________________ सम्मत्त 463 - अभिधानराजेन्द्रः - भाग 7 लनश्चेत्येतत्क्रोधचतुष्टयम् 5 एवं-मानाऽऽदिचतुष्टयमपि योज्यम् अन्यतरो वेदः 6 हास्यरतियुग्म अरतिशोकयुग्मं वा 8 भयं 6 जुगुप्सा 10 चेति,भयजुगुप्सयारन्यतरभावे नव, द्वयाभावेऽष्टौ, अनन्तानुबन्ध्यभाव सप्त, मिथ्याचाभावे षट्, अप्रत्याख्यानोदयाभावे पञ्च, प्रत्याख्यानावरणाभावे चत्वारि, परिवर्त्तमानयुगलाभावे संज्ज्वलनान्यतरवेदादये सति द्वे, वेदाभाचे एकमिति, आयुषोऽप्यकमेवीदयस्थानं चतुर्णामायुपामन्यतरदिति, नाम्नो द्वादशोदयस्थानानि, तद्यथा-विंशतिः एकविंशतिः चतुर्विंशतिः पञ्चविंशतिः षड्विंशतिः सप्तविंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशत् एकत्रिंशत् नव अष्टो घेति, तत्र संसारस्थानां सयोगिना जीवानां दशोदयस्थानानि नाम्रो भवन्ति अयोगिनां तु चरमद्यमिति / अत्र च द्वादश ध्रुवोदयाः कर्मप्रकृतयः, तद्यथा-तैजस-कार्मणे शरीरे 1-2 वर्णगन्धरसस्पर्शचतुष्टयम्, 6 अगुरुलघु७ स्थिरम् 8 अस्थिर शुभम् 10 अशुभं 11 निर्माण 12 मिति। तत्र विंशतिरतीर्थकरकेवलिनः समुद्धातगतस्य कार्मणशरीरयोगिनो भवति, तद्यथा--मनुष्यगतिः 1 पञ्चेन्द्रियजातिः२ असं 3 बादरं 4 पर्याप्तकं 5 सुभगम् 6 आदय 7 यशःकीर्तिरिति र ध्रुवो-दय 12 सहिता विंशतिः२०, एकविंशत्यादीनि तूदयस्थानानि एकत्रिंशत्पर्यन्तानि जीवगुणस्थानभेदादनेकभेदानि भवन्ति. तानि चेह ग्रन्थगौरवभयात् प्रत्येकं नोच्यन्त इत्यत एकैकभेदावेदनं क्रियते, तत्रैकविंशतिः गतिः 1 जातिः 2 आनुपूर्वी 3 त्रसं 4 बादरं 5 पर्याप्तापर्याप्तयोरन्यतरत् 6 सुभग दुर्भगयोरन्यतरत 7 आदेयानादेययोरन्यतरत् 8 यशः कीय॑यशः कीयोरन्यतरत् 6, एताश्च नव ध्रुवोदय 12 सहिता एकविंशतिः 21, चतुर्विशतिस्तु तिर्यग्गतिः 1 एकेन्द्रियजातिः 2 औदारिकं 3 हुण्डसंस्थानम् 4 उपघातं 5 प्रत्येकसाधारणयोरन्यतरत् 6 स्थावर 7 सूक्ष्मबादरयो-रन्यतरत 8 दुर्भगम् 6 अनादेयम् 10 अपर्याप्तकं 11 यशःकीर्त्ययशः कीत्यारन्यतर 12 दिति / तत्रैवापर्याप्तकापनयने पार्याप्तकपराघाताभ्यां प्रक्षिप्ताभ्यां पञ्चविंशतिः 25, षड्विंशतिस्तु याऽसौ के वलिनो विशतिरभिहिता सैबौदारिकशरीराङ्गोपाङ्गद चान्यतरसंस्थानाधसंहननोपधातप्रत्येकसहिता वेदितव्या मिश्रकाययोगे वर्तमानस्य २६,सैव तीर्थकरनामसहिता के वलिसमुद्घातवतो मिश्रकाययोगिन एव सप्तविंशतिः 27, सैव प्रशस्तविहायोगतिसमन्विताऽष्टाविंशतिः 28 तत्र तीर्थकरनामापनयने उच्छास 1 सुस्वर २पराधात 3 प्रक्षपे सति त्रिंशद्भवति 30 तत्र सुस्वरे निरुद्ध एकोनत्रिंशत् 26 सैव त्रिशतीर्थकरनामसहिता एकत्रिंशत् 31, नवोदयस्तुमनुष्यगतिः १पशेन्द्रियजातिः 2 त्रस 3 बादरं 4 पर्याप्तकं 5 सुभगम् 6 आदेयं 7 | यशःकीर्ति 8 स्तीर्थकरमिति , एता आयोगितीर्थकरकेवलिनः,एता एव तीर्थकरनामरहिता अष्टाविति 8. गोत्रस्यैकमेव सामान्ये नोदयस्थानम, उचनीचयोरन्यतरद् यौगपद्येनोदयाभावो विरोधादिति / तदेवमुदयभेदैरनेकप्रकारतां कर्मणः परिज्ञाय प्रत्याख्यानपरिज्ञामुदाहरन्तीति। (17) यदि नाम कर्मपरिज्ञामुदाहरन्ति ततः किं कार्यमित्याहइह आणाकंखी पंडिए अणिहे,एगमप्पाणं संपेहाए धुणे सरीरं, | कसेहि अप्पाणं,जरेहि अप्पाणं-जहा जुन्नाई कट्ठाई हव्ववाहो पमत्थइ / एवं अत्तसमाहिए अणिहे, विगिंच कोहं अविकंपमाणे / (सू० 135) इह-अस्मिन् प्रवचने आज्ञामाकाजितुं शीलमस्येति आज्ञाकाङ्सी सर्वज्ञोपदेशनुष्ठयी, यश्चैवम्भूतः सपण्डितो विदितवेधः अस्निहो भवति, स्निहातेश्लिष्यतेऽष्ट प्रकारेण कर्मणेति स्निहो न स्निहोऽस्निहः, यदिवा-स्निह्यतीति स्निहो रागवान् यो न तथा सोऽस्निहः उपलक्षणार्थत्याचास्य रागद्वेषरहित इत्यर्थः / अथवा-निश्चयेन हन्यत इति निहतः भावरिपुभिरिन्द्रियकषायकर्मभिः,यो न तथा सोऽनिहतः इह प्रवचने अशाकाजी पण्डितो भावरिपुभिरनिहतो, नान्यत्र, यशानिहतः स परमार्थतः कर्मणः परिज्ञाता / यश्चैवम्भूतः स किं कुर्यादित्याह'एगमप्पाण, मित्यादि, सोऽनिहतोऽस्निहो वा आत्मानमेकं धनधान्यहिरण्यपुत्रकलत्रशरीरादिव्यतिरिक्तं संप्रेक्ष्यपर्यालोच्य धुनीयाच्दरीरक, सम्भावनायां लिङ्, सर्वस्मादात्मानंव्यतिरिक्तं पश्यतः सम्भाव्यतएतछरीरविधूननमिति / तच कुर्वता संसारस्वभावैकत्वभावनैवंरूपा भावयितव्येति"संसार एवायमनर्थसारः, कः कस्य कोऽत्र स्वजनःपरोवा? सर्वे भ्रमन्तः स्वजनाः परेच, भवन्ति भूत्वा न भवन्ति भूयः।।१।। विचिन्त्यमेतद्भवताऽहमेको, न मेऽस्ति कश्चित्पुरतो न पश्चात्। स्वकर्मभिमन्तिरिय ममैव, अहं पुरस्तादहमेव पश्चात् // 2 // सदेकोऽहं न मे कश्चित, नाहभन्यस्य कस्यचित्। न तं पश्यामि यस्याहं, नासौ भावीति यो मम॥३॥" तथा"एकः प्रकुरुते कर्म, भुनक्त्येकश्च तत्फलम्। जायत म्रियते वैक, एको याति भवान्तरम्॥१॥" इत्यादि,किंच--'कसेहि अप्पाणं जरेहि अप्पाणं परव्यतिरिक्त आत्मा शरीरं तत् कष्टतपश्चरणादिना कृशं कुरु,यदिवा-कष-करमै कर्मणेऽलमित्येवं पर्यालोच्य यच्छक्रोषि तत्र नियोजयेदित्यर्थः, तथा जरशरीरकं जरीकुरु, तपसा तथा कुरु यथा जराजीर्णमिव प्रतिभासते, विकृतिपरित्यागद्वारेणात्मानं निःसारतामापादयेदित्यर्थः, किमर्थमित्येतदिति। चेदाह- 'जहा' इत्यादि,यथा जीर्णानि-निःसाराणि काष्ठानि हव्यवाहो हुतभुक्मनाति-शीघ्रं भस्मसात् करोति, दृष्टान्त प्रदर्श्य दान्तिकमाह- 'एव' अत्तरामाहिए एवम्-अनन्तरोक्तदृष्टान्तप्रकारेणात्मना समाहितः आत्मसमाहितः, ज्ञानदर्श नचास्त्रिोपयोगेन सदोपयुक्त इत्यर्थः, आत्मा वा समाहितोऽरयेत्यात्मसमाहितः,सदाशुभव्यापारवानित्यर्थः, आहिताम्यादिदर्शनादार्षत्वाद्वा निष्ठान्तस्य परनिपातः, यदिवाप्राकृते पूर्वोत्तरनिपातोऽतन्त्रः, समाहितात्मेत्यर्थः। अस्निहःस्नेहरहितः संस्तपोऽग्निना कर्मकाष्ट दहतीति भावार्थः।