपरिज्ञानार्थमाहखवगस्संतरकरणे, अकए घाईण सुहुमकम्मुवरिं। केवलिणोऽणंतगुणं, असन्निओ सेसअसुभाणं / / 5 / / 'खवगस्स' ति-यावदद्याप्यन्तरकरणं न विधीयते तावत्क्षपकस्य सर्वघातिनीना देशघातिनीनां च प्रकृतीनां सम्बन्धी अनुभाग: सूक्ष्मैकेन्द्रियसत्कादनुभागसत्कर्मणोऽनन्तगुणो भवति। अन्तरकरणे तु कृते सति सूक्ष्मैकेन्द्रियस्यापिसत्कादनुभागसत्कर्मणो हीनो भवति। तथा शेषाणामप्यघातिनीनामशुभप्रक तीनामसातवेदनीयप्रथमवर्जसंस्थानप्रथमवर्जसंहननकृष्णनीलदुरभिगन्धतिक्तकटुगुरुकर्कशरूक्षशीतोपघाताप्रशस्तविहायोगतिदुर्भगदुःखरानादेयास्थिराशुभापप्तिायशःकीर्तिनीचैर्गोत्रलक्षणानां त्रिंशत्संख्यानां केवलिनोऽनुभागसत्कर्म असज्ञिपञ्चेन्द्रियसत्कादनुभागसत्कर्मणोऽनन्तगुणं वेदितव्यम्। तथा चराति सर्वघातिनीना देशघातिनीनां च प्रकृतीनां जघन्यानुभागसक्रमसम्भवः क्षपकस्यान्तरकरणे कृते सति वेदितव्यः / शेषाणां त्वशुभप्रकृतीनामुक्तरूपाणां जघन्यानुभागसंक्रमसंभवः, न सयोगिकेवलिनि, किंतु-हतस्तकर्मणः सूक्ष्मैकेन्द्रियोदः, तस्यैव वक्ष्यमाणत्वात्। इह 'संकमई य आमुहुत्तंतो' इति वचनात्सम्यग्दृष्टयो मिध्यादृष्टयो वा किलान्तर्मुहूर्तात्परतः सर्वप्रकृतीना मनुभागघात कुर्वन्तीति प्रसक्तम्-तत्रापवादमाहसम्मद्दिट्ठी न हणइ, सुभाणुभागे असम्मट्ठिी वि। सम्मत्तमीसगाणं,उकोसं वजिया खवणं / / 56|| 'सम्पद्दिट्ठि' ति-इह याः शुभप्रकृतयः सातवेदनीयदेवद्विकमनुजद्विकपोन्द्रियजातिप्रथमसंस्थानप्रथमसंहननौदारिकवैक्रियसप्तकाहारकसप्तकतैजससप्तकशुभवर्णाद्येकादशकागुरुलघूपघातो - च्छासातपोद्योतप्रशस्तविहायोगतित्रसादिदशकनिर्माणतीर्थकरोचैर्गोत्रलक्षणाःषट्षष्टिसंख्यास्तासां सर्वासामपि शुभमनुभागमुत्कर्षतो द्वे षट्षष्टीसागरोपमाणां यावत्सम्यग्दृष्टिर्न विनाशयति / असम्यग्दृष्टिमिथ्यादृष्टिः / अपि शब्दात्सम्यग्दृष्टिश्च सम्यग्मिथ्यात्वयोरूत्कृष्टमनुभाग