________________ सम्मइंसण 511 - अभिधानराजेन्द्रः - भाग 7 सम्मदा कुरं मुश्चात / एवमुपशमितमपि मिथ्यात्वं कालमपेक्ष्य पुनरुद्रिक्ती भवतीति द्वयोरपि प्रतिपातः तथा चाह-द्वयोरप्युपशमिकयोरेतौ भवतो दृष्टान्तौ, तत्रापशमश्रेणिगत औपशमिकसम्यग्दर्शनी देशप्रतिपातेन वा प्रतिपतति सर्वप्रपितातेन वा, इतरोऽवश्यमेव सर्वप्रतिपातेन प्रतिपतति; मिथ्यात्वं गच्छति इत्यर्थः। तत्र दृष्टान्तमाहआलंबणमलहंति,जह सट्ठाणं न मुंचए हलिया। एवं अकयतिपुंजो, मिच्छंचिंय उवसमी एति॥१२५।। इह या तृणादिषु सुखप्रदेशेन सर्वतोऽग्रेतनं स्थानं परिच्यवतोऽग्रेतनं स्थानं संक्रामति, अन्यथा पश्चाद्वलते,स इलिका यथा पुरत आलम्बनमलभमाना स्वस्थानं न मुञ्चति एवमकृतत्रिपुञ्जो गत्यन्तराभावात् मिथ्यात्वमेवोपशमयति। इयमत्र भावना-द्विविधस्तत्प्रथमतया सम्यग्दर्शनप्रतिपत्ता अतिविशुद्धो मन्दविशुद्धश्च / तत्र यः अतिविशुद्धः सोऽपूर्वकरणमारूढो मिथ्यात्वं त्रिपुञ्जी-करोति कृत्वा चानिवृत्तिकरणे प्रविष्टस्तत्प्रथमतया क्षायोपशमिकं सम्यग्दर्शनमासादयति सम्यक्त्वपुजोदयात् / यस्तु मन्दविशुद्धः सोऽपूर्वकरणमप्यारूढस्तीव्राध्यवसायाभावात् न मिथ्यात्वं त्रिपुञ्जीकर्तुमलम्, ततोनिवृत्तिकरणमुपगतोऽत्र करणं कृत्वा तत्र प्रविष्टस्तत्प्रथमतया औपशमिकसम्यग्दर्शन तु भवति, अन्तरकरणं चान्तर्मुहूर्तप्रमाणमतस्तदद्धाज्ञये अन्येषां पुद्गलानामभावतो मिथ्यात्वमेति। एतदेवाहखीणम्मि उदिन्नम्मि, अणुइज्जतेयसेसम्मिच्छत्ते। अंतोमुहुत्तकालं,उवसमसम्मलहइजीवो // 126 / / अनिवृत्तिकरणे प्रविष्टस्य यत् मिथ्यात्वमुदीर्णमुदयाव लिकाप्रविष्ट तस्मिन् क्षीणे शेषे च मिथ्यात्वेऽपान्तराले उत्तरकरणतोऽनुदीयमानेऽन्तर्मुहूर्नकालमौपशमिकं सम्यक्त्वं जीवो लभते मिथ्यात्वदर्शनवेदनाभावात् / सोऽपि कथमित्यत आहऊसरदेसंदवि-लयंच विज्झाइवणदवो पप्प। इय मिच्छत्त (स्स) अणुदए, उवसमसम्मं मुणेयवं१२७ यथा वनदवः ऊषरं देश-तृणादिरहितं प्रदेश दग्धं वा प्राप्य विध्मापयति, इति-एवमन्तरकरणे प्रविष्टस्य मिथ्यात्वपुद्गलाभावान्मिथ्यात्वस्यमिथ्यादर्शनस्याऽनुदयावेदनं ततस्तस्मिन्सत्यौपशमिकं सम्यक्त्वं ज्ञातव्यम्। किंचजिल्ली (म्ही) भवंति उदया, कम्माणं अस्थि सुत्तउवदेसो / उदवावादी सायं, जह नेरइया अणुभवंति / / 128|| द्विविधेऽप्यौपशमिकसम्यग्दृष्टौ शेषाणामपि कर्मणामुदयात् जिल्लीभवन्तिन चैतद्ववचनमात्रं यतोऽस्त्येव तत्र ग्रन्थान्तर रूपे साक्षादुपदेशो यथा-नरयिका उपपातादौ सातमनुभवन्तीति। एनामेव दर्शयतिउववाएण व सायं, नेरइओ देवकम्मुणा वावि। अज्झवसाणनिमित्तं, अहवा कम्माणुभावेणं // 126 / / नरयिक उपपातेन सातमनुभवति, किमुक्तं भवति-उपपातकाले सातं वेदयते | तदानीं हि न तस्य क्षेत्रजा वेदना न परस्परोदीरितानपि परमाधामिकोदीरितेति / अथवा-देवकर्मणादेवक्रियया सातमनुभवति, देवो हि कश्चित् महर्द्धिकः पूर्वभवस्नेहतः तत्र गत्वा कस्यापि किंचित्कालं वेदनामुपशमयति ततः सातं वेदयते। अथवा-अध्यवसाननिमित्तं तथाविधशुभाध्यवसायप्रवृत्तिनिमित्तं सातमासादयति यथा सम्यग्दर्शनं लभमानः, सम्यग्दर्शनलाभे हि जात्यन्धस्य चक्षुलाभ इव जायते महान प्रसाद इति। अहवा कम्माणुभावेणं' ति, अथवा-तीर्थकरजन्माद्यधिकृत्य यः कर्मणां सातवेदनीयप्रभृतीनां शुभानामनुभव:अनुभवनमुदयेन वेदनं तेन सातमनुभवति, तथाहि-भगवतां तीर्थकृता जन्मनि दीक्षादिने च तत्प्रभावतो नरकेऽप्यालोको जायते, नैरयिकाणामपि शुभकर्मोदये प्रसरति सातमिति / अथ मिथ्यादृष्टियंदा सम्यक्त्वं संक्रामति तदा स तत्समयं कतिज्ञानानि लभते-उच्यते द्वे त्रीणि वा। तथा चाहविभंगी उ परिणमं, सम्मत्तं लहति मतिसुतोहीणि। तयभावम्मि मतिसुते, सुतलंभ केइ उभयं ति // 130 / / विभङ्गी-विभङ्गज्ञानी सम्यक्त्वं परिणमयन् तत्समये मतिश्रुतावधीन् लभते, तदभावे -तस्य विभङ्ग स्याभावे मिथ्यादर्शनी सम्यक्त्वं परिणमयन् तत्काल मतिश्रुते-मतिज्ञानश्रुतज्ञाने लभते, केचित्पुनः श्रुतलाभं भजन्ति-विकल्पयन्ति यस्याधीतं श्रुतं सलभते श्रुतज्ञानमितरो नलभते इत्याचक्षते इति भावः। तथाहि-ये स्वयंभूरमणसमुद्रे मत्स्यास्ते प्रतिमासं स्थितान् मत्स्यान् उत्पलानि वा दृष्टे हापोहादि कुर्वन्तो जातिस्मरणतः सम्यक्त्वमासादयन्ति आभिनिबोधिकज्ञानं च, ये तु श्रुतज्ञानं तत्रासादयन्त्य-नधीतश्रुतत्वात् ये त्वधीतश्रुतास्ते त्रीण्यपि युगपदासादयन्ति। एतद् दूषयितुमाहअन्नाणमती मिच्छे, जबम्मि मतिणाण तं जहा एति। एमेव य सुयलंभो, सुयअन्नाणे परिणयम्मि॥१३१।। यथा मिथ्यात्वे त्यक्ते मतिरज्ञानस्वरूपा मतिज्ञानतामेति एवमेव श्रुतज्ञाने परिणतोपगते श्रुतलाभो भवति / किं च ते प्रष्टव्याः सम्यक्त्वलाभसमये श्रुतज्ञानमस्ति किं वा न? तत्र यद्याद्यः पक्षस्तर्हि तस्याज्ञानित्वान्मिथ्यादृष्टित्वप्रसङ्गः। अथ नास्ति तर्हि श्रुताज्ञानमपि के वलमाभिनिबोधिक ज्ञानं स्यान्न चैतदुपपन्नं श्रुतज्ञानमन्तरेण केवलस्याभिनिबोधिकज्ञानस्याभावात् 'जत्थमतिनाणं तत्थ सुयनाणं, जत्थ सुयनाणं तत्थ मतिणाणं। दो वि सयाइ अण्णोन्नसमणुगयाइ' इति वचनादिति / तदेवमुक्तमौपशमिकं सम्यक्त्वम्। बृ०१ उ०१प्रक०। आ० चू०। सम्मसणजोग-पुं० (सम्यगदर्शनयोग) तत्त्वार्थश्रद्धानसंबन्धे, षो० 11 विव०। सम्मदा-स्त्री० (सम्मा ) दुष्प्रत्युपेक्षणाभेदे,यत्र च वस्त्रस्य मध्यप्रदेशे सवलिता कोणा भवन्ति यत्र वा प्रत्युपेक्षणीयोपधिवेण्टिकायामेवोपविश्य प्रत्युपेक्ष्यते सा सम्मदति। स्था०६ठा०३ उ०11०1 पं० व०। उत्त०।