________________ समोसरण 478 - अभिधानराजेन्द्रः - भाग 7 समोसरण भुवनगुरौ संजाततीव्रश्रद्धस्य समुत्पन्नोत्कटगुरुरुचेर्देवतात्येन प्रतिपत्तिं प्रतीति गम्यते अधिकृतजीवस्येति / प्रकृतं विधिसाधनमनुष्टानप्रकाशनं.यदुत जिनदीक्षायां प्रतिपन्नायां न तव कल्पते अन्यतीर्थिकदेवानामन्यतीर्थिकानां च वन्दनादि, कल्पते च जिनानां जैनमुनीना जैनागमस्य च वन्दनादि कर्तुमित्यादि / अथवा-तवाञ्जलो पुष्पाणि दास्यन्ते अक्षिस्थगनं च वस्त्रेण करिष्यते, तानि च पुष्पाणि त्वया अक्षुभितेन समवसरणमध्य-स्थापितजिनाभिमुखे निक्षेप्तध्यानि, आत्मा च ससुतधनादिर्गुरवे निवेदनीय इति, विधिः, ओघेन-सामान्येन विशेषतस्तु दीक्षा-दानावसरात्पूर्वमेव तद्विषयविधेराख्यातत्वात्। ततो विधिसाधनानन्तरं प्रवेशः-प्रवेशनं तस्मिन समवसरणे, एवं वक्ष्यमाण.. न्यायेनेति गाथार्थः। ततश्चवरगंधपुप्फदाणं, सियवत्थेणं तह च्छिठयणं च। आगइगइविण्णाणं, इम्मस्स तह पुप्फपाएण।।२५।। वरगन्धपुष्पदानं-सुगन्धिकुसुमानाम्, अथवा प्रधानाना वासाना पुष्पाणा चदानं वितरणं वरगन्धपुष्पदानमञ्जली कर्तव्यमरयेतियोगः। तथा सितवस्त्रेण शुक्लवाससा / तथा तेन प्रकारण अपीडोत्पादनलक्षणेन विद्वत्प्रसिद्धन वाक्योपयगात्रो वा तथाशब्दः, अक्षिरथगन लोचनावरणं कार्य ,चशब्दः समुच्चय, ततश्चासौ तानि कुसुगान्यावृताक्षा एव जिननाथाभिमुखं प्रक्षेपयितव्यः, गुरुणा चाधिकृतपुष्पपातलक्षणनिमित्तानुसारेण यथासम्प्रदायं शुभादितररमाद्वा भवादागतोऽयं, तथा दीक्षाराधनविराधनाभ्यां शुभेतरा वा गतिरस्य भविष्यतीति दीक्षादानार्थ तत्परिहारार्थं च परिज्ञानं विधेयम् / एतदेवाह-आगलिगतिविज्ञान शुभाशुभपूर्वजन्मानागतजन्मनां निर्णय कार्यम् / अथवा - गत्यागमनेनारस्वलिततरादियुक्तेन गतिविज्ञानमागामिभवज्ञानमागतिगतिविज्ञानम् / इह व्याख्याने समासितमपि गतिविज्ञाननित्यतत्पद प्राकृतत्वेनोत्तरत्र सम्बन्धनीयमिति, 'इमरस'ति-अस्य दीक्षाधिकृतजीवस्य, तथेति समुच्चये। अथवा-तथा-तत्प्रकारेण साम्प्रदायिकेन पुष्पपातेन-कुसुमपतनेन दीक्षणीयनरविहितेन। एतदर्थमव पूर्व पुष्पदानं तदजला कृतमासीतिदि। इह च रामवसरणमध्ये पुप्पपाताद्दीक्षाराधनाजनिता सुगतिस्तद्वहिः पाताच्च तद्विराधनाजनिता कुगतिर येत्यतावन्मात्रमतो ग्रन्थादवसीयते / शेषं तु ग्रन्थान्तराद्विशिष्टसा प्रदायाद्वाऽवसेयमिति गाथार्थः। अथ शुभाशुभगतिविज्ञानविषये मतान्तरं दर्शयन्नाह-- अभिवाहरणा अण्णे, णियजोगपवित्तिओ य के इत्ति। दीवाइजलणभेया, तहत्तरसुजोगओ चेव / / 26 / / अभिव्याहरणात-संशब्दनात दीक्षणीयेनान्येन वा दीक्षावसरे विहितात शुभाशुभार्थसंसूचकात् सिद्भिवृहीत्यादिरूपाद्, अथवा--इच्छा कारण तुम्हे अम्हं दसणपडिम सम्मत्तसामाइयं वा आरोवह इत्यादि, दीदाणीयाभिव्याहारात् 'आरोवेमि खमास-मणाण हत्थेण आराचिय' भेन्यादेाऽऽचार्याभिव्याहारादस्खलितादिगुणदोषानुगताद, अन्ये अपरे सूरयों दीक्षाराधनविराधनाजन्यशुभाशुभगतिपरिज्ञानमस्याधिकृतस्य कर्त्तव्यमित्याहुरिति गम्यम्, तथा निजयोगानामाचार्यसत्कमनःप्रभृतीना प्रवृत्तिः-प्रवर्त्तनं निजयोगप्रवृत्तिस्ततो निजयोगप्रवृत्तितः, चशब्दः समुच्चये, इतिशब्दस्योत्तरस्येह दर्शनादिति, एतत् केचिदपरे प्राहुरिति गम्यम् / इदमुक्तं भवति तदा यद्याचार्यस्य क्रोधलोभ-- मोहभयादिभिरव्याकुलं मनोयद्यदा वाच्यं तद्विषयाव्यक्तत्वादिगुणा च वाक् साध्वसाद्यनुपहतश्व कायः प्रवर्तत तदा शुभा गतिरिति / अन्यथाचाशुभा गतिरस्य ज्ञायत इति / तथा दीपादीनां दीपचन्द्रतारकादीनां यज्ज्वलन-दीपनं तस्य यो भेदो-विशेषः, स तथा तस्मात / इदमुक्तं भवति-यदितदा दीपादयः प्रवृद्धतेजसो भवन्ति तदाऽस्य शुभम, अन्यथा त्वशुभमिति / तथति समुच्चये, उत्तरे-दीक्षोत्तरकालभाविनो ये सुयोगाः-शुभव्यापारा दीक्षितगतास्ते उत्तरसुयोगास्तेभ्य एव चैवशब्दस्यावधारणार्थत्वात्केचिदिति प्रकृतामिति गाथार्थः / पञ्चा०२ विव०। सूत्रार्थयार्मेलने, अङ्गे श्रुतस्कन्धे, अध्ययने, नि० चू०। जे मिक्खू उद्देसे हेहिल्लाइं समोसरणाई अवाइत्ता उवरिमं सुयं वाएइ वायंतं वा साइज्जइ॥१७॥ नि० चू०१६ उ०। जिनरतवनरथानुयानपट्टयात्रादिषु बहूनां साधूनां मेलने स०१२ सम० / (समवसरणे सम्भोगविसम्भोगौ संभोग' शब्देऽस्मिन्नेव भागे 206 पृष्ठे उक्तीः / ) ('अणुयाण' शब्दे प्रथमभागे ३७५पृष्ठे साधूनां संमेलक उक्तः / ) समवसरणं नाम कुलसमवायो गणसमवायः संघसमवायो वा। बृ० 1301 प्रक०। (21) अथ समवसरणप्रस्तावात्समवसरणस्तवमाहथुणिमो केवलिवत्थं, वरविजाणंदधम्मकित्तिऽत्थं / देविंदनयपयत्थं, तित्थयरं समवसरणत्थं / / 1 / / अवचूरि:-वयं 'थुणिमो' स्तुमः / कम? तीर्थङ्करे, केवलिनोऽवस्था यस्य रा केवल्यवस्थस्तम्। वराः-प्रधाना विद्यानन्दधर्मकीर्तिरूपा अर्था यस्य स वरविद्यानन्दधर्मकीर्त्यर्थस्तम्। अथवा-किमर्थ स्तुमः? वरविद्यानन्दधर्मकीर्त्यर्थम् / पुनः कथंभूतम्? देवेन्द्रनतं यत्पदं तीर्थकरपदवीरूपं तत्र तिष्ठतीति देवेन्द्रनतपदस्थस्तम् / समवसरणे तिष्ठतीति समवसरणस्थस्तम / अथवा-समवसरणे आस्था स्थितिर्यस्य स समवसरणस्थस्तम् तथा। पयडिअसमत्थभावो, केवलिभावो जिणाण जत्थ भवे / सोहंति सव्वओ तहि, महिमाजोयणमनिलकुमरा // 2 // अवयुरिः-प्रकटिताः-समस्ता भावास्त्रिभुवनान्तर्वर्तिनः स्तम्भकुम्भाम्भोरुहादिपदार्था येन स तथा। केवलिभावः-केवलित्व जिनानां यत्र स्थाने भवेत् तस्मिन् स्थान शोधयन्ति सर्वतः महींपृथिवीम् आयोजन-याजनमभिव्याप्य अनिलकुम(मा) रा-वायुकुमारः। वरिसंति मेहकुमरा, सुरहिजलं उउसुरा कुसुमपसरं। विरयंति वणा मणिकण-गरयणचित्तं महिअलं तो / / 3 / / अवचुरि:-मेयकुमारास्तत्रसुरभिजलवर्षन्ति। उउसुरा इति-ऋतर: षण्णामृतुनामधिष्ठातारः सुराःव्यन्तरा इत्यर्थः कुसुमप्रसरं वर्षन्नि, अधोमुखक्तान्