________________ सम्मद्दिट्टि 514 - अभिधानराजेन्द्रः - भाग 7 सम्मदिद्विगुणट्ठाण एतदेवाहमिथ्यादृष्टिगृहीतं हि, मिथ्यासम्यगपि श्रुतम्। सम्यग्दृष्टिगृहीतं तु, सम्यग्मिथ्येति नः स्थितिः॥२६॥ मिथ्यादृष्टीति-मिथ्यादृष्टिगृहीत हि सम्यगपि श्रुतमाचारादिक मिथ्या भवति, तं प्रति तस्य विपरीतबोधनिमित्तत्वात् / सभ्यग-दृष्टिगृहीतं तु मिथ्यापि श्रुतं वेदपुराणादिकं सम्यक्, तं प्रति तस्य यथार्थबोधनिमित्तत्वात्। इति नः-अत्माकं स्थितिः-सिद्धान्तमर्यादा। प्रमानिमित्तत्वमात्रमेतदभ्युपगतं न तु प्रमाकरणत्वमिति चेन्न, स्वदुक्तं प्रमाकरणत्वमेव प्रमाणत्वमिति सर्वेषां प्रमाणामनभ्युपगमात। तात्पर्य वः स्वसिद्धान्तो-पजीव्यमिति चेन्मतिः। ननु युक्त्युपजीव्यत्यं, द्वयोरप्यविशेषतः॥३०॥ तात्पर्यमिति-वो-युष्माकं स्वसिद्धान्तोपजीव्यस्वसिद्धान्त-पुरस्कार तात्पर्यम्, तथा चान्यागमानुपजीव्यतात्पर्ये सकलवेदप्रामाण्याभ्युपगमनिवेशान्न दोष इति चेद्-यदि तव मतिः, ननु तदा द्वयोरप्यावयोरविशेषतो युक्त्युपजीव्यत्वम्, अयं गावः - अन्यागमानुपजीव्यत्वं हान्यागमा (म) संवादित्वं चेत्तत्संवादिनि स्वाभिप्रायेऽव्याप्तिरयोक्तिका तदसंवादित्व चेदस्माकमपि तात्पर्यमयौक्तिकागमासंवाद्येव, सर्वस्यैव भगवद्वचनस्य युक्तिप्रतिष्ठितत्वात मिथ्याश्रुततात्पर्यस्यापि स्याद्वादसंगयुक्त्यैव गृह्य-माणत्वात्। यतःउद्भावनमनिग्राह्य,युक्तेरेव हि यौक्तिके / प्रमाण्ये च न वेदत्वं,सम्यक्त्वं तु प्रयोजकम् / / 31 / / उद्भावनमिति -याक्तिके ह्यर्थे युक्तेरेवोद्धावनमनिग्राहामनिग्रहस्थानम् अन्यथा निग्रहाभिधानात् / यद्वादी- "जो हेउवायपक्खम्मि हेतुओ आगमे अ आगमिओ। सो समयप्पन्नवओ, सिद्धातविराहगो अन्नो 1 // 1 // इति अथ वेदत्वमेव प्रामाण्यप्रयोजकमित्यभ्युपगमे यावद्वेदप्रमाण्याम्युपगमः स्यादित्यत आह-प्रमाण्ये च वेदत्वं च प्रयोजकं किंतु सस्थत्वगेव, लोकशब्दस्याप्यविसंवादिनः प्रमाणत्वादिति श्रद्धामात्रमेतदिति न किंचिदेतत्। शिष्टत्वमुक्तमत्रैव, भेदेन प्रतियोगिनः। तमानुभविकं बिभ्रत्, परमानन्दवत्यतः // 32 // शिष्टत्यमिति-अतः परोक्तशिष्टलक्षणनिरासात। अत्रैव सम्यग-दृष्टावेव / उक्तम् अंशत: क्षीणदोषत्वम् / शिष्टत्वम्। परमानन्दवति दुर्भेदमिथ्या मोहनीयभेदसमुत्थनिरलिशयानन्दभाजने / शिष्टत्वलिङ्गाभिधानमेन / प्रतियोगिनो दोषरय क्षीयमाणर भेदेन तं भेदभानुभाविक सकलजनानुभवसिद्धं विभ्रत् / भवति हि अयमरमात शिष्टतराऽयममारिछपातम इति सार्वजनीनो व्यवहारः। स चाधिकरतापेक्षयाऽधिकतराधिकतमदोषक्षयविषयतयाऽनुपपद्यते / परेषा तु न कथंचित् सर्वेषा वेदप्रामाण्याभ्युपगमादौ विशेषाभावात। / एलेन वेदविहितार्थानुष्ठातृत्व मित्यकि निस्तरम् / यावतदेकदेशविकल्याभ्यामसंभवारिया प्त्योः प्रसङ्गाच्च / यत्त्वदृष्टसाधनताविषयकमिथ्याज्ञानाभाववत्त्व शिष्टलक्षणमुच्यते तत्त्वस्मदुक्तशिष्टत्वव्यञ्जकमेव युक्तमाभाति, न तु परनीत्या स्वतन्त्रलक्षणमेव / गङ्गाजले कूपजलत्व'रोपानन्तरमिदं कूपजलं नादृष्टसाधनमिति भ्रमवतः कूपज़ल एव गङ्गाजल-त्वारोपानन्तरमिदं गङ्गाजलमदृष्टा (ष्ट) साधनमितिभ्रमवतो गङ्गाजले उच्छिष्टत्वारोपानन्तरं नादृष्टसाधनमिति भ्रमवतश्चाशिष्टत्ववारणायादृष्टसाधनतावच्छेदकरूपपुरस्कारेण निषेधमुखेनादृष्टसाधनतापिरोधिरूपापुरस्कारेण चादृष्टसाधनताविषयकत्वविवक्षायामपि स्वापादिदशायां बौद्धादावतिव्याप्तेरेतावदग्रहेऽपि सर्वत्र शमादिलिङ्गेन शिष्टत्यव्यवहाराच्चेति किमनया कुसृष्ट्या / द्वा० 15 द्वा० / यो० वि० / दर्श०। रांप्रति सम्यगदृष्टिस्वरूपमाविर्भावयंस्तस्य फलमाहएवंविहपरिणामो, सम्मदिट्ठी जिणेहिं पन्नत्तो। एसो उ भवसमुई, लंघइ थोवेण कालेण / / 51 / / एवं विधपरिणामः-उपशमादिलिङ्गयुक्तः तया-विशुद्ध-बुद्धितया सम्यगदृष्टिर्जिनः प्रज्ञप्तः-प्ररूपितः, एष एव च भवसमुद्र-संसारार्णव लड्डयति स्तोकेनापि कालेनेति गाथार्थः / एवं सम्यक्त्वस्याप्येकस्य शिवसुखसाधनाबन्धवर्णनायां कस्यचिदत्यन्तप्रमादवत एकान्तेनात्रैवास्थाबन्धो मा भवत्विति बुद्ध्या सम्यगदृष्टरपि तपसोऽबहुफलत्वप्रतिपादनाय गाथाद्वय-माहसमद्दिट्ठिस्स वि अवि-रयस्स न तवो बहूफलो होइ। हवइ हु हत्थिन्हाणं,बुंदं छिययं व तं तस्स / 52 / / सम्यग्दृष्टरपि न केवलं मिथ्यादृष्टरित्यपिशब्दार्थः, अविरतस्यविरतिरहितस्य तेनैवतपो बहुफलं भवति-जायते। हिशब्दश्चै-वार्थः,ततो हस्तिस्नानमिव-बुन्दा छितमिव वा। यथाहि-हस्ती प्रथम जलेन स्नान विधाय पुनधूल्यावगुण्ठति बुन्दाछितं पुनरेकेन देशेनाकृष्य पुनर्द्धितीयेन पूर्यते एवं सम्यग्दृष्टरपि विरतिरहितस्यैकतस्तपसोपार्जितं शुभमन्यतोऽविरत्या सावधचरणरूपया हार्यते जीवोपमादिगुरुकर्मबन्धहेतुत्वादिति। तथा च-- चरणकरणेहि रहिओ, न सिज्झई सुद्धसम्मदिट्ठी वि। जेणागमम्मि सिट्ठो,रहंधपंगूण दिटुंतो // 53 // चरणकरणाभ्यां-वक्ष्यमाणस्वरूपाभ्यां रहितस्त्युक्तो न सिध्यति न कर्माभावं करोति, सुष्टु-अतिशयेन सम्यग्दृष्टिरपि येन कारणेनागमे भगवदावश्यकनिर्युक्तौ शिष्टः-प्रतिपादितः, रथान्धपग्वादिदृष्टान्तउदाहरणम् / दर्श०५ तत्त्व / सम्यगितिप्रशंसायाम, सम्यक्-प्रशस्ता मोक्षाविरोधित्वात् दर्शनं दृष्टिरथ्यांना जीवादीनामिति गम्यते सम्मग्दृष्टिः / आ०म०१ अ०। सम्यगिति प्रशसार्थः, दर्शन-दृष्टिः सम्यगअविपरीता दृष्टिःसम्यग्दृष्टिः / सम्यक्त्वे, स्त्री० / विशे० / स्था०। सम्मदिद्विगुणट्ठाण- न० (सम्यग्दृष्टिगुणस्थान) द्वितीयगुण-स्थाने, अविरतसम्यग् दृष्टिगुणस्थानत्वेनेद व्याख्यातम्। आचा० 1 श्रु०३ अ० 4 उ०।