________________ सम्मत्त 500 - अभिधानराजेन्द्रः - भाग 7 सम्मत्त क्षयलभ्यमपि केवलज्ञानं कषायक्षये लभ्यत इत्यभिधीयते / आह च-- "केवलियनाणलंभो नण्णत्थखए कसायाण" यथा वा मिथ्यात्वक्षयोपशमलभ्यमपि सम्यक्त्वमनन्तानुबन्धिरूपचारित्रमोहनीयोदये न लभ्यत इत्यभिधीयते। आह च-"पढमिल्लुयाण उदए, नियमा संजोयणा कसायाणं / सम्मइंसणलंभ, भवसिद्धिया वि न लहति / / 1 / / " ननु वैयावृत्त्यनियमस्य तपोभेदत्वेन चारित्रांशरूपत्वात् सम्यक्त्वसद्भावे चावश्यंभावित्वादविरतसम्यग्दृष्टिगुणस्थानकाभावः प्राप्नोतीति / नैवम,वैयावृत्त्यनियमरूपचारित्रस्याल्पतमत्वेनाचारित्रतया विवक्षितत्वात् / यथा संमूर्छनजानां संज्ञामात्रसद्भावेऽपि विशिष्ट संज्ञाया अभावादसंज्ञित्वमिष्टम् / विरतत्वं हि महाव्रताणुव्रतादिरूपानल्पचारित्रसद्भाव एवेष्यते। यतो न कार्षापणमात्रधनेन धनवान्, एकरावेन वा गोमानिति / ननु सम्यक्त्वे सति शुश्रूषादयो भवन्तीति न युक्तं व्यभिचारित्वात् / तथाहि-उपशान्तमोहादीनां सम्यक्त्वसद्भावेऽपि न शुश्रूषादयो भवन्ति, सकलविकल्पकल्लोलमालाविकलत्वेन निस्तरङ्गमहामकराकराकारत्वात्तदन्तःकरणस्येति। अत्रोच्यते-यद्यपि शुश्रूषादय उपशान्तमोहादीनां साक्षान्न भवन्ति, कृतकृत्यत्वादिति, तथापि फलतो भवन्ति,तद्भावस्य तत्फलत्वादिति कुतो व्यभिचारः? श्रावकधर्माधिकाराधा,यच्छ्रावकावस्थायां सम्यक्त्वं तदाश्रित्य शुश्रूषादयस्तु भवन्ति दृढमित्यभिहितमतो न दोष इति गाथार्थः / / 3 / / शुश्रूषादयस्तु भवन्तीत्युक्तम्, अथ तानेवाहसुस्सूस धम्मराउ, गुरुदेवाणं जहासमाहीए। वेयावचे णियमो, वयपडिवत्तीए (इ) भयणा उ||४|| व्याख्या-श्रोतुमिच्छा शुश्रूषा / हस्वत्वं तु प्राकृतशैलीवशात्। सद्बोधावन्ध्यनिबन्धनधर्मशास्त्रश्रवण्णवाञ्छेत्यर्थः / सा च वैदग्ध्यादिगुणवत्तरुणनरकिन्नरगानश्रवणरागादप्यधिकतमा सम्यक्त्वे सति भवति / यदाह-"यूनो वैदग्ध्यवतः, कान्तायुक्तस्य कामिनोऽपि दृढम् / किन्नरगेयश्रवणादधिको धर्मश्रुतौ रागः / / 1 / " तथा धर्मः श्रुतचारित्रलक्षणः / तत्र श्रुतधर्मरागस्य शुश्रूषापदेनैवोक्तत्वादिह धर्मरागश्चारित्रधर्मरागोऽभिप्रेतः / स च कर्मदोषात्तदकरणेऽपि कान्तारातीतदुर्गतबुभुक्षाक्षामकुक्षिब्राह्यणघृतपूर्णभोजनाभिलाषादप्यतिरिक्तोऽत्र भवति। तथा गुरवो धर्मोपदेशका आचार्यादयः, देवाश्चाराध्यतमा अर्हन्तो गुरुदेवास्तेषाम्। इह च गुरुपदस्य पूर्वनिपातो विवक्षया गुरूणां पूज्यतरत्वख्यापनार्थः / न हि सद्गुरूपदेशं विना सर्वविद्देवाधिगम इति भावः / यथासमाधियथासमाधानानतिक्रमण। इह चाव्ययीभावसमासादपि तृतीयया अलोपः प्राकृतत्वात्, असमासाद्वा / व्यावृत्तस्य भावः कर्म वा वैयावृत्त्यं तस्मिन् तत्प्रतिपत्तिविश्रामणाभ्यर्चनादौ / नियमोऽवश्यकर्तव्यताङ्गीकारः। स च सम्यक्त्वे सति भवतीति प्रक्रमः / एतेषां च शुश्रूषादीनां यथोत्तरं हेतुफलभावोऽवसेयः / अथ यथा शुश्रूषादयोऽत्र भवन्ति, तथा कि व्रतान्यपि भवन्तीत्याशङ् क्याह-व्रतानाम्-अणुव्रतादीनां प्रतिपत्तिरङ्गीकरण व्रतप्रतिपत्तिः। तुशब्दस्य पुनरर्थस्येह सम्बन्धात्तस्यां व्रत प्रतिपत्तौ तु पुनर्भजना-विकल्पना भवति / सम्यक चे सति व्रतानि कदाचिद्भवन्ति, कदाचिन्नेति भाव इति गाथार्थः / / 4 / / (33) भजनाकारणमेवाहजंसा अहिगयराओ, कम्मखओवसमओ ण य तओ वि। होइ परिणामभेया, लहुं ति तम्हा इहं भयणा / / 5 / / यद्-यस्मात्कारणात्सा व्रतप्रतिपत्तिः अधिकतरात सम्यक्त्वप्राप्तिनिमित्तभूतकर्मक्षयोपशमापेक्षया समर्गलतरात्कर्मक्षयोपशमतः चारित्रमोहनीयकर्मक्षयोपशमाद्भवति, ननु सम्यक्त्वलाभावसर एवासी कुतो न भवतीत्याह-न चनैव / तको वित्ति--तकोऽनि सोऽपि यदेव सम्यक्त्वप्रतिपत्तिहेतुः कर्मक्षयोपशमो भवति नतदैव व्रतप्रतिपत्तिहेतभूतस्तदधिकतरोऽपीत्यपिशब्दार्थः / अन्ये तु 'तओ उ' इति पठन्ति, तत्र व्याख्या--न च-नैवतकः पुनर्भवति जायते। कुतः पुनरेवमित्याहपरिणामभेदात्तथा भव्य-त्वहेतुकात्माध्यवसायविशेषाद्विशिष्टतरपरिणामनिबन्धनत्वात्त-स्येति भावः 'लहुति' ति-लध्विति शीघ्रमेव / सम्यक्त्वनिबन्ध-नक्षयोपशमानन्तरमेवेत्यर्थः। तस्मात्-ततः कारणादिह व्रतप्रतिपत्तौ भजना-विकल्पना / शुश्रूषादिषु पुनर्नियमः इयमत्र भावना यद्यपि ग्रन्थिभेदादेव सम्यक्त्वमुदेति, तत्र च व्रतप्रतिपत्तिमेवोपादेयतरामध्यवस्यति, तथापि यावत्यां कर्मस्थितौ सत्यां सम्यक्त्वलाभो भवति, न तावत्यामेव व्रतप्रतिपत्तिरपि तत्त्वतो भवतीति गाथार्थः। इदमेवाहसम्मापलियपुहुत्तेऽ--वगए कम्माण भावाओ होति। वयपभितीणि भवणव-तरंडतुल्लाणि णियमेण // 6 / / 'सम्म' त्ति-सूचनात्सूत्रमिति न्यायात् सम्यक्त्वलन्धादनन्तरं पल्योपमानामागमप्रसिद्धानां कालपरिमाणविशेषलक्षणानां पृथ-कत्वं द्विप्रभृतिनवान्तसंख्यालक्षणं पल्योपमपृथक्त्वं तस्मिन्। अपगते-अपेते वेदित इत्यर्थः / केषां पल्योपमपृथक्त्वमित्याह-कर्मणां ज्ञानावरणादीनाम्। इह च कर्मस्थितेरिति वाच्ये स्थितेः-स्थितिमतां चाभेदविवक्षया कर्मणामित्युक्तम् / यतो मोहनीयादिकर्मणां सगरोपमकोटीकोटीसप्तत्यादिकायाः स्थितेमध्यात्को-टीकोट्यादिकां स्थिति यथाप्रवृत्तिकरणेन क्षपयति तावद्यावदे-का पल्योपमासंख्येयभागोना सागरोपमकोटीकोटीशेषा / ततो ग्रन्थिभेदेन सम्यक्त्वं लभते। ततः शेषकर्मस्थितेः पल्योपम-पृथक्त्वे क्षपिते सत्यणुव्रतानि लभत इत्यागममुद्रा / ततः किमित्याह-भावतः परमार्थवृत्तिमाश्रित्य,द्रव्यतः पुनरतिदीर्घराया मपि कर्मस्थितौ महाव्रतान्यापि भवन्ति। तदुक्तम्- 'सव्वजि-याणं जम्हा, सुत्ते गेविजगेसु उववाओ। भणिओ जिणेहि सो न य, लिंग मोत्तुं जओ भणियं / / 1 / / जे दंसणवायण्णा, लिंगरगहणं करिति सामन्ने / तेसिं पिय उववाओ, उक्कोसो जाव गेविजा // 2 // ' 'होति त्तिभवन्ति-जायन्ते। कानीत्याहवृतप्रभृतीन्यणुव्रतादीनि। स्वरूपतः किंविधानितानित्याहभवार्णवतरण्डतुल्यानिसंसारसागरोत्तरणद्रोणादिकल्पानि। नियमेनावश्यंभावेन।