________________ सम्मत्त 462 - अभिधानराजेन्द्रः - भाग 7 सम्मत्त पर्याप्तिभिः पर्याप्ताः, संज्ञिन इत्यर्थः, नागार्जुनीयास्तु पटन्ति"आघाइधम्म खलु से जीवाणं, तं जहा-संसारपडिवन्नाणं माणुसभवस्थाण आरंभविणईणं दुक्खुव्वेअसुहेसगाणं धम्मसवणगवे सयाण सुस्सूसमाणाणं पडिपुच्छमाणाणं विण्णाणपत्ताण” एतच्च प्रायो गतार्थमेव, नवरमारम्भविनयिनामित्यारम्भविनयः--आरम्भाभावः स विद्यते येषामिति मत्वर्थीयस्तेषामिति / यथा च ज्ञानी धर्ममाचष्टे तथा दर्शयति'अट्टा वि' इत्यादि, विज्ञान प्राप्ता धर्भ कथ्यमानं कुतश्चिन्निमित्तादार्ता अपि सन्तः चिलातिपुत्रादय इव, अथवा-प्रमत्ता विषयाभिष्वङ्गादिना शालिभद्रादय इव तथाविधकर्मक्षयोपशमापर्यथा प्रतिपद्यन्ते तथाऽऽचष्ट यदिवाऽऽर्ताः-दुःखिनःप्रमत्ताः-सुखिनः, तेऽपि प्रतिपद्यन्ते धर्मं किं पुनरपरे?, अथवा-आर्त्ताः-रागद्वेषोदयेन प्रमत्ता विपयैः, तेच तीर्थका गृहस्था वा संसारकान्तारं विशन्तः कथं भवतां विज्ञातज्ञेयाना करुणास्पदानां रागद्वेषविषयाभिलाषोन्मूलनाय न प्रभवन्ति / एतच्चान्यथा मा मंस्था इति दर्शयितुमाह- 'अहासच' मित्यादि, इदं यन्मया कथित कथ्यमानं च तद्यथा-सत्यं याथातथ्यमित्यर्थः इत्येतदहं ब्रवीमि, यथा दुर्लभमवाप्य सम्यक्त्वं चारित्रपरिणाम वा प्रमादो न कार्यः आचा० 1 श्रु० 4 अ० 2 उ० / (धर्मविषयवक्तव्यता 'धम्म' शब्दे चतुर्थभागे 2687 पृष्ठे उक्ता।) (13) परमतव्युदासद्वारेण सम्यक्त्वमविचलं प्रतिपादयता रात्सहचरित ज्ञानं तत्कलभूता च विरतिरभिहिता, सत्यपि चास्मिंस्त्रये न | पूर्वोपात्तकम्मों निरवद्यतपोऽनुष्ठानमन्तरेण क्षयो भवतीत्यतस्तदधुना प्रतिपाद्यत इत्यनेन सम्बन्धेनायतस्यास्यो देशकस्यादि सूत्रम्उदेहि णं बहिया य लोग,से सव्वलोगम्मि जे केइ विष्णु, अणु-वीए पास निक्खित्तदंडा,जे केइ सत्ता पलियं चयंति, नरा मुयच्चा धम्मविउ त्ति अंजू, आरंभजं दुक्खमिणंति णच्चा, एवमाहु सम्म-त्तदं सिणो, ते सव्वे पावाइया दुक्खस्स कु सला परिण्णमुदाहरंति इय कम्मं परिण्णाय सव्वसो। (सू० 134) योऽयमन्तरं प्रतिपादितः पाण्डिलोक एनं धद्विहिर्व्यवस्थितमुपेक्षस्वतदनुष्ठानं मा अनुमस्थाः , चशब्दोऽनुक्तसमुच्चयार्थः, तदुपदेशमभिगमनपर्युपासनदानसंस्तवादिकं च मा कृथा इति / यः पाषण्डिलोकोपेक्षकः स कं गुणमवाप्नुयादित्याहे- 'से सव्व-लोए' इत्यादि, यः पापण्डिलोकमनार्यवचनमवगम्य तदुपेक्षां विधत्ते स सर्वस्मिँल्लाकमनुष्यलोके ये फेचिद्विद्वांसस्तभ्योऽग्रणी-विद्वत्तम इति स्यात, लोके केचन विद्वांसः सन्ति? येभ्योऽधिकः स्यादित्यत आह'अणुवीई' इत्यादि, ये केचन लोके निक्षिप्तदण्डाः-निश्चयेन क्षिप्तो निक्षिप्तः परित्यक्तः कायमनोवाड़ गयः प्राण्युपधातकारी दण्डो यैस्ते विद्वांसो भवन्त्येव एतदनुविचिन्त्य पर्यालोच्य पश्य-अवगच्छ। के चोपरतदण्डा इत्यत आह- 'जे केई' इत्यादि, ये केचनावगतधर्माणः सत्त्वाः-प्राणिनः 'पलित' गिति कर्म तत्त्यजन्ति, य चापरसदा भूत्वाऽष्ट प्रकार कर्म घन्ति ते विद्वांस इत्येतदनुविचिन्त्यअक्षिनिमीलनेन पर्यालोच्य पश्य-विवेकिन्या मत्याऽवधारय / के पुनरशेषकर्मक्षयं कुर्वन्ति? इत्यत आह–'नरे' इत्यादि नराः-मनुष्यास्त एवाशेषकर्मक्षयायलं नान्ये, तेऽपि न सर्वे अपि तु मृतार्तामृतेव मृता संस्काराभावा-दर्चा शरीरं येषां ते तथा, निष्प्रतिकर्मशरीरा इत्यर्थः, यदिवा-अर्चा-तेजः, सच क्रोधः, सच कषायोपलक्षणार्थः, ततश्चाय-- मों -मृता-विनष्टा अर्चा कषायरूपा येषां ते मृतार्चाः, अकषायिण इत्यर्थः किं च धर्मम्-श्रुतचारित्राख्यं विदन्तीति धर्मविदः, इति हेतो. यत एव धर्मविदोऽत एव ऋजवः-कौटिल्यरहिताः / स्यादेतत्किमालम्ब्येतद्विधेयमित्यत आह–'आरंभज' मित्यादि, सावधक्रियानुष्ठानमारम्भस्तस्माजातमारम्भज, किं तद्?-दुःखमिदमिति सकलप्राणिप्रत्यक्षं. तथाहि-कृषिसेवावाणिज्याद्यारम्भप्रवृत्तो यच्छारीरमानस दुःखमनुभवति तद्वाचा-मगोचरमित्यतः प्रत्यक्षाभिधायिनदमुक्तम् / 'इतिः' उपप्रदर्शने, इत्येतदनुभवसिद्धं दुःखं ज्ञात्वामृताचा धर्मविद ऋजवश्व भवन्तीति। एतच्च समस्तवेदिनो भाषन्त इति दर्शयति- 'एव' मित्यादि, एवम्-पूर्वोक्तप्रकारेण आहुः उक्तवन्तः, के एव-माहुः? समत्वदर्शिनः-सम्यक्त्वदर्शिनः समस्तदर्शिनो वा, यदुद्देशकादेरारभ्योक्त तदेवमुचुरित्यर्थः, कस्मात्त ऊचुरित्याह-'ते सव्वे' इत्यादि, यस्मात्ते सर्वेऽपि सर्वविदः 'प्रावादिकाः' प्रकर्षण मर्यादया वदितु शील येषां ते प्रावादिनः त एव प्रावादिकाः-यथावस्थितार्थस्य प्रतिपादनाय वावदूकाः, दुःखस्यशारीरमानसलक्षणस्य तदुपादानर य वा कर्मणः कुशला-निपुणास्तदपनोदोषायवेदिनः सन्तः ते सर्वेऽपि ज्ञपरिज्ञया परिज्ञाय हेयार्थस्य प्रत्याख्यानपरिज्ञामुदाहरन्ति, 'इतिः' उपप्रदर्शने, इत्येव पूर्वोक्तनीत्या कर्मबन्धोदयसत्कर्मताविधानतः परिज्ञाय सर्वशःसवः प्रकारैः कुशलाः प्रत्याख्यानपरिज्ञामुदाहरन्ति, यदिवा-मूलोत्तरप्रकृतिप्रकारैः रावैः परिज्ञायेति मूलप्रकारा अष्टौ उत्तरप्रकृतिप्रकारा अष्ट पक्षाशदुत्तरं श-तम्, अथवा-प्रकृतिस्थित्यनुभावप्रदेशप्रकारः, यदिवा उदय--प्रकारर्बन्धसत्कर्मताकार्यभूतैरागामिबन्धसत्कर्मताकारणैश्च कर्म परिज्ञायेति, ते चामी उदयप्रकाराः, तद्यथा-मूलप्रकृतीनां त्रीण्युदयस्थानानि, अष्टविध सप्तविध चतुर्विधमिति, तत्रापि कर्मप्रकृतीयोगपद्येन वेदयतोऽष्टविधं, तच कालतोऽनादिकमपर्यवसितमगव्यानां, भव्यानां त्वनादिसपर्यवसितं सादिसपर्यवसितं चेति, मोहनीयोपशमे क्षये वा सप्तविधं, घातिक्षये चतुर्विधमिति ।।साम्प्रतमुत्तरप्रकृतीनामुदयस्थानान्युच्यन्ते-तत्र ज्ञानावरणीयान्तराययोः पक्षप्रकार एकमुदयस्थानं, दर्शनावरणीयस्य द्वे,दर्शनचतुष्कस्योदयाच्चत्वारि अन्यतरनिद्रया सह पञ्च, वेदनीयस्य सामान्येनैकमुदयस्थप्नं सातमसात वेति, विरोधाद्यौगपद्योगदयाभावः, मोहनीयस्य सामान्येन नवोदयरथानानि, तद्यथा-दशनव अष्टौ सप्तषट्पञ्च चत्वारिद्वे एकंचेति, तत्र-दश मिथ्यात्वं 1 अनन्तानुबन्धी क्रोधोऽपत्याख्यानः प्रत्याख्यान्नावरणः संव्व