________________ सम्मतिट्टि 512 - अमिधानराजेन्द्रः - भाग 7 सम्मद्दिट्टि सम्महिट्टि-पुं० (सम्यग्दृष्टि) सम्यगिति प्रशंसार्थः दर्शनमदृष्टि: पदार्थपरिच्छित्तिः। सूत्र०१ श्रु०१२ अ०। स्था०। प्रज्ञा० / आव० / सम्यग-अविपरीता दृष्टिर्जिनप्रणीतवस्तुप्रतिपत्तिर्यस्त स सम्यग्दृष्टि / नं०। सम्यग्दर्शनधरे,पञ्चा० 8 विव०। आतु०। प्रति०। सम्यग्दर्शनिनि, प्रश्न०५ संव० द्वार। सम्यग्दृष्टिस्वरूप लिङ्गत आहसुस्सूसधम्मराओ, गुरुदेवाणं जहासमाहीए। वेयावच्चे णियमो, सम्मद्दिट्ठिस्स लिगाई।।५।। श्रोतुमिच्छा शुश्रूषा धर्मशास्त्रविषया गेयरागिनरकिन्नरगयशुश्रूषाधिका जिज्ञासोत्तरकालभाविनी / इह च ह्रस्वता प्राकृतत्वात्। तथा धर्मरागःकुशलानुष्ठानानुरागः सामग्रीवैकल्यात्तदकरणेऽपि चेतसोऽनुबन्धः कान्तारातीतदरिद्रब्राहाणहविःपूर्णभोजनाभिलाषातिरिक्तः / तथा गुरुदेवानाधर्माचार्यपरमाराध्यानाम्, यथासमाधिस्वसमाधानानतिक्रमेण न पुनरसद्ग्रहणेन वैयावृत्त्ये व्यावृ (पृ) तभावे तत्कर्मणि वा नियमो नियोगोऽवश्यं मयैतद् गुरुकार्य देवकार्य वा कर्तव्यमित्यभिनिवेशलक्षणों गुणज्ञ श्रद्धालुमनुष्यचिन्तामणिवैयावृत्त्यनियमाधिकः। इह चशब्दो लुप्तो द्रष्टव्यः। किमित्याह-सम्यग्दृष्टरविरतसम्यग्दर्शनिनो जीवस्य लिङ्गानिलक्षणानि भवन्ति ग्रन्थिभेदेन तत्त्वे तीव्रभावात्। इति गाथार्थः / पञ्चा० 3 विव० संप्रति सम्यग्दृष्टेः स्वरूपमाहसम्मद्दिट्ठी जीवो, उवइ8 पवयणं तु सद्दहइ। सद्दहइ असब्भावं, अजाणमाणो गुरुनियोगा।॥२४॥ 'सम्मद्दिहि' त्ति-सम्यग्दृष्टिीवो गुरुभिरुपदिष्ट प्रवचनं नियमात्यथावत् श्रद्धत्ते, एवं तुरेवकारार्थो, भिन्नक्रमश्चा यः पुनः सम्यदृगदृष्टिरपि असद्भावम्-असद्भुत प्रवचनं श्रद्दधाति सोऽवश्यमजानन् स्वयं सम्यक्परिज्ञानविकलः सन् / यदागुरोस्तथाविधसम्यकपरिज्ञानाविकलस्य मिथ्यादृष्ट्वा जमालिप्रख्यस्य नियोगादाज्ञापारतन्त्र्यात्, नान्यथा। क० प्र०६प्रक०। अपुनर्बन्धकोत्तरं सम्यग्दृष्टिर्भवतीति तत्स्वरूपमाहलक्ष्यते ग्रन्थिभेदेन, सम्यग्दृष्टिः स्वतन्त्रतः। शुश्रूषाधर्मरागाभ्यां,गुरुदेवादिपूजया / / 1 / / लक्ष्यते इति-ग्रन्थिभेदेन-अतितीव्र रागद्वेषपरिणामविदारणेन स्वतन्त्रतः-सिद्धान्तनीत्या सम्यग्दृष्टिः लक्ष्यते / सम्यग्दर्शनपरिणामात्मनाऽप्रत्यक्षोऽप्यनुमीयते / शुश्रूषाधर्मरागाभ्यां तथा गुरुदेवादिपूजया त्रिभिरेतैर्लिङ्गः, यदाह- "शुश्रूषाधर्मरागश्च, गुरुदेवादिपूजनम्। यथाशक्ति विनिर्दिष्ट, लिङ्गमस्य महात्मभिः।।१।।' भोगिकिन्नरगेयादि-विषयाधिक्यमीयुषी। शुश्रूषाऽस्य न सुप्तेश-कथार्थविषयोपमा।।२।। भोगीति- भोगिनो-यौवनवैदग्ध्यकान्तासन्निधानवतः कामिनः किन्नरादीना गायकविशेषाणां गेयादौ-गीतवर्णपरिवर्ताभ्यासकथाकथनादौ विषयः-श्रवणरसस्तस्मादाधिक्यम-अतिशयम ईयुषी- / प्राप्तवती किन्नरगेयादिजिनोक्तयोर्हेत्वोस्तुच्छत्वमहत्त्वाभ्यामतिभेदोपलम्भात् / अस्य सम्यग्दृष्टः शुश्रूषा भवति / न परं सुप्तेशस्य सुप्तनृपस्य कथार्थविषयः संमुग्धकथार्थश्रवणाभिप्रायलक्षणः तदुपमा तत्सदृशीअसंबद्धतत्तदज्ञानलवफलायास्तस्या दौर्वेदग्ध्यबीजत्वात्। अप्राप्ते भगवद्वाक्ये, धावत्यस्य मनो यथा। विशेषदर्शिनोऽर्थेषु, प्राप्तपूर्वेषु नो तथा / / 3 / / अप्राप्त इति-अस्य-सम्यग्दृशः अप्राप्ते-पूर्वमश्नुते भगवद्वाक्येवीतरागवचने यथा मनो धावति-श्रोतुमनुपेरतेच्छ भवति। यथा विशेषदर्शिनः सतः प्राप्तपूर्वेष्वर्थेषु धनकुटुम्बादिषु न धावति / विशेषदर्शननापूर्वत्वभ्रमस्य दोषस्य चोच्छेदात्। धर्मरागोऽधिको भावा द्रोगिनः स्त्र्यादिरागतः। प्रवृत्तिस्त्वन्यथापि स्या-त्कर्मणो बलवत्तया।।४।। धर्मराग इति-धर्मरागश्चारित्रधर्मस्पृहारूपः अधिक:-प्रकर्षवान् भावतः-अन्तःकरणपरिणत्या भोगिनो-भोगशालिनः स्त्र्यादिरागतो भामिन्याद्यभिलाषात् / प्रवृत्तिस्तुकायचेष्टा तु अन्यथापिचारित्रधर्मप्रातिकूल्येनापि व्यापारादिना स्यात् / कर्मणश्चारित्र-मोहनीयस्य बलवत्तया नियतप्रबलविपाकतया। तदलाभेऽपि तद्राग-बलवत्त्वं न दुर्वचम्। पूयिकाद्यपि यद्भुङ्क्ते, घृतपूर्णप्रियो द्विजः / / 5 / / तदिति-तदलाभेऽपि कथंचिदन्यथाप्रवृत्त्या चारित्राप्राप्तावपि। तद्रागबलवत्त्वं चारित्रेच्छाप्राबल्यं स्वहेतुसिद्धम्। न-नैव द्रुर्वच-दुरभिधानम्। यद्-यस्मात्तथाविधविषमप्रघट्टकवशात् / पूयिका-द्यपि पूर्य-नाम कुथितो रसस्तदस्यास्तीति पूयिकम्। आदिशब्दाद्-रूक्षं पर्युषितं च वलचनकादि / किं पुनरितरदित्यपिशब्दार्थः / घृतपूर्णाः प्रिया-वल्लभा यस्य स तथा। द्विजो-ब्राह्मणो भुङ्क्ते -अभाति यदत्र द्विजग्रहण कृत तदस्य जातिप्रत्ययादेव अन्यत्र भोक्तुमिच्छाया अभावादिति। अन्येच्छाकालेऽपि प्रबलेच्छाया वासनात्मना न नाश इति तात्पर्यम्। गुरुदेवादिपूजाऽस्य, त्यागात्कार्यान्तरस्य च। भावसारा विनिर्दिष्टा, निजशक्त्यनतिक्रमात् / / 6 / / गुर्विति-अस्य सम्यगदृशः गुरुदेवादिपूजा च कार्यान्तरस्यत्यागभोगादिकरणीयस्य त्यागात्-परिहारात् निजशक्तेः स्वसामर्थ्यस्यानति (क्रमात्) लङ्घनादनिगूहनात्। भावसारा भोक्तुः स्त्रीरत्नगोचरगौरवादनन्तगुणेन बहुमानेन प्रधाना विनिर्दिष्टा प्ररूपिता परमपुरुषैः / स्यादीदृक्करणे चान्त्ये, सत्त्वानां परिणामतः। त्रिधा यथाप्रवृत्तं त-दपूर्व चानिवर्ति च / / 7 / / स्यादिति-ईदृगुपदर्शितलक्षणं सम्यक्त्वं चान्त्ये करणे "जाते सतीति' गम्यम् / स्याद्-भवेत् तत् करणं सत्त्वाना-प्राणिना परिणामतः त्रिधात्रिप्रकार यथाप्रवृत्तम् अपूर्वम् अनिवर्ति चेति। ग्रन्थिं यावद्भवेदाद्यं, द्वितीयं तदतिक्रमे / भिन्नग्रन्थेस्तृतीयं तु, योगिनाथैः प्रदर्शितम्||८|| गन्थिमिति - आद्यं यथाप्रवृत्त करणं गुन्थिं यावद्भवे त्,