________________ सम्मत्त 486 - अभिधानराजेन्द्रः - भाग 7 सम्मत्त अनादिमिथ्यादृष्टरकृतत्रिपुञ्जस्य यथाप्रवृत्तकरणक्षीणशेषकर्मणो देशानसागरोपमकोटिकोटिस्थितिकस्यापूर्वकरणभिन्नग्रन्थेमिथ्या - स्वानुदयलक्षणमन्तरकरणं विधायानिवृत्तिकरणेन प्रथम सम्यक्त्वम्पादयत अपमिका दर्शनम् 1, उक्तंच-“ऊसरदेस दड्वेलयं च विउझाइ वणदयो पाप / इय मिच्छत्ताणुदए, उवसमसम्म लहइ जीवो / / 1 / / " उपशमग्यां चौपशमिकमिति 2, तथा सम्यक्त्वपुद्गलोपटभजनिताध्यवसायः क्षायोपशमिक 2. दर्शनमोहनीयक्षयात क्षायिकं 3, चारित्रमप्युपशनश्रेण्याभोपशमिकं 1, कषायक्षयोपशमात् क्षायोपशमिक चारित्रं 2, चारित्रमोहनीयक्षयात्क्षायिकं 3, ज्ञाने तु भावसम्यग द्विधा ज्ञातव्य, तद्यथा... क्षायोपशमिक क्षायिकं च / तत्र चतुर्विधज्ञानावरणीयक्षयोपशमात् मत्यादि चतुर्विध क्षायोपशमिकं ज्ञान, समस्तक्षयात्क्षायिकं केवलज्ञानमिति। तदेवं त्रिविधेऽपि भावसम्यवत्वे दर्शिते सति परश्चोदयति-यद्येवं त्रयाणामपि सम्यग्वादसम्भवे कथं दर्शनस्यैव सम्यक्त्ववादो रूढो? यदिहाध्ययने व्यावय॑ते, उच्यते तद्भावभाविन्यादितरयोः, तथाहि-मिथ्यादृष्टस्तेन स्तः, अत्र च सम्यक्त्वप्राधान्यख्यापनाय अन्धेतरराज-कुमारद्वयेन बालाङ्गनाद्यवबोधार्थ दृष्टान्तमाचक्षते-तद्यथा-उदयसेनराजस्य बीरसेनसूरसेनकुमारद्वयं तत्र वीरसेनोऽन्धः, स च तत्प्रायोग्या गान्धर्वादिकाः कला ग्राहितः, इतररस्व स्तधनुर्वेदो लोकलाध्या पदवीमगमत् एतच्च समाकर्ण्य वीरसेनेनापि राजा विज्ञप्तो यथाऽहमपि धनुर्वेदाभ्यास विदधे, राज्ञाऽपि तदाग्रहमअगम्यानुज्ञातः। ततोऽसौ सम्यगुपाध्यायोपदेशात प्रज्ञातिशयादभ्यासविशेषाच शब्दवेधी सञ्जज्ञे। तेन चारूढयौवनन स्वभ्यस्तधनुर्वेद - विज्ञानक्रियेणागणितचक्षुर्दर्शनसदसद्भावेन शब्दवेधित्वावष्टा भात्परबलापस्थाने सति राजा युद्धायादेशयाचितः। तेनापि याच्यमानेन वितरे / वीरसेनेन च शब्दानुवेधितया परानीके जजृम्भ, परेश्वावगतकुमारान्धमामूकतामालब्या-सौ जगृहे,सूरसेनेन च विदितवृत्तान्तेन राजानमापृच्छय निशितशरशतजालावष्टब्धपरानीकेन मोचितः। तदेवमभ्यस्तविज्ञानक्रियोऽपि चक्षुर्विकलत्वान्नालमभिप्रेतकार्यसिद्धये इति। एतदेव नियुक्तिकारो गाथयोपसंहर्तुमाहकुणमाणो विय किरियं, परिचयंतो वि सयणधणभोए। दितो वि दुहस्स उरं, न जिणइ अंधो पराणीयं / / 16 / / कुर्वन्नपि क्रिया परित्यजन्नपि स्वजनधनभोगान् दददपिदुःख–स्योरः न जयत्यन्धः परानीकमिति गाथार्थः। (7) तदेवं दृष्टान्तमुपदी दान्तिकमाहकुणमाणो वि नियत्तिं, परिचयंतो वि सयणधणभोए। दितो वि दुहस्स उरं, मिच्छविहीन सिज्झइ उ॥२५१।। कुर्वन्नपि निवृत्तिम्-अन्यदर्शनाभिहिता, तद्यथा-पक्ष यमा, पश्च नियमा इत्यादिकां तथा परित्यजन्नपि स्वजनधनभो गान पञ्चाग्नित आदिना पददपि दुःखस्योरः मिथ्यादृष्टिर्न सिध्यति। तुरवधारणे, नैव सिध्यति, दर्शनविकलत्वाद्, अन्धकुमारवत् असमर्थः कार्यासिद्धये। आचा०१ 704 अ०१ उ०। कर्म०। तदेव येन कर्मणा मुनिर्नव तत्त्वानि श्रद्दधाति मत सम्यक्त्वं,कि-विशिष्ट? 'खइयाइबहुभेय' ति–क्षायिकमादौ येषा / ते क्षायिकादयो बहवो भेदाः-प्रकारा यस्य तत्क्षायिकादि बहुभेदम् / इहादिशब्दावेदकापशमिकसास्वादनक्षायोपशमिकग्रहणम् एतद्व्याख्यानगाथा:'खीण दसणमोहे, तिविहम्मि वि खाइयं भवे सम्म। वेयगमिह सव्वोइय, चरमिल्लयपुग्गलग्गासं / / 1 / / उवसमसेढिगयरस उ. होइहु उवसामियं तु सम्मत्तं / जो वा अकयतिपुंजो, अखवियमिच्छो लहइ सम्मं / / 2 / / उवसमसम्मत्ताउ, चइउं मिच्छ अपावमाणस्स। सासायणसम्मत्त, तयंतरालम्मि छावलियं / / 3 / / मिच्छत्त जमुइन्न, त खीण अणुइयं च उवसत। मीसीभावपरिणयं, वेइज्जतं खओवसमं / / 4 / / " इत्युक्तं सम्यक्त्वम् / कर्म०१ कर्म० / दश० / आ० म० / त्रिविधं सम्यक्त्वं क्षायिक क्षायोपशमिकमौपशमिकं च / कल्प०१ अधि०३ क्षण। कर्म०। [8] यत एवं ततः किं कर्तव्यमत आहतम्हा कम्माणीयं, जे तु मणोदसणम्मि पयएज्जा। दंसणवओ हि सफला-णि होति तवनाणचरणाई 222 / सम्मत्तुप्पत्ती सा-वएय विरए अणंतकम्मंसे / दंसणमोहक्खवए, उवसामंते य उवसंते / / 223 / / खवए य खीणमोहे, जिणे य सेढी भवे असंखेजा। तव्विवरीओ कालो, संखिजगुणाइसेढीए॥२२४।। आहारउवहिपूआ-इड्डीसु य गारवेसु कइतवियं / एमेव वारसविहे, तवम्मि न उ कइतवे समणो ||225|| यरमात्सिद्धिमार्गमूलास्पदं सम्यग्दर्शनमन्तरेण न कर्मक्षयः स्यात्तस्मात्कारणात् कर्मानीकं जेतुमनाः सम्यग्दर्शने प्रयतेत, तस्मिंश्च सति यद्धयति तद् दर्शयति-दर्शनवतो हितौ,यस्मात् सम्यग्दर्शनिनः सफलानि भवन्ति तपोज्ञानचरणान्यतस्तत्र यत्नवता भाव्यमिति गाथार्थः / प्रकारान्तरेणापि सम्यग्दर्शनस्य तत्पूर्वकाणां च गुणस्थानकानां गुणमाविर्भावयितुमाह- 'सम्मत्तुप्पत्ति' ति सम्यक्त्वस्योत्पत्तिः सम्यक्त्वोत्पत्तिस्तस्यां विवक्षितायामसंख्येयगुणश्रेणिर्भवदित्युत्तरगाथार्द्धान्ते क्रियामपेक्ष्य संबन्धो लगयितव्यः / कथनसंख्येयगुणा श्रेणिर्भवेदिति?, अत्रौ--च्यते--इह मिथ्यादृष्टयः देशोनकोटिकोटिकर्मस्थितिकाग्रन्थिकसत्त्वास्ते कर्मनिर्जरामाश्रित्य तुल्याः धर्मप्रच्छन्नोत्पन्नसंज्ञास्तेभ्योऽसंख्येयगुणनिर्जरकाः ततोऽपि पिच्छिषुः सन् साधु-समीपं जिगमिषुस्तस्मादपि क्रियाविष्टः प्रच्छंस्तताऽपि धर्म प्रतिपित्सुरस्मादपि क्रियाविष्टः प्रतिपद्यमानस्तस्मादपि पूर्वप्र--- तिपन्नोऽसंख्येयगुणनिरिक इति सम्यक्त्वोत्पत्तियाख्याता, तदनन्तरं विरताविरतिं प्रतिपित्सुः प्रतिपद्यमानपूर्वप्रतिपन्नानामुत्तरोत्तरस्यासंख्येयगुणा निर्जरा योज्या, एवं सर्वविरतावपीति ततोऽपि पूर्वप्रत्तिपन्नसर्वविरतेः सकाशात् 'अणतकम्मसे' त्ति पदैकदेशे पदप्रयोग इति, यथा भीमसे नो भीमः सत्यभामा भामा, एवमनन्तशब्दोपलक्षिता अनन्तानुबन्धिनः / ते हि मोहनीयस्यांशाः भागाः, तांश्चिक्षपयिषुरसंख्येयगुणनिर्जरकः, ततोऽपि क्षपकः, तस्मादपि क्षीणनन्तानुबन्धिक--