________________ सम्मत्त 488 - अभिधानराजेन्द्रः - भाग 7 सम्मत्त ने' इति स्थानाङ्गसूत्रस्य स्वारस्येन सरागसम्यक्त्वस्यैव लक्ष्यत्वेन ब रागस्याननुगतत्वेन लक्ष्यभेदाल्लक्षणभेदोऽवश्यममुसरणीय इति / वस्तुता लक्षणमिह लिङ्ग व्यञ्जकमिति यावत् व्यञ्जकस्य च वहिव्यञ्जकधूमालोकवदननुगमेऽपि न दोषः / अत एव च-'नाणं च दसण चेव' इत्यादिना ज्ञानदर्शनचारित्रतपःप्रभृतीनामननुगतानामेव जीवस्वरूपव्यञ्जकत्वरूपजीवलक्षणत्वम्। उक्तलिङ्गं विनाऽपि लैगिकसदभावेऽप्यविरोधक्ष / यदाहुरध्यात्ममतपरीक्षायामुपाध्यायश्रीयशो विजयगणयः-'जंच जिअलक्खणं तं, उवइट्ट तत्थ लक्खणं लिङ्ग / तेण विणा सो जुल्लइ, धूमेण विणा हुआसु व्व / / 1 / / ' त्ति / एवं च रुच्यभावेऽपि वीतरागसम्यवत्वसद्भावान्नक्षतिः / व्यगचं त्वेकमनाविलसकलज्ञानादिगुणैकरसस्वभावं शुद्धात्मपरिणामरूपं परमार्थतोऽनाख्येयमनुभवगम्यमेव सम्यक्त्वम्। तदुक्तं धर्मबीजमधिकृत्योपदेशपदे-"पायमणक्खेअमिणं, अणुहवगम्मं तु सुद्धभावाणं / भवखयकर ति गराअं. बुहेहि सयमेव विष्णेयं / / 1 // " ति। स्वयमिति निजोपयोगतः, इक्षुक्षीरादिरसमाधुर्यविशेषाणामिवानुभवेऽप्यनाख्येयत्वात्। उक्तं च-"इक्षुक्षीरगुडादीना, माधुर्यस्यान्तरं महत्। तथापि न तदाख्यातु, सरस्वत्याऽपि पार्यते।।१।।" इति। यदि च धर्मबीजस्याप्येवमनुभवैकगम्यत्वं, का वार्ता तर्हि भवशतसहस्रदुर्लभस्य साक्षान्मोक्षफलस्य चारित्रैकप्राणस्य सम्यक्त्वरय ? इति शुद्धात्मपरिणतिस्वरूपे हि तत्र नातिरिक्तप्रमाणानां प्रवृत्तिः / उक्तं च शुद्धात्मस्वरूपमधिकृत्याचारसूत्रे– “सव्वे सराणि अट्टति, तक्या जत्थ ण विज्जइ, मइ तत्थ ण गाहिआ" इत्यादि, तदेतद् ज्ञानादिगुणसमुदायाझेदाभेदादिना विवेचयितुमशक्यमनुभवगम्यमेवेति स्थितम् / अत्र पद्ये-"न भिन्नं नाभिन्नाभयमपि नो नाप्यनुभयं, न वा शाब्दन्यायाद्भवति भजनाभाजनमपि। गुणासीनं लीनं निरवधिविधिव्यजनपदे, यदेतत्सम्यक्त्वं तदनुकुरुते पानकरसम् // 1 // न केनाप्याख्यातं न च परिचितं नाप्यनुमितं, न चार्थादापन्नं क्वचिदुपमित नापि विबुधैः / विशुद्ध सम्यक्त्वं न च हृदि न नालिङ्गितमधि, स्फुरत्यन्तोतिर्निरुपधिसमाधौ समुदितम्॥२॥” इत्यलं प्रसङ्गेन / प्रकृतमनुसरामः / निसर्गाधिगमयोरुभयोरप्येकमन्तरङ्ग कारणमाह- मिथ्यात्वपरिहाण्यैवमिथ्यात्वं जिनप्रणीततत्वविपरीतश्रद्धानलक्षण, तस्य परिहाण्यैव सर्वथा त्यागे त्रिविधं त्रिविधेन प्रत्याख्यानेनेति यावत / आह च'मिच्छत्तपडिक्कमण' 'तिबिहं तिविहेण नायव्वं' ति। ध०२ अधि०ा देवो दुर्लभः सम्यक्त्वपरिणाम इह इत्युक्तंतदावश्च यत्प्रतिपत्त्या मनागसन्नपि भवति तत्प्रतिपन्नाश्च येषां प्रतिपत्तिर्विधेया तद्धि बन्धकत्वेन वावबुध्य हेयास्तानुपदिदर्शयिषु सर्वस्यास्य शास्त्रस्य मूलबीजकल्पां देवादिद्वारपञ्चकप्रतिपादिकामिमां गाथामाहदेवो धम्मो मग्गो, साहू तत्ताणि चेव सम्मत्तं / तट्विवरीयं मिच्छ-त्तदंसणं देसियं समए।।५।। दीव्यते-स्तूयते च कश्चित्पूर्वभवशुभपरंपरोपात्ततीर्थकृन्नामकर्मोदयतो नमना त्रिविष्टपाधिपसुरेश्वरमाधिपतिभिरिति देवः, सम्यक्त्वमिति-- पूर्वपदस्येह संबन्धादेवकारस्य च पूर्वपदस्थस्य ततश्व भण्यमानविशेषणकदम्बकयुक्त एव सम्यक्त्वं भक्तीति गम्यते इत्थंभूतदेवताविशेषप्रतिपत्तौ च प्रायः सम्यक्त्वमुदेत्यतः कारणे कार्योपचरादित्थमुपन्यास इत्येवं सर्वपदेष्वपि भावनीयम्। दुर्गतिगर्तादिप्रपतनाद्धारपतीति धर्मः सर्ववित्प्रणीतो हिंसादि-लक्षणः सोऽपि सम्यक्त्वमितिमोक्षलक्षणमहानगरस्य मार्ग इव पन्था इव मार्गः सम्यग्ज्ञानादि, सोऽपि सम्यग्ज्ञानदर्शनचरित्रैमोक्ष, साधयन्तीति साधवः तेऽपि च सर्वदिदुपदिष्टत्वेन यथावस्थितवस्तुस्तोमस्वरूपाविर्भावकानि तत्कानि जीवादीनि तानि च सम्यक्त्वं भवतीति योज्यम् / सर्वत्र चकारोऽनुक्तसमुच्चयार्थः। एवकारोऽवधारणार्थस्तौ च यो जितावेव / तद्विपरीतं मिथ्यात्वदर्शनमिति-इत्थंभूतदेवधर्ममार्गसाधुतत्त्वविपरीत विपर्ययत्वं स चाज्ञप्रणीतल्वेन शिवसौख्यसाधनं प्रत्यनर्हत्वात् मिथ्यादर्शनं विपरीतदर्शनमिति यावदिति, दर्शितं समय-सिद्धान्ते तीर्थकृद्गणधरादिभिरिति आद्यद्वारगाथासमासार्थः / दर्श० 4 तत्त्व। पं० सं०। कर्म०। औपशमिकसम्यक्त्वं तूपशमश्रेण्या प्रथमसम्यक्त्वलाभे वा भवति जीवस्य। उक्तं च-"उवसामगसेढिगयस्स होइ उवसामिय तु सम्मत्तं / जो वा अकयतिपुंजो, अखवियमिच्छो लहइ सम्म / / 1 / / ननु क्षायोपशमिकापशमिकसम्यक्त्वयोः कः प्रतिविशेषः?, उच्यते क्षायोपशमिके मिथ्यात्वदलिकवेदनं विपाकतो नास्ति प्रदेशतः पुनर्विद्यते,औपशमिके तुप्रदेशतोऽपि नास्तीति विशेषः। कर्म० 3 कर्म० / सूत्र० / ('किरयावाइ' शब्दे तृतीयभागे 556 पृष्ठे कालादिवादिनां वक्तव्यता गता।) (11) कर्मक्षेत्रादिप्रपञ्चसारविचारपरित्यागेन सम्यक्त्व स्वरूपस्यैव प्रकाशने हेतुमाहसुयसायरो अपारो, आउं थोवं जिया य दुम्मेहा। तं किं पसिक्खियव्वं, जं कज्जकरं व थोवं च / / 3 / / श्रुतमङ्गादिभेदभिन्न जिनागमः तदेव सागरः श्रुतसागरः, अपारोऽपर्यन्तोऽतिबहुत्वात् आयुर्जीवितं स्तोकं-स्वल्पम्, जीवाः-प्राणिनः चशब्दः पुनरर्थस्ततः किमित्याह-तत् किमपि शिक्षित-व्यमभ्यसनीय यत् कार्यकरममुष्यवृत्त्यैव प्रयोजननिष्पादकं तत्, अयमर्थः-श्रुतसागरोऽपारो निःसीमा आयुरपि तदधिगमहेतुकं स्वल्पं, सांप्रतपुरुषापक्षया प्रायो वर्षशतान्तर्गतत्वात्, जीवाश्च पुनस्तदयतारे दुर्मेधसः तदवगमहेतुबुद्धिविकलाः पूर्वपुरुषापेक्षयाऽल्पमति-वादित्यवधार्य यदेवार्थक्रियाकारि अल्पं च तदेवाङ्गीकार्यमिति गाथार्थः / सम्यक्त्वस्यैव दुर्लभत्ववर्णनद्वारेणैकान्ततः कार्यकारितामाहमिच्छत्तमहामोहड-न्धयारमूढाण एत्थ जीवाणं / पुण्णेहि कह वि जायइ, दुलहँ सम्मत्तपरिणामा ||4|| महांश्चा सौ मो हश्च महामो हो मिथ्यात्वमेव महामोह: तस्मातेन वाऽन्धकारं सम्यक्त्वस्यावरण तस्मिन् तेन च मूढाः मिथ्यात्व महामोहान्धकारमूढास्तेषाम्, अत्रेत्यस्मिन् जिनशासने चतुई शरज्ज्वात्मके वा लोके जीवानां भटयप्राणिनां पु