________________ समोसरण 471 - अभिधानराजेन्द्रः - भाग 7 समोसरण भवणवई जोइसिया, बोधव्वा वाणमंतरसुरा य। वेमाणिया य मणुया,पयाहिणं जं च निस्साए / / 560 / / भवनपतयो ज्योतिष्का व्यन्तरसुरा एते पश्चिमद्वारेण प्रविश्य भगवन्त त्रिःप्रदक्षिणीकृत्य वन्दित्वा नमस्तीर्थाय नमः केवलिभ्यो नमोऽतिशाथिभ्यो नमः शेषसाधुभ्यः इति भणित्वा यथोपन्यासमुत्तरपश्चिमे दिग्भागे निपीदन्तिा, तद्यथा- भवनपतीनां पृष्ठतो ज्योतिष्कास्तेषामपि पृष्ठतो व्यन्तरा-इति, तथा वैमानिका मनुष्याश्वशब्दात् स्त्रियश्च / अस्य चशब्दस्य व्यवहित उपन्यासः, कि 'पयाहिण' ति-उत्तरद्वारेण प्रविश्य प्रदक्षिणाः कृत्वा तीर्थकरादीनभिवन्द्य उत्तरपूर्वे दिग्भागे यथोपन्यास निषीदन्ति, तद्यथा-वैमानिकानां पृष्ठतो मनुष्यास्तेषामपि पृष्ठतो मनुष्यस्त्रियः। इहैवं सम्प्रदायः-देव्यःसर्वा एव न निषीदन्ति देवा मनुष्या मनुष्यस्त्रियश्च निषीदन्ति इति, तथा विवृतं, 'जं च निस्साए' यः परिवारो यां च निश्रां कृत्वा समायातः स तत्पार्श्व एव तिष्ठति नान्यत्र / आ०म० अ०। अत्रान्तरे भाष्यादर्शषु केषुचिदेता गाथा दृश्यन्तेअणगारा वेमाणिय,वरं गणो सो गणी य पुव्वेणं / पविसंति विविहमणिरय--णकिरणनिकरेण दारेणं / / 1 / / जोइसियभवणवणयर-दयितालायत्तरूवकलियाओ। पविसंति दक्खिणेणं,पडायकयपंति कलिएणं // 2 / / जोइसियभवणवणयर-संसभमा-ललियकुंडलाहरणा। पविसंति पच्छिमेणं, वितुंगदिप्पंतसिहरेणं / / 3 / / समहिंदा कप्पोवग-देवा राया नरा य नारीओ। पविसंति उत्तरेणू, परमणियओहओहेणं / / 4 / / एताश्च द्वयोरपि चूोरगृहीतत्वात्प्रक्षेप (प्रक्षिप्त) गाथाः सम्भाव्यन्ते। उक्तार्थाः। बृ०१ उ०२ प्रक०। साम्प्रतमभिहितमेवार्थ भाष्यकारः पूर्वद्वारादि प्रवेशविसृष्टं स्पष्टतरं प्रतिपादयतिसंजय वेमाणित्थी, संजयपुव्वेण पविसिउं वीरं। काउंपयाहिणं पु-व्वदक्खिणे ठंति दिसिभागे॥११६|| संयता वैमानिकस्त्रियः संयत्यः पूर्वण-पूर्वद्वारेण प्रविश्य वीरं प्रदक्षिणं कृत्वा पूर्वदक्षिणे दिग्भाग तिष्ठन्तीति। जोइसियभवणवंतर-देवीओ दक्खिणेण पविसंति। चिट्ठति दक्षिणावर-दिसिम्मि तिगुणं जिणं काउं॥११७॥ ज्योतिष्कभवनव्यन्तरदेव्यो दक्षिणेन द्वारेण प्रविश्य त्रिगुणं प्रदक्षिण जिन कृत्वा दक्षिणापरदिग्भागे पूर्वक्रमेण तिष्ठन्ति। अवरेण भवणवासी, वंतरजोइससुरा य अतिगंतुं। अवरुत्तरदिसिभागे, चिट्ठति जिणं नमंसित्ता।।११८।। अपरेण-पश्चिमद्वारेण भवनवासिन्यो व्यन्तरज्योतिष्कसुराश्च अभिगत्यप्रविश्य जिन नमस्कृत्यापरोत्तरदिग्भागे वायव्यकोणे इत्यर्थः, पूर्वक्रमेण तिष्ठन्ति। समहिंदा कप्पसुरा, राया नरनारिओ उदिण्णेणं / पविसित्ता पुवुत्तर-दिसए चिटुंति पंजलिया।।११।। समहेन्द्रा महर्द्धिभिरिन्द्रैः सहिताः कल्पोपपन्ना देवा राजानो नराः सामान्यपुरुषा नार्यश्वउदीच्येनोत्तरेण द्वारेण प्रवश्यि भगवन्तं प्रणम्य प्राञ्जलयः पूर्वोत्तरदिगभागे तिष्ठन्ति / अभिहितार्थोपसंग्रहमाहएके किए दिसाए, तिगं तिगं होइ सन्निविटुं तु। आइचरमे विमिस्सा,थीपुरिसा सेसपत्तेयं // 561 / / एककस्या पूर्वदक्षिणादिकायां दिशि त्रिकं 2 भवति सन्निविष्ट'तद्यथापूर्वदक्षिणस्यां संयतवैमानिकदेवीश्रमणीरूप, दक्षिणापरस्यां भवनवासिज्योष्कव्यनारदेवीरूपम्, अपरोत्तरस्यां भवनपतिज्योतिष्कव्यन्तरदेवरूपम्, उत्तरपूर्वस्यां वैमानिकमनुष्यमनुष्यस्त्रीरूपमिति। आदिमे च त्रिके पूर्वदक्षिणदिगते चरमे च त्रिके पूर्वोत्तरदिग्गते विमिश्रा भवन्ति, स्त्रियः पुरुषाश्च तिष्ठन्ती-ति भावः / शेषे त्रिकद्वये प्रत्येक भवति, अपरादक्षिणे दिग्भागे केवलाः स्त्रियः एव अपरोत्तरे च दिग्भागे पुरुषा एवेति भावार्थः। (7) तेषां चेत्थं स्थितानां देवनराणामिय मर्यादाएतं महिड्डियं पणि-वयंति ठियमवि वयंति पणमंता। ण विजंतणा न विकहा, न परोप्परमच्छरो न भयं / / 562 / / ये अल्पद्धयो भगवतः समवसरणे पूर्वनिषण्णास्ते आगच्छन्तं महर्द्धिकं प्रणिपतन्ति / अथ महर्द्धिकाः प्रथम समवसरणे निषण्णास्ततः पश्चात् ये अल्पर्धिकाः समागच्छन्ति ते तान् पूर्वस्थितान् महर्धिकान प्रणिपतन्तो व्रजन्ति / तथा तेषां रिथतानां नापि यन्त्रणा, आयत्तता नापि विकथा, न च परस्पर मत्सरो, नापि विरोधिनामपि सत्त्वाना परस्पर भयं भगवतोऽनुभावात्। एतत् सर्व प्रथमप्राकारान्तरे व्यवस्थितम्। अथ द्वितीयप्राकारान्तरे तृतीयप्राकारान्तरे च किं व्यवतिष्ठते इत्याह-- बिइयम्मि होंति तिरिया, तइए पागारमंतरे जाण। पागारजढे तिरिया, वि होंति पत्तेयमीसा वा // 563 / / द्वितीये प्राकारान्तरे भवन्ति तिर्यञ्चस्तथा तृतीये प्राकारान्तरे यानानि, प्राकररहित: बहिरित्यर्थः / तिर्यशोऽपि भवन्ति, अपिशब्दात्मनुष्यदेवा अपि / ते च प्रत्येकं कदाचिद्भवन्ति कदाचि-त्तिर्यञ्च एव.कदाचिन्मनुष्या एव,कदाचिद्देवा एव,तथा कदाचिन्मिश्रा वा। एतेच प्रत्येकं, मिश्रा वा प्रविशन्तो निर्गच्छन्तश्च वेदितव्याः / गतं समवसरणद्वारम्। (8) अधुना द्वितीयद्वारप्रतिपादनार्थमाहसव्वं च देसविरतिं, सम्मं वेच्छइ व होइ कहणा उ। इहरा अमूढलक्खो , न कहेइ भविस्सइ न तं च / / 464 // विरतिशब्द उभयत्रापि सम्बध्यते, सर्व-सर्वविरतिंदेशविरतिं सम्यक्त्वं वा ग्रहीष्यति / वाशब्दस्य व्यवहितः सम्बन्धः, ततः कथना-कथनं भगवतः प्रवर्तते 'इहर' त्ति इतरथा अमूढलक्ष्याः समस्तज्ञेयाविपरीतवेदनाः किं न कथयति? आह- यद्येवं समवसरणकरणप्रयासो विबुधानामनर्थकः, कृतेऽपि नियमतो कथनादित्यत आह- भविष्यति न तत्र यद्भगवति कथयति अन्यतमोऽप्यन्यतमत्सामायिकं न प्रतिपद्यत इति भविष्यत्कालनिर्देशस्त्रिकालोपलक्षकः /