________________ समोसरण 474 - अभिधानराजेन्द्रः - भाग 7 समोसरण तत्रवृत्ति कालमानेन परिभाषिता नियुक्तपुरुषेभ्यो दीयते, प्रीतिदान यद्भगवदागमन निवेदिते परमहर्षान्नियुक्तेरभ्यो दीयते, तथा वृत्तिः-- | संवत्सरनियता प्रीतिदानमनियतमिति। एयं चेव पमाणं, नवरं रययं तु केसवा देंति। मंडलियाण सहस्सा, वित्ती पीइ (दाण) सयसहस्सा // 581 / / एतदेव प्रमाणं वृत्तिप्रीतिदानयोः केशवाना नवरं रजत-रूप्य केशवावासुदेवा ददति, तथा-माण्डलिकाना राज्ञामर्द्धवयोदशसंख्यानि सहरत्राणि रूप्यस्य वृत्तिदानं प्रीतिदानं शतसहस्राणि लक्षाणि अर्द्धत्रयो - दशसंख्यानि। किमेते एव महापुरुषाः प्रयच्छन्ति नेत्याहभत्तिविहवाणुरूवं, अन्ने वि य देंति इन्भमाईया। सोऊण जिणागमणं, नियुत्तमणिओइएसुवा / / 582 / / इभ्यो महाधनपतिरादिशब्दानगरग्रामभोगिकादिपरिग्रहः, अन्ये ऽपि च इभ्यादयो भक्तिविभवानुरूपं श्रुत्वा जिनागभनं ददति, केभ्यः ?, इत्याह-नियुक्तेभ्योऽनियोजितेभ्यो वा। अथ तेषामित्थं प्रयच्छता के गुणाः?, उच्यतेदेवाणुवित्तिभत्ती, पूयाथिरकरणसत्तअणुकंपा। सातोदयदाणगुणा, पभावणा चेव तित्थस्स / / 583 / / देवानुवृत्तिः कृता भवति, देवा अप्यनुवर्त्तिता भवन्ति, कथम्?, यतो,देवा भगवत्पूजा कुर्वन्ति, प्रवृत्तिकथके भ्यश्च दानं ददति, अतस्तेऽनुवर्तिता भवन्ति, तथा भक्तिर्भगवतः कृता भवति, पूजा च / तथा अभिनवश्रावकाणां स्थिरकरणं, तथा वातनिवेदकस्य सत्त्वस्थानुकम्पा कृता भवति, तथा सातोद्वयं सातावेदनीय कर्म एवमुपचीयते एते वृत्तिप्रीतिदानगुणा भवन्ति, तथा प्रभावना तीर्थस्यैवं कृता भवतीति, गतं दानद्वारम्। (17) अधुना माल्यद्वारमधिकृत्य प्रोच्यते, तत्र भगवान् प्रथमां संपूर्णपौरुषी धर्ममाचष्टे, अत्रान्तरे देवमाल्य प्रविशति; बलिरित्यर्थः / अथ कस्तं बलिं करोतीत्यत आहराया व रायमच्चो, तस्साऽसइ पउरजणवओ वा वि। दुब्बलिखंडियबलिछडिय-तंदुलाणाढयं कलमा / / 584 / / राजा-चक्रवर्तिमाण्डलिकादिः राजामात्यो वा अमात्योमन्त्री तस्य राज्ञोऽमात्यस्य वा अराति- अभावे नगरनिवासिविशिष्ट-लोकसमुदायः पार तत् करोति / ग्रामादिषु जनपदो वा। अत्र जनपदशब्देन तन्निवासी लोकः परिगृह्यते,स बलिः किविशिष्टः किंपरिमाणो वा क्रियते? इत्याह . 'दुर्बलि' इत्यादि, दुर्बलिकया ख (क)ण्डितानां बलीति वलिकया छटिताना तन्दुलाना, 'कलमा' इति-प्राकृतशैल्या कलमानाम् आढकं वतुःप्रस्थप्रमाण करोति। कि विशिष्टानामित्याहभाइय पुणाऽऽणियाणं, अखंडफुड़ियाण फलगसरियाण। कीरइ बली सुरा वि य, तत्थेव छुहंति गंधाई / / 585 / / भाजिता-ईश्वरादिगृहेषु वीननार्थमर्पिताः स्तेभ्यः प्रत्यानीताः पुनरानीता भाजिताश्च ते पुनरानीताश्च, तेषां किंविशिष्टानाम्? इत्याह अखण्डाः-सम्पूर्णावयवाःअस्फुटिताराजीरहिता अखण्डाश्च ते अस्फुटिताश्चेति विशेषणसमासस्तेषाम्, 'फलक-सरिताण' तिफकवीनितानाम् एवंभूतानामाढकः क्रियते / बलिः सिद्धः सुरा अपि च तत्रैव बलौ प्रक्षिपन्तिगन्धादीन् गतं देवमाल्यद्वारम्। आ० म०१ अ०। अधुना माल्यानयनद्वारम्, तमित्थं तन्दुलाढकपरिमाणं सिद्धं बलिमुपादाय राजादिरित्रदशगणपरिवृतो महता पटुपटहादितूर्यनिनादेन सकलमपि दिग्मण्डलमापूरयन्नागत्य पूर्वद्वारेण प्रवेशयति / आह च चूर्णिकृत्-"तं आढगं तदुलाण सिद्ध देवमलं राया या रायमचो वा गामो वाजणवआवा गहाय महया तूरियरवेणं देवपरिखुडो पुरच्छिमिलेणं दारेणं पविसई ति। बृ०१ उ०२ प्रक०। तस्मिंश्च प्रवेश्यमाने भगवानपि धर्मदेशना मुपसंहरतीत्याहबलिपविसणसमकालं, पुव्वद्दारेण ठाइ परिकहणा। तिगुणं पुरओ पाडण, तस्सद्धं अवडियं देवा / / 586 / / पूर्वद्वारेण बले रभ्यन्तरे-प्राकाराभ्यन्तरे प्रदेशनं बलिप्रवेशन तत्समकालं तिष्ठति-उपरमते धर्मकथना-धर्मकथा। किमुक्तं भवतिअभ्यन्तरे प्राकाराभ्यन्तरे यदा बलिः प्रविशति तदा भगवान् धर्मकथामुपसंहृत्य तूष्णीकोऽवतिष्ठते ततः स राजादिर्वलिव्यग्रहस्तो देवपरिवृतो भगवन्तं तीर्थकरं त्रिःकृत्वा प्रदक्षिणीकृत्य तं बलिं तत्पादान्तिके पुरतः पातयति तस्यार्द्धमपतितं देवा गृह्णन्ति। अद्धऽद्धं अहिवइणो, अवसेसं होइ पागयजणस्स। सव्वामयप्पसमणी, कुप्पइ नन्नो य छम्मासे / / 587 / / शेषस्य अर्द्धरयार्द्धमर्द्धार्द्ध तत् अधिपतेर्भवति; राज्ञ इत्यर्थः, अवशेष यद्वलेरास्ते तद्भवति कस्य? प्रकृतिषु भवः प्राकृतः स चासौ जनस्तस्य, च चैवरूपसामर्थ्यः, यद्येकमपि सिक्थं तत्संबन्धि यस्य शिरसि प्रक्षिप्यते तस्य पूर्वोत्पन्नो व्याधिः खलुपशमं याति, अपूर्वश्च षण्मासान् यावद् न भवति। तथा चाह-सर्वामय-प्रशमनः सूत्रे स्त्रीलिङ्ग निर्देशः प्राकृतत्वात् कुप्यति नान्यनषण्मासान् यावदित्थं बलौ प्रक्षिप्ते भगवान् प्रथमप्रकारादुत्तरद्वारेण निर्गत्य द्वितीये प्राकारान्तरे पूर्वस्यां दिशि देवच्छन्दके यथासुखं समाधिना व्यवतिष्ठते। (18) सम्प्रति 'उवरि तित्थ' ति द्वारमभिधीयते / भगक्त्युत्थिते द्वितीयस्यां पौरूष्यामाद्यगणधरोऽन्यो वा गणधरोधर्ममाचष्टे स्यान्मतिः किं कारणं द्वितीयस्यामपि पौरुष्यां तीर्थकर एव धर्म न कथयति?, तथा आहखेयविणोओ सीसगु-णदीवणा पच्चओ उभयओ वि। सिस्सायरियकमो वि य, गणहरकहणे गुणा होति / / 588 / / खेदविनोदः परिश्रमविनाशो भगवतो, भवति, तथा शिष्यगुणदीपनाशिष्यगुणप्रख्यापनाच कृता भवति तथा प्रत्यय उभयतोऽपि श्रोतृणमुपजायते, यथा भगवताऽभ्यधायि तथा गणधरेणापि, यदिवा--गणधरे तदनन्तरं तदुक्तानुवादिनि प्रत्ययः श्रोतृणां भवति, यथा नान्यथावाद्ययमिति, तथा शिष्याचार्यक्रमोऽपि दर्शितो भवति, आचार्यादृपश्रुत्य योग्यशिष्येण तदर्थान्वाख्यानं कर्त्तव्यमिति / एते गणधरकथने गुणा भवन्ति।