________________ समोसरण 476 - अभिधानराजेन्द्रः - भाग 7 समोसरण पुष्पप्रकरन कुर्वन्तीत्यर्थः / ततः ‘वणा' इति-वानमन्तराः मण- | यश्चन्द्रकान्ताद्याः, इन्द्रनीलादीनि रत्नानि। अयं भावः--मणि-कनकर- | नैश्चित्र महोतल रचयन्ति-पीठबन्धं कुर्वन्तीत्यर्थः / (22) समवसरणरचनामाहअभिंतरमज्झ बहि, तिवप्प मणि-रयण कणय-कविसीसा | रयणज्जुणरुप्पमया, वेमाणिअजोइभवणकया।।४।। अवचूरि:-अय भावः-अभ्यन्तरो वनो वैमानिककृतो रत्नमयो मणिक- / पिशीर्षकः 1 / मध्यमः प्राकारो ज्योतिष्ककृतोऽर्जुनसंज्ञसुवर्णमयो रत्नकपिशीर्षकः 2 / बहिर्षप्रो भवनपतिकृतो रूप्यमयः कनककपिशीर्षक:३। वट्टम्मि दुतीसंगुल, तित्तीसणुपिहुल पणसयधणुचा। छद्धणुसयइगकोसं-तरा य रयणमयचउदारा / / 5 / / अवचूरि:-अथ समवसरणं द्विधा स्यात्, वृत्तं चतुरस्र वा। तत्र वृत्ते समवसरणे चप्रत्रयभित्तयः प्रत्येकं त्रयस्त्रिंशद् (33) धनुर्द्वात्रिंश (32) दगुलपृथुला भवन्ति। तथा त्रयाणामपि वप्राणामन्तराणि उभयपान्तरमिलनेन एककोश (1) षट्शत (600) धनुःप्रमाणानि भवन्ति / अत्र चतुर्विशत्याऽङ्गुलैर्हस्तो ज्ञेयः / चतुर्भिहस्तैर्धनुः / धनुःसहस्रद्वयन क्रोशः / कोशैश्चतुर्भिस्तुयोजनम्। तथा बहिर्वर्तीनि सोपानानि दशसहस (10000) मितानियोजनमध्ये नगण्यन्ते। ततः प्रथमवप्रादग्रे पञ्चाशद (50) घनुः प्रतरः / ततोऽग्रे पञ्चसहस्र (50000) सोपानानि तेषां च हस्तमानत्वाचतुर्भिर्भाग लब्धानि पञ्चाशदधिकानि द्वादशशतानि (1250) धनूंषि / ततो द्वितीयवप्रात् पञ्चाश (50) द्धनुः प्रतरः, ततः पुनः पञ्चसहस्र (5000) सोपानानां पञ्चाशदशिकानिद्वा, दश शतानि धनूंषि भवन्ति / ततस्तृतीयो वप्रः,ततः त्र योदश शतानि (1300) धषि गचा पीठमध्यम्। अथ तिस्रोऽपि वप्रभित्तयः प्रत्येकं त्रयस्त्रिंशद् (33) धनुरेक (1) हस्ताऽष्टाङ्गुल (8) पृथुला भवन्ति / तत्र सर्वेषां धनुषा मिलने नवनवत्यधिकानि एकोनचत्वारिंशच्छतानि (3666) धनषि जातानि। तथा शेषाणि द्वात्रिंशदङ्गलानि त्रिगुणी क्रियन्ते भित्तित्रयभावात, षण्णवत्य (66) कुलानि जातानि। षण्णवत्याऽगु लेखेकं धनुर्भवति, हस्तचतुष्टयमितत्वाद्धनुषः / एवं चत्वारि सहस्राणि (4000) धनुषां जतानि। इत्थमेकस्मिन् पार्श्वे क्रोशद्वयमेवं द्वितीयेऽपि क्रोशब्दयमिति मिलितं वृत्तसमवसरणे योजनम् / / 5 / / चउरंसे इगधणुसय-पिहुवप्पा सड्डकोसअंतरिया। पढमबिआ बिअतइआ, कोसंतरपुव्वमिव सेसं / / 6 / / अवचूरि:-चतुरस्त्रे समवसरणे वप्रत्रयभित्तयः प्रत्येक शतधनु पृथुला ज्ञेयाः, तथा- 'सड्ड' त्ति-प्रथमद्वितीयवप्रयोरन्तरमुभयपार्श्वमिलनेन सार्द्धक्रोशः / 'बिअतइय' त्ति-द्वितीयतृतीययोश्चान्तरमुभयपामिलनेन क्रोशः। पुव्वमिव 'सेस'ति-शेष मध्यभित्योरन्तरमेक (1) कोशषट्- | शत (600) धनुःप्रमाणं पूर्ववद् वृत्तसमवसरणवद् ज्ञेयम् / अथात्रापि एकपाचे योजनार्द्ध मील्यते। तद्यथा-चतुरस्र बाह्यवप्रभित्तिर्योजनमध्ये न गण्यते / ततश्च बाह्यवप्रमध्यवप्रयोरन्तरं दश शतानि (1000) धनषि / द्वितीययवप्रभित्तिः शत (100) धनूषि। अभ्यन्तरवप्रमध्यवप्रयोरन्तरं पश्चदशशत (1500) धनुर्मानम् / अभ्यन्तरवप्रभित्तिः शत (100) धनुर्मानम् / अभ्यन्तरवप्रात् त्रयोदशशतानि (1300) धूनिषि गत्वा पीठमध्यम, एवम् एतन्मिलने चतुस्सहस्राणि धषि जातानि / तथा चक्रोशद्वयं भवति / एवं यथैकत्र पायें क्रोशद्वयं भवति तथा द्वितीयेऽपि। एवं चतुरस्रसमवसरणेऽपि योजनं मिलति स्म।।६।। सोवाणसहसदस कर-पिहुच गंतुं भुवो पढमवप्पो। तो पन्नाधणुपयरो, तओ असोवाण पणसहसा |7|| अवचूरिः-सोपानानि दश सहस्राणि करपृथुलानि उच्चानि च हस्तमात्रपृथुलोच्चानीत्यर्थः / भुवोभूमितो गत्वा प्रथमो वप्रः / ततः पञ्चाशद (50) धनूंषि प्रतरो रमणभूमिः समा भूमिरित्यर्थः। शेष सुगमम् / / 7 / / तो बियवप्पो पन्न (ना)ध-णुपयरसोवाणसहसपण तत्तो। तइओ वप्पो छस्सय-धणुइगकोसेहि तो पीढं / / 8 / / अवचूरिः-ततस्तृतीयो वप्रस्तस्य चान्तः षड्धनुःशतेनाधिकैकक्रोशेन प्रमितमिति गम्यम् / एक (1) क्रोशषट्शत (600) धनुः प्रमाणमित्यर्थः / पीट समाभूमिरस्ति॥८॥ चउदार तिसोवाणं, मज्झे मणिपीढयं जिणतणुच्चं / दोधणुसयपिहुदीहं, सवदुकोसेहि घरणिअला अवचूरि:-चतुर त्रिसोपानं सोपानत्रयान्वितम। समवसरणस्य मध्ये मणिमय पीठं जिनदेहपरिमाणेनोच्चं द्विशत (200) धषि पृथुलं दीर्घ च, तच्च धरणितलात् सार्द्धक्रोशद्वयेन भवति / / 6 / / जिणतणुबारगुणुच्चो, समहिअ जोयणपिहू असोगतरू। तयहो य देवछंदो, चउसीहासणसपयपीढा / / 10 / / अवचूरिः-"तिन्नेव गाऊआई, चेइअरुक्खो जिणस्स पढमस्स। सेसाण वारसगुणो,वीरे बत्तीस य धणूणि / / 1 // " वीराद् द्वादशगुण एकविंशतिधनुःप्रमाणो (21) भवति केवलोऽशोकस्तदुपरि शालवृक्ष एकादश (11) धषि / एवमुभयोर्मिलने द्वात्रिंशद्धषि (32) चैत्यद्रुमो भवति, वीरस्थति सम्प्रदायः / अत्र शालश्च श्री-वीरस्वामिनोऽभूत् / अन्येषां तीर्थकृता न्यग्रोधादयः। उक्तं च समवायाङ्ग-"चउवीसाए तित्थयराण चउवीस चेइअरुक्खा हुत्था। तं जहा"निगोह सत्तवन्ने, साले पिअए पिअंगु छन्नाहो। सरसे अ नागरुक्ख, माली अपिअंगुरुवरखे अ / / 1 / / तंदुग पाडल जंबू, आसत्थे खलु तहेब दधिवत्तो। नंदीरुक्खो तिलओ, अवंगरुक्खो असोगो अ॥२॥ चंपय बउलो अतहा, वेडसरुक्खो तहेव धवरुक्खा /