________________ सम्मत्त 501 - अभिधानराजेन्द्रः - भाग 7 सम्मत्त तदुक्तम्'सम्मत्तम्मि उ लद्धे, पलियपुहुत्तेण सावओ होज्जा। चरणोवसमखयाण, सागरसखंतरा होति / / 1 / / " पल्यापमपृथक्त्वादिवेद्यस्य च कर्मणो हासोऽनुक्रमेण स्थाद्वीर्योलासात्करणान्तरप्रवृत्तेरतिशीघ्रकालेन वा। तदुक्तम्- "एवं अप्परिवडिए, सम्मत्ते देवमणुयजम्मेसु। अन्नयरसेढिवज, एगभ-वेणं च सव्वाई |1||" ननु यदा सम्यक्त्वयुक्त एव नवपल्योपमातिरिक्तस्थितिकदेवेषुत्पद्यते, तदा देवभवे विरतेरभावात्, कथं 'सम्मत्तम्मि उ लद्धे, पलियपुहुत्तेण सावओ होजा' इत्येतद् घटते? अत्रोच्यते- तस्यामवस्थायां यावती स्थिति क्षपयति यावतीमन्यां बध्नाति.ततो देशोनसागरोपमकोटीकोटीरूपाया अधिकृतकर्मस्थितेः पल्योपमपृथक्त्वस्य नापगमो भवतीति न देवभवादौ देशविरतिलाभः स्यादिति न विरोधः / तदेवं सम्य-वत्वलाभेऽपि व्रतप्रतिपत्तौ भजनेति स्थितमिति गाथार्थः। पञ्चा० 1 विव० / ध०। (सम्यगदृष्टयूँनार्द्ध-पुद्गलपरावर्तः संसारः 'संसार' शब्देऽस्मिन्नेव भागे गतः।) इदानीं "सम्मत्ताईणुत्तम -गुणाणलाहंतर तुउकोसमि" त्वेकोनपञ्चाशदधिकद्विशततमं द्वारमाहसम्मत्तम्मि उलद्धे, पलियपुहुत्तेण सावओ होज्जा। चरणोवसमखयाणं,सायरसंखंतरा होंति॥१३९८|| यावत्यां कर्मस्थितौ सम्यक्त्वं लब्धं तन्मध्यात्पल्योपमपृथवत्वलक्षणे स्थितिखण्डे क्षपिते श्रावको देशविरतो भवेत्ततश्चरणोपशमक्षयाणामन्तरा संरख्यातानि सागरोपमाणि भवन्ति / इयमत्र भावना-देशविरतिप्राप्त्यनन्तरं संख्यातेषु सागरोपमेषु क्षपितेषु चारित्रमवाप्नोति, ततोऽपि संख्यातेषु सागरोपमेषु क्षपितेषु उपशमश्रेणि प्रतिपद्यते, ततोऽपि संख्यातेषु सागरोपमेषु क्षपकश्रेणिर्भवति. ततस्तद्भवे मोक्ष इति। एवमप्रतिपतितसम्यक्त्वस्य देवमनुष्यजन्मसुसंसरणं कुर्वतः अन्योन्यमनुष्यभवे देशविरत्यादिलाभो भवति / यदिवा-तीव्रशुभपरिणामवशात् क्षपितबहुकर्मस्थितेरेकस्मिन्नपि भवेऽन्यतरश्रेणिवर्जान्येतानि सर्वाण्यपि भवन्ति, श्रेणिद्वयं त्वेकस्मिन् भवे सैद्धान्तिकाभिप्रायेण न भवत्येव किं त्वेकैवोपशमश्रेणिः क्षपक श्रेणिर्वा भवतीति। उक्तं च- "एवं अप्परिवडिए,सम्मत्ते देवमणुअजम्मेसु। अन्नयरसेढिवज,एग भवेणं च सव्वाई॥१॥"प्रव०२४६ द्वार। श्रा०ानं०। सम्यक्त्वे सम्यवत्विनः / 'जात्यन्धस्य यथा पुंसश्चक्षुर्लाभ शुभोदये / सदृर्शन तथैवास्य, सम्यक्त्वे सति जायते // 1 // आनन्दो जायतेऽत्यन्तं, सात्विकोऽस्य महात्मनः। सद्बोध्यपगमे यद्वद्, व्याधितस्य सदोषधम् ||शा कर्म०५ कर्म०। श्रा०। (34) इदं च सम्यक्त्वमात्मपरिणामरूपत्वाच्छास्थेन दु लक्ष्यमिति लक्षणमाहतं उवसमसंवेगा-इएहि लक्खिजई उवाएहिं। आयपरिणामरूवं, बज्झेहिं पसत्थजोगेहिं / / 53|| तत्सम्यक्त्वमुपशमसवेगादिभिरिति उपशान्तिः-उपशमः संवेगो- | मोक्षाभिलाषः आदिशब्दान्निर्वेदानुकम्पास्तिक्यपरिग्रहः, लक्ष्यतेचियते एभिरुपशमादिभिर्बाःि प्रशस्तयोगैरिति संबन्धः, बाह्यवस्तुविषयत्वाद्वाहाः प्रशस्तयोगाः- शोभनव्यापारास्तैः, किं विशिष्ट तत्सम्यक्त्वम् ? आत्मपरिणामरूपम्-जीवधर्मरूपमिति। तथा चाहइत्थव परिणामो खलु, जीवस्स सुहो उहोइ विन्नेओ। किंमलकलंकमुक्कं,कणगं मुवि सामलं होइ॥५॥ अत्र च सम्यक्त्वे सति किं परिणामोऽध्यवसायः खलुशब्दोऽवधारणार्थः,जीवस्य शुभ एव भवति-विज्ञेयो नत्वशुभः / अथवा-किमत्र चित्रमिति। प्रतिवस्तूपमामाह-कि मलकलडरहितं कनकं भुवि ध्यामलं भवति, न भवतीत्यर्थः / एवमत्रापि मलकलङ्कस्थानीय प्रभूतं क्लिष्ट कर्म ध्यामलत्वतुल्यस्त्वशुभपरिणामः,स प्रभूते क्लिष्ट कर्मणि क्षीणे जीवस्य न भवति। प्रशमादीनामेव बाह्ययोगत्वमुपदर्शयन्नाहपयई वा कम्माणं, वियाणिओवा विवागमसुहं ति। अवरद्धे विन कुप्पइ, उवसमओ सव्वकालं पि॥५५।। प्रकृत्या वा सम्यक्त्वाणुवेदकजीवस्वभावेन वा कर्मणां कषायनिबन्धनानां विज्ञाय वा विपाकमशुभमिति / तथाहि-कषायाविष्टोऽन्तर्मुहूर्तेन यत्कर्म बध्नाति तदनेकाभिः सागरोपम-कोटाकोटिभिरपि दुःखेन वेदयतीत्यशुभो विपाकः / एतत् ज्ञात्वा किम् अपराद्ध्येऽपि न कुप्यति? अपराध्यत इति अपराद्धयः-प्रतिकूलकारी तस्मिन्नपि कोपं न गच्छत्युपशमतः-उपशमेन हेतुना सर्वकालमपि यावत्सम्यक्त्वपरिणाम इति। तथानरविबुहेसरसुक्खं, दुक्खं चिय भावओय मन्नतो। संवेगओन मुक्खं,मुत्तूणं किंचि पत्थेइ।।५६|| नरविबुधेश्वरसौख्य,चक्रवर्तीन्द्रसौख्यमित्यर्थः, अस्वाभाविकत्वात् कर्मजनितत्वात्सावसानत्वाच दुःखमेव भावतः परमार्थतो मन्यमानः संवेगतः संवेगेन हेतुना न मोक्षं स्वाभाविकजीवरूपमकर्मजमपर्यवसानं मुक्त्वा किंचित्प्रार्थयते-अभिलषतीति। नारयतिरियनरामर-भवेसु निव्वेयओ वसइदुक्खं / अकयपरलोयमग्गो, ममत्तविसवेगरहिओ वि॥५७।। नारकतिर्यगरामरभवेषु सर्वेष्वेव निर्वेदतो-निवेदने कारणेन वसति दुःखम् / किं विशिष्टः सन्? अकृतपरलोकमार्गः- अकृतसदनुष्ठान इत्यर्थः / अयं हि जीवलोके परलोकानुष्ठानमन्तरेण सर्वमे-वासारं मन्यते इति / ममत्वविषवेगरहितोऽपि तथा ह्ययं प्रकृत्या निर्ममत्व एव भवति विदिततत्त्वत्वादिति। तथादठूण पाणिनिवहं, भीमे भवसागरम्मि दुक्खत्तं। अविसेसओऽणुकंपं, दुहा वि सामत्थओ कुणइ / / 58|| दृष्टा प्राणिनिवह- जीवसंघात - क्व भीमे - भयानके भवसा