________________ सम्मत्त 487 - अभिधानराजेन्द्रः - भाग 7 सम्मत्त षायः / एतदेव दर्शनमोहनीयत्रयेऽभिमुखक्रियारूढापवर्गत्रयमायोज्य, ततोऽपि क्षीणसप्तकात् क्षीणसप्तक एवोपसमश्रेण्यारूढोऽसंख्ययगुणनिर्जरकस्ततोऽप्युपशान्तमोहस्तस्मादपि चारित्रमोहनीयक्षपकस्ततोऽपि क्षीणमोहः, अत्र चाभिमुखादि त्रयं यथा संभवमायोजनीयमस्मादपि जिनो भवस्थकेवली तरभादपि शैलेश्यवस्थोऽसंख्येयगुणनिर्जरकस्तदेवं कर्मनिर्जराये असंख्येयलोकाकाशप्रदेशप्रमाणनिष्पादितसंयमस्थानप्रन्योपात्त श्रेणिः सोत्तरोत्तरेषामसंख्येयगुणा, उत्तरोत्तरप्रवर्द्धमानाध्यवसायकण्डकोपपतैरिति। कालस्तुतद्विपरितोऽयागिके वलिन आरभ्य प्रतिलोमतया संख्येयगुणया श्रेण्या ज्ञेयः, इदमुक्तं भवति--यावत्कालेन यावत्कर्मायोगिकेवली क्षपयति तावन्मात्र कर्म सयोगिकेवली संख्येयगुणेन कालेन क्षपयति, एवं प्रतिलोमतया यावद्धर्मपिपृ-च्छिषुस्तावन्नेयमिति गाथाद्यार्थः। एवमन्तरोक्तया नीत्या दर्शनवतः सफलानि तपोज्ञानवरणान्यभिहितानि, यदि पुनः केनचिदुपाधिना विदधाति ततः सफलत्वाभावः / कश्वासावुपाधिस्तमाह आहारउवहिपूआ, इड्डीसु य गारवेसु कइतवियं / एमेव वारसविहे,तवम्मि न हु कइतवे समणो॥२२५।। आहारश्च उपधिश्व पूजा च ऋद्धिश्चामोषध्यादिका आहारोपधि... पूजयस्तासु निमित्तभूतासु ज्ञानचरणक्रियां करोति / तथा गारवषु त्रिषु प्रतिबद्धा यत्करोति तत् कृत्रिममित्युच्यते, यथा च ज्ञानचरणयोराहाराद्यर्थमनुष्ठानं कृत्रिमं सन्न फलवद्भवत्येवं सबाह्याभ्यन्तरे द्वादशप्रकारे तपस्यपीति। न च कृत्रिमानुष्ठायिनः श्रमणभावो न चाश्रगणस्थानुष्ठानं गुणवदिति / तदेवं निरुपधेर्दर्शनवतस्तपोज्ञानचरणानि सफलानीति स्थितमतो दर्शन यतितव्यम् / दर्शन च तत्त्वार्थ श्रद्धानं, तत्वं चोत्पन्नापगतकलङ्काशेषपदार्थसत्ताव्यापिज्ञानस्तीर्थकदभिर्यदभाषि। आचा०१ श्रु०४ अ०१ उ०। कर्म०। प्रति०। (6) साम्प्रतं विशेषतो गृहिधर्मव्याख्यानावसरः, स च सम्यक्त्वमूलक इति प्रथम सम्यक्त्वं प्रस्तूय तदेव लक्षयतिन्याय्यश्च सति सम्यक्त्वे-ऽणुव्रतप्रमुखग्रहः। जिनोक्ततत्त्वेषु रुचिः, शुद्धा सम्यक्त्वमुच्यते / / 21 / / सति-विद्यमाने सम्यक्त्वे-सम्यग्दर्शने चकारोऽत्रैवकाराथों भिन्नक्रमश्न, ततः सम्यक्त्वे सत्येवेत्यर्थो लभ्यते / अणुव्रतगुणवतशिक्षाव्रतानां ग्रहोऽभ्युपगमो न्याय्यः-उपपन्नः, नत्वन्यथासम्यक्त्वेऽसति, निष्फलत्वप्रसङ्गात्, यथोक्तम्- “सस्यानीवोषरक्षेत्रे, निक्षिप्तानि कदाचन / न व्रतानि प्ररोहन्ति, जीवे मिथ्यात्ववासिते // 1 // संयमा नियमाः सर्वे, नाश्यन्ते तेन पावनाः / क्षयकालानलेनेव, पादपाः फलशालिनः / / 2 / / " इति : सम्यक्त्वमेव दर्शयति- 'जिनोक्ते' इत्यादि, जिनोक्तेषु तत्त्वेषु जीवाजीवादिपदार्थेषु या शुद्धा-अज्ञानसंशयविपर्यासनिराकरणेन निर्मला रुचिः-श्रद्धानं सा 'सम्यक्त्वमुच्यत' जिनैरिति शेषः / तद्विशेषतो गृहिधर्म इति, पूर्वप्रतिज्ञात सर्वत्र योज्यम। नन्वित्थं तत्त्वार्थश्रद्धान सम्यक्त्वमिति पर्यवसन्नम्, तत्र श्रद्धानच तथेति प्रत्ययः, स च मानसोऽभिलाषः / नचायमपर्याप्तकाद्यवस्थाया--मिष्यते, सम्यक्त्वं तु तस्यामपीष्ट, षट्षष्टिसागरोपमरूपायाः साद्यपर्यवसितकालरूपायाश्च तस्यात्कृष्टस्थितेः प्रतिपादनादिति कथं नागमविरोधः? इत्यत्रोच्यतेतत्त्वार्थश्रद्धानं सम्यक्त्वस्य कार्य, सम्यक्त्वं तु मिथ्यात्वक्षयोपशमादिजन्यः शुभ आत्मपरिणामविशेषः आह ध-"से असंमत्ते, पसत्थसंमत्तमोहणीअकम्माणुवे अणावसमक्खयरमुत्थे पसमसंवेगाइलिङ्गे सुहे आय--परिणामे पण्णत्ते।" इद चलक्षणतमनरकेषु सिद्धादिष्वपि त्यापकम / इत्थं च सम्यक्त्ये सत्येव यथाक्तं श्रद्धानं भवति, यथोक्त श्रद्धाने च सति सम्यक्त्वं भवत्येवेति श्रद्धानवता सम्यक्त्वग्यावश्यम्भावित्वापदशनाय कार्ये कारणोपचारं कृत्वा तत्त्वेषु रुचिरित्यस्य तत्त्वार्थश्रद्धानमित्यर्थपर्यवसानं न दोषाय / तथा चोक्तम... "जीवाइनवपयत्शे, जो जाणइ तस्स होइ सम्मन / भावेण सहहते, अयाणमाणे वि सम्मत्तं / / 1 / / " ति। नन्वेदमपि शास्त्रान्तरेतत्त्वत्रया-- ध्यवसायः सम्यक्त्वमित्युक्तम् / यतः-"अरिहं देवो गुरुणो, सुसाहुणो जिणमयं पमाणं च / इचाइसुहो भावा, सम्मत्त बिति जगगुरुणा / / 1 / / " [इति कर्शन शास्त्रान्तरविरोधः? इति चेन्न, अत्र प्रकरणे जिनोक्ततत्त्वेषु रुचिरिति यतिश्रावकाणा साधारण सम्यक्त्वलक्षणमुक्तं, शास्त्रान्तरे तु गृहस्थानां देवगुरुधर्मेषु पूज्यत्वापास्यत्वानुष्ठेयत्व लक्षणोपयोगवशाद्देवगुरुधर्मतत्त्वप्रतिपत्तिलक्षण सम्यक्त्वं प्रतिपादितं. तत्रापि देवा गुरवश्च जीवतत्त्व, धर्मः शुभाशये संपर चान्तर्भवतीति न शारत्रान्तरविरोधः सम्यक्त्वं चार्हद्धर्मस्य मूलभूत यतो द्विविधं त्रिविधेनेत्यादिप्रतियत्या श्राद्धद्वादशव्रती सम्यक्त्वोत्तरगुणरूप-भेदद्वययुतामाश्रित्य त्रयोदशकोटिशतानि चतुरशीतिकोट्यः सप्तविंशतिः सहस्राणि देशते च द्वयुतरे भड़ाः स्युः / एषु च [कवल] सम्यक्त्वं विना च नैकस्यापि भगरय संभवः,अत एव 'मूलं दार' मित्यादि, षड़भावना वक्ष्यमाणा युक्ता एवति / ध०२ अधिक। [10] एतस्य फलं चैवमाहुः-- अंतोमुत्तमितं, पि फासि हुज जेहि सम्मत्तं / तेसिं अवड्डपुग्गल-परिअट्टो चेव संसारो॥१।। सम्मट्ठिी जीवो, गच्छइ नियमा विमाणवासीसु। जइन विगयसम्मत्तो, अहवन बद्धाउओ पुट्विं / / 2 / / जं सकइ तं कीरइ, जंच न सक्कइ तयम्मि सद्दहणा। सद्दहमाणो जीवो, वच्चइ अयरामरं ठाणं / / 3 / / शिष्यव्युत्पादनार्श चत्थभुपाधिभेदेन सम्यक्त्वभेदनिर्देशः, तेन कचित्केषाशिदन्त भविऽपि न क्षतिरित्युत्तराध्ययनवृत्तौ / यथा च नान्तविर तथाक्तमस्माभिः, तथापि नैतदरुतरत्वं सम्यक्त्वलक्षणं, रुबीना तत्तद्विषयभेदेन परिगणनस्याशक्यत्वात, रुचेः प्रीतिरूपत्वन वीतरागसम्यक्त्वेऽव्याप्तश्च / 'दसविहे सरागसम्मत्तदसणे पण्ण