________________ समोसरण 477 - अभिधानराजेन्द्रः - भाग 7 समोसरण भुवनगुरोश्च–त्रिभुवननायकरय पुनः स्थापना-अर्हतः स्थापना.न्यासः कर्तव्य इति शेषः / किंभूतस्य लोक पिता पूज्यः पिताम-हस्तु पूज्यतरः पितुरपि पूज्यत्वात्ततः सकलजगतः-समस्तभुवनजनस्य पितामह इव पितामहः सकलजगत्पितामहः / अथवा-सकलजगतो धर्मः पिता पालनाभियुक्त वात्तस्यापि भगवान् पिता भगवत्प्रभवत्याद्धर्मस्येति, पितुः पिता पितामहः, सकल--जगतः पितामहः इति विग्रहः, अतस्तस्य 'तो'त्ति-ततवैल्पतरु-सिंहासनादिन्यासानन्तरं सम्यग्-अवपरीत्येन, क रथापना कार्या?, इत्याह-उत्कृष्टवर्णकस्य प्रधानचन्दनस्योपरि उपरिष्टात-उत्कृष्टवर्णकोपरि किंभूतस्य भुवनगुरोः? समवसरणे जिनधर्मदेशनाभूमौ यानि देवतानिर्मितानि तस्यैव बिम्बानिप्रतिकृतयस्तेषामिव रूप स्वभाधो यस्य स समवसरणबिम्वरूपोऽतस्तस्य चतुर्मुखस्य विशिष्टरूपस्यैवेति गाथार्थः / तथाएयस्य पुव्वदक्खिण-भागेणं मग्गओ गणधरस्स। मुणिवसभाणं वेमा-णिणीण तह साहुणीणं च / / 18|| एतस्य -भुवनगुरोः पूर्वदक्षिणाया आग्नेयदिशो भागः एकदेशः पूर्वदक्षिणदिग्भागस्तेन करणभूतेन-हेतुभूतेन वा मार्गत:--पृष्ठतो गण--. धरस्यगणनायकस्य मुनिवृषभाणां सातिशयादियतिपुङ्गवानाम, तथा विमानिकदेवास्तेषामेता वैमानिन्यः अतस्तासां वैमानिनीना देवीना, तथति समुच्चयार्थरन्तेन स्थापना कार्येति संबध्यते। साध्वीनां-तपस्चिनीनां चशब्दः समुचयार्थ इति गाथार्थः। तथाइय अवरदक्खिणेणं,देवीणं ठावणा मुणेयव्वा / भवणवइवाणमंतर-जोइससंबंधिणीणं ति।।१६।। इति एवमेव यथा मुनिवृषभादित्रयस्यासंकीर्णतया स्थापना कृता एवं भवनपत्यादिदेवीत्रयस्यापि सा कार्येत्यर्थः, अपरदक्षिणेन अपरदक्षिणरयां दिशि साम्यर्थे ह्ययमेनप्रत्ययः, देवीनांसुरबधूनां स्थापनान्यासः 'मुणेयव्य'त्ति--ज्ञातव्या कर्त्तव्यतयेतिशेषः, भवनपतयो–देवालयविशेषनाथा असुरादयः, 'वाण--मंतर' त्ति–वनानाम्-उद्यानानामन्तराणि कुहराणि विशेषा वा धनान्तराणि तेषु भवा मकारवर्णागमाद्वानमन्तरा व्यन्तसः, ज्योतिषि ज्योतिश्चके भवा ज्योतिषा ज्योतींषि वा ज्योतिष्कदेवाः, एतेषां द्वन्द्वोऽतस्तेषां सम्बन्धिन्यः सत्कायास्तास्तथा तासान, इतिशब्दो द्वितीयपर्षदः समाप्तिप्रदर्शनार्थ इति गाथार्थः / तथाभवणवइवाणमंतर-जोइसियाणं व एत्थ देवाणं / अवरुत्तरेण णवरं, निद्दिट्ठा समयकेऊहिं / / 20 / / भवनपतिवानमन्तरा उक्तनिर्वचना 'जोइसिय' ति-ज्योतिषिज्योतिश्चक्रे जाता ज्योतिषिजा ज्योतिषि वा भवा ज्योतिषास्त एव ज्योतिषिकाः एषां द्वन्द्वोऽतस्तेषा भवनपतिवानमन्तरज्योतिषिकाणां वा, वाशब्दः समुच्चये, तद्भावना चैवम्-भवनपत्यादिदेवीनां स्थापना मन्तव्या, भवनपतिवानमन्तरज्योतिषिजानां च / अत्र समवसरणे देवाना--सुराणां किंविशिष्टयमुभयेषामपीत्यत आह-अपरोत्तरेणापरोत्तरस्यां दिशि। नवर केवलं निर्दिष्टा अभिहिताः। समयकेतुभिः-प्रवचनचिह्नभूतैरिति गाथार्थः। तथावेमाणियदेवाणं, णराण णारीगणाण य पसत्था। पुव्वुत्तरेण ठवणा, सव्वेसिं णियगवण्णेहिं / / 21 / / विमानेषु भवा वैमानिकास्ते च ते देवाश्च सुरा इति समासोऽतस्तेपान, थिा नराणाम नृणा, नारीगणानां मनुष्यस्त्रीसमूहानामिह च गणशब्दोपादानं पुरुषापेक्षया स्त्रीजनस्य बहुत्वख्यापनार्थ, चशब्दः समुचये, प्रशस्ता- मगल्या पूर्वोत्तरेण–पूर्वोत्तरस्यां दिशि स्थापनान्याराः काति शेषः / स्थापनाया एव विशेषार्थमाह--सर्वेषां-समस्ताना मनुष्य वर्णविशेषाभावाद्भवनपत्यादिदेवानां निजवणेः स्वकीय 2 शरीरच्छायाभिः तत्र भवनपतिव्यन्तराः पञ्चवर्णाज्योतिष्कारक्तवर्णाः, वैमानिकाः पुना रक्तपीतसितवर्णाः, विशेषः पुनः, काला-असुरकुमारा इत्यादेरागमादवसेयमा इति गाथार्थः / तथाअहिणउलमयाहिव-पमुहाणं तह य तिरियसत्ताणं। वितियंतरम्मि एसा, तइए पुण देवजाणाणं / / 22 / / अहिनकुलमृगमृगाधिपप्रमुखाणां-भुजगव हरिणसिंहप्रभृतिकानां, प्रमुखग्रहणादश्वमहिषादिपरिग्रहः 'तहय' त्ति समुच्चये, अथवा-तथैव तेनैव प्रकारेण देवानामिव निजवर्णविशिष्टतालक्षणेन, परस्परविरोधलक्षणन वा तिर्यकसत्त्वाना तिर्यग्योनिजन्तूनां द्वितीयान्तरे-द्वितीयप्रकारमध्ये एषा स्थापना कार्येति शेषः तृतीये-तृतीयप्राकारान्तरे पुनःशब्दो विलक्षणताख्यापनार्थः,देवयानाना-देववाहनानां करिमकरकेसरिकलपिकलहसाधाकारधारिणामिति गाथार्थः / अथ समवसरणविधि निगमयन् शेषदीक्षाविधिं दर्शयन्नाहरइयम्मि समोसरणे, एवं भत्तिविहवाणुसारेणं / सुइभूओ उपदोसे, अहिगयजीवो इह एइ / / 23 / / रचिते-स्थापिते समवसरणे-समयसिद्धे,एवम्-उक्तनीत्या भक्तिविभवानुसारेण-बहुमानऋझ्यानुरूप्येण शुचिभूतस्तु शौचप्राप्त एव द्रव्यतो भावतश्च, तर द्रव्यतःस्नातः श्रीचन्दनानुलिप्तगात्रः सितवसननिवसनः शुचि विद्यावलुप्तगात्रश्व, भगवतरतु विशुद्धयमानमानसः / प्रदोषेदिवेसाऽवसाने उपलक्षणात्वादस्य प्रशस्ततिथिकरणवारनक्षत्रयोगचन्द्रबललग्नादी अधिकृतजीवः प्रस्तुतसत्त्वो दीक्षणीय इत्यर्थः, इहाधिकृतसमवसरणदेशे एति--आगच्छतीति गाथार्थः। ततश्चभुवनगुरुगुणक्खाणं, तम्मीसं जायतिव्वसद्धस्स। विहिसासणमोहेणं, तओ पवेसो तहिं एवं // 24 // भुवनगुरा:-त्रिभुवनबान्धवस्य जिनस्य ये गुणा रागादिवरिवारविदारक व समस्तवस्तु स्तोमविषयविज्ञायकत्वनिखिलनादिनिकायकाभिनम्यत्वसद्भूतपदार्थप्रकाशकारी वाग्वादित्वशिव सुख नायक त्वतहानसामथ्यादयस्तेषां यदाण्यानम्। अभिधानं तत्तथा तस्माद्भुवनगुरुगुणाख्यानाद्धेतोः। तस्मिन्