________________ सम्मत्त 503 - अभिधानराजेन्द्रः - भाग 7 सम्मत्तपरक्कम इति / / 57 / / सेन० 3 उल्ला० / दर्शनसम्यक्त्वयोः कः प्रतिविशेषः? येन द्वयोरप्यतीचाराः,परमार्थतः परस्परं केचन सदृशा एव दृश्यन्ते,तेन तयाळक्त्या भेदः प्रसाद्य इति प्रश्नः? अत्रोत्तरम्-दर्शनसम्यक्त्वयोर्वस्तुगत्याऽभेदेऽपि कथञ्चिन्निः शङ्कित्वाद्यभाव एव सम्यक्त्वातिचार उच्यते, शङ्कादिसद्भावस्तु दर्शनातिचार इति व्यक्तं प्रवचनसारोद्धारवृत्तौ / षष्ठं द्वारे॥३८० सेन०३ उल्ला०। सम्मत्तं- न० (सम्यक्त्वाङ्ग) सम्यक्त्वप्रधानस्याङ्गीभूते सम्यक्त्व फलनैव फलपति, प्रति सम्मत्तकारण-त्रि० (सम्यक्त्वकारण) सम्यक्त्वं कारणमस्येति / सम्यक्त्वजन्ये,पं० सं०१ द्वार। सम्मत्तकिरिया-स्त्री० (सम्यक्त्वक्रिया) सम्यक्त्वं-तत्त्वश्रद्धानं तदेव जीवव्यापारत्वान्क्रिया सम्यक्त्वस्य क्रिया सम्यक्त्वक्रिया। सम्यग्दर्शने वा सति क्रिया सम्यक्त्वक्रिया। स्था०२ ठा०१ उ०। क्रियाभेदे, यया सम्यग्यर्शनयोग्याः कर्मप्रकृतीः सप्तसप्ततिसङ्ख्याः पध्नाति सा सम्यक्त्वक्रिया अभिधीयते। सूत्र०२ श्रु०२ अ० / सम्मत्तणाणचरणाणुवाई- त्रि० (सम्यक्त्वज्ञानचरणानुपातिन्) सम्यक्त्व - सर्शन झानं- सद्बोधरूपं चरणम् - आगमानुसारि ब्रियानुष्ठानं सम्यकत्वं च ज्ञानं चेति एकवद्भा, वात्तान्यनुपततीत्येवं शलः सम्यक्त्वज्ञानचरणानुपाती। मोक्षमार्गानुगे दर्श० 4 तत्त्व। सम्मत्तदंसि(ण)- त्रिः (सम्यक्त्वदर्शिन्) सम्यक् तत्त्वं सम्यक्त्वं तद्दी / परमार्थ दर्शिनि, आचा०१ श्रु०२ अ०६ उ० सम्भत्तपज्जव- पुं० (सम्यक्त्वपर्यव) सम्यक्त्वपरिणामविशेष, ज्ञा०१ श्रु०१३ अ०। सम्मत्तपरक्कम- न० (सम्यक्त्वपराक्रम) सम्यक्त्वे सति वर्द्धमानगुणैः कर्मशत्रुजयलक्षण: पराक्रमी-बलं यस्मिस्तत् सम्यक्त्वपराक्रम् / उत्तराध्ययनग्ना-कोनत्रिंशेऽध्ययने, उत्त०१८ अ०। ज्ञानादीनि मुक्तिमार्गत्वेनोक्तानि संवेगादिमूलानि अकर्मतावसानानि तानीहोच्यन्ते। अस्याध्ययनस्य चत्वार्यनुयोगद्वाराणि व्यावर्ण्य नामनिष्पन्ननिक्षेपोऽभिधेयः, स च नामपूर्वक इत्येतन्नामनिर्देशायाह नियुक्तिकृत् - आयाणपएणेयं,सम्मत्तपरक्कमति अज्झयणं। गुण्णं तु अप्पमायं, एगे पुण वीयरागसुयं / / 503 / / आदीयत इत्यादानम् -आदिः प्रथममित्यर्थः, तच्च तत्पदं चनिराकाङ्गतया र्थगमकत्वेन वाक्यमेवादानपदं तेन, उपचारतश्चेह तदभिहितमपि तथोक्तं तल आदानपदाभिहितेन प्रक्रमान्नाम्न 'इद' मिति प्रस्तुतं सम्यक्त्वपराक्रमम् इति-उपप्रदर्शने, उच्यत इति शेषः, 'अध्ययन' प्रागुक्तनिरुक्त, वक्ष्यति हि- "इह खलु सम्मत्तपरक्कमे णामऽज्झयणे पण्णत्ते'' त्ति, गुणैर्हि निर्वृत्तं गौणम्, तुः-अवधारणे गौणमेव, अप्रमाद इत्युपलक्षणत्वाद् अप्रमादश्रुतम्, एके पुनर्वीतरागश्रुतं, कोऽर्थः?-संवगादयोऽत्र वर्ण्यन्ते, तद्रप एव च तत्त्वतोऽप्रमाद इति तदभिधायि श्रुतरूपत्वादप्रमादश्रुतमिति ब्रुवते, अन्ये त्वप्रमादोऽपि वीतरागताफल इति तत्प्राधान्याश्रयणतो वीतराश्रुतमिति गाथार्थः / / अत्र चादानपदनामः सूत्रान्तर्गतत्वा सूत्रस्पर्शिकनियुक्तरेव तत्र व्यापार इति तदुपेक्ष्य वीतरागश्रुतनाम च तस्य केषाञ्चिदेवाभिमतत्वात् 'मध्यग्रहणे आद्यन्तौ गृहीतादेव भवत' इति न्यायतो वा द्वयमप्यनादृत्याप्रमादश्रुतनिक्षेपमभिधातुमाहनिक्खेवो अपमाए, चउव्विहो दुविहो उ होइ दवम्मि। आगम नोआगमतो, नोआगमतो य सो तिविहो / / 504|| जाणगभवियसरीरे, तव्वइरित्ते अमित्तमाईसु। भावे अन्नाणअसं-वराईसु होइ नायव्वो।।५०५।। निक्खेव्वो असुअम्मि, चउक्कओ दुविहो य होइ दवम्मि। आगम नोआगमतो, नोआगमतो य सो तिविहो।।५०६|| जाणगभवियसरीरे, तव्वइरिते असो उपंचविहो। अंडयबोंडयवालय-वागय तह कीडए चेव / / 507 / / भावसुअंपुण दुविहं, सम्मसुअंचेव होइ मिच्छसुयं / अहियारो सम्मसुए, इहमज्झयणम्मि नायव्वो॥५०८।। गाथापञ्चक प्रायः प्रतीतार्थमेव, नवरम् 'अमित्तमाईसु' ति-अमित्राः शत्रवः आदिशब्दाद्-व्यालादिपरिग्रहस्तेषु योऽप्रमादः स तद्व्यतिरिक्तोऽप्रमाद उच्यते,द्रव्यत्वं चास्य तथाविधाप्रमादकार्याप्रसाधकत्वात् द्रव्यविषयत्वाद्वा, भाव इति-भावे विचार्ये अज्ञानंमिथ्याज्ञानमसंवरःअनिरुद्धाश्रवता, आदिशब्दात्-कषायपरिग्रहः, एतेषु प्रक्रमादप्रमादःएतजय प्रति सदा साव-धानतारूपो भवति ज्ञातव्यः / तथा 'सो उ पंचविधो' त्ति-स इति तत्-तद्व्यतिरिक्तसूत्रं तुः-पुनरर्थे पञ्चविधंपञ्चप्रकार,पञ्च-विधत्वमेवाह- अण्डज-हंसाद्यण्डकेभ्यो यज्जायते यथा क्वचि-त्पट्टसूत्रं, पौण्डकं (वोण्डज) यद्वमनितिन्दुकोद्भवं यथा कास-सूत्रम्, बालजं यदूरणकादिकेशोत्पन्नं यथोर्णासूत्रम्,वाकजं-सनाऽतस्यादिवाकेभ्यो यज्जायते यथा सनसूत्रम्, कीटजं च यत्तथाविधकीटभ्यो लालात्मक प्रभवति यथा पट्टसूत्रम्, तथा सम्यक्श्रुतम्अङ्ग प्रविष्टादि मिथ्याश्रुतं-कनक-सप्तत्यादि, अधिकार:-प्रकृतं सम्यकश्रुतेन, सुब्ब्यत्ययात्तृतीयार्थे सप्तमी, इह-अध्ययने ज्ञातव्यःअवबोद्धव्यः, तद्रूपत्वादस्येति गाथा-पचकार्थः। सम्प्रति गौणतामेवास्य नाम्नो वक्तुमाहसम्मत्तमप्पमाओ, इहमज्झयणम्मि वण्णिओ जेणं / तम्हेयं अज्झयणं, णायव्वं अप्पमायसुअं॥५०६।। 'सम्मत्त ति-सुब्यत्ययात्सम्यक्त्वे उपलक्षणत्वाज्ज्ञानादिषु चाप्रमाद उक्तन्यायेन संवेगादिफलोपदर्शनतः काक्वा तदनुष्ठानं प्रत्युद्यमदर्शनेन वा 'इहमज्झयणम्मि' त्ति इहाध्ययने वर्णितो येन तस्मादेतदध्ययन ज्ञातव्यम्, अप्रमादश्रुतम्-अप्रमादश्रुतनाम-कमिति गाथार्थः / गतो नामनिष्पन्ननिक्षेपः। सम्प्रति सूत्रानुगमे सूत्रमुच्चारणीयं, तबेदम्सुयं में आउसंतेणं भगवया एवमक्खायं-इह खलु सम्मत्तपरक्कमे नामज्झयणे समजेणं भगवया महावीरेणं कासवेणं पवेइयं जं सम्म सद्दहित्ता पत्तइत्ता रोयइत्ता फासित्ता पाल