________________ समोसरण 466 - अभिधानराजेन्द्रः - भाग 7 समोसरण प्यादयः प्रतिपद्यन्ते, कियतो वा भूभागादपूर्वे समवसरणे दृश्पूर्वे वा साधुना आग तव्यम्, 'रुव' त्ति-भगवतो रूपं व्यावर्णनीयं 'पुच्छ' त्तिकिमुत्कृष्टरूपतया भगवतः प्रयोजनमिति पृच्छा कार्या, उत्तरं च वक्तव्य, कियन्तो वा हृद्तं संशयं पृच्छन्तीति 'वागरण' ति–व्याकरणं भगवतो वक्तव्यम्, यथा युगपदेव संख्यातीतानामपि पृच्छाता व्याकरांतीति 'पुच्छवागरण' ति-एकं वा द्वारं पृच्छायां व्याकरणं तद्ववक्तव्यम् 'सोयपरिणामा' त्ति-श्रोतृपु परिणामः श्रोतृपरिणामः,रा च वक्तव्यो, यथा सर्व--श्रोतृणां भागवती वाक् स्वभाषया परिणमते, 'दानं च' त्तिवत्ति-दानं प्रीतिदानं च कियत्प्रयच्छन्ति चक्रवादयस्तीर्थकरप्रवृतिकथकेभ्य इति वक्तव्यम् / 'देवमल्ले' त्ति--गन्धप्रक्षेपाद्देवानां सम्बन्धिमाल्य देवमाल्यं बल्यादिकः करोति, कियत्परिमाणं वेत्यादि / 'मल्लाणयणे' ति. माल्यानयने यो विधिः असौ वक्तव्यः, 'उवरि तित्य ति-उपरि-पौरुष्याः, किमुक्तं भवति-पौरुष्या-मतिक्रान्तायां तीर्थमिति प्रथमगणधरोऽन्यो वा तदभावे देशनां करोतीत्येष द्वारगाथानामासार्थः / विस्तरार्थ प्रतिद्वारं वक्ष्यामः। तत्र। (४)नन्विदं समवसरणं यत्र भगवान् धर्ममाचष्ट तत्र निरामतो भवत्युत नेत्याशापनादमुखेन प्रथम द्वार व्याचिरख्यासुरिदमाहजत्थ अपुव्वोसरणं, जत्थ व देवो महिड्डिओ एइ। वाउदयपुप्फबद्दल-पागारतियं च अमिओगा / / 544 / / यत्र क्षत्र माग नगरे वा अपूर्वमभूतपूर्व समवसरणं भवति, तथा यत्र या भूतपूर्वसमवसरणे क्षेत्रे देवो महर्द्धिको एति-आगच्छति, तत्र किमित्याहबात रण्वाद्यपनोदाय उदकवाईल भाविरेणुसन्तापोपशान्तये, पुष्पवादलं पुष्पवृष्टि निनित्तं ततक्षितिविभूषणाय, वार्दलशब्द उदकपुष्पयोः प्रत्यकमभिसंबध्यते / तथा प्राकारत्रिक च सर्वमेतत् अभियोगमर्हन्तीत्याभियोग्या देवाः, कुर्वन्तीति वाक्यशेषः। अन्यत्र त्वनियमः। एवं तावत् सामान्येन समक्स-रणविधिरुक्तः। सम्प्रति विशेषेण प्रतिपादयतिमणिकणगरयणचित्तं, भूमीभागं समंततो सुरभि / आयोयणंतरेणं, करेंति देवा विचित्तं तु / / 545|| इह यत्र समवसरणं भवति तत्र योजनपरिमण्डलक्षेत्रमाभियोग्या देवाः संवर्तक वात विकुर्वि त्वा तेन विशुद्धरजः कुर्वति, ततः सुरभिगन्धोदकवृष्ट्या निहतरजस्तत आयोजनान्तरेण योजनपरिमाण भूमिभाग मण्यश्चन्द्रकान्तादयः कनकदेवकाञ्चन रत्नानि इन्द्रनीलादीनि, अथवा-स्थलसमुद्भवा मणयो जलसमुद्भवानिरत्नानि, तैश्चित्रं समन्ततः-सर्वासु दिक्षु सुरभि-सुगन्धिगन्धयुक्तं मणीनां सुरभिगन्धोदकस्य पुष्पाणां वाऽतिमनोहारिगन्धयुक्तत्वात् विचित्रम्-अपूर्व देवाःआभियोग्याः कुर्वन्ति। विंटट्ठाई सुरभि, जलथलयं दिव्वकुसुमनीहारिं। पइरंति समंतेणं,दसद्धवण्णं कुसुमवासं / / 546 / / आभियोगा देवाःप्रकिरन्ति समन्ततः सर्वासु दिक्षु विदिक्षु च / दशार्द्धवर्ण कुसुमवर्ष किविशिष्टमित्याह-वृन्तस्थायि वृन्तमधोभागे पत्राण्युपरि इत्येव स्थानशीलं सुरभिगन्धोपेतत्वात दिव्यकुसुमनिहारिदिव्यः -प्रधान:-कुसुमाना निर्हारी प्रबलो गन्धप्रसरो यस्मात्तदिव्यकसुमनिहारि। मणिकणगरयणचित्ते, चउद्दिसिं तोरणे विउव्वंति। सच्छत्तसालभंजिय-मकरद्धयचिंधसंठाणे / / 547 / / चतसृष्वपि दिक्षु मणिकरत्नविचित्राणि तोरणानि व्यन्तरदेवा विवन्ति / किं विशिष्टानीत्याह-छत्र प्रतीत, शालभलिकाः-स्तम्भपुत्तलिका 'मकर' ति मकरमुखोपलक्षण बजाः प्रतीताः चिहानिस्वस्तिकादीनि संस्थानमत्यद्भुतो रचनाविशेषः सन्ति शोभनानि छत्रशालभलिकानकरध्वजचिह्नसंस्थनानि येषु तानि तथोच्यन्ते। तिन्नि य पागारवरे, रयणविचित्ते तहिं सुरगणिंदा। मणिकंचणकविसीसग-विभूसिए ते विउट्वेंति / / 548|| तत्र समवसरणे ते वक्ष्यमाणाः सुरगणेन्द्रास्त्रीन प्रकारवरान रत्नविचित्रान् मणि काश्चनकपिशीर्षकविभूषितान विकुर्वन्ति / भावार्थ उत्तरगाथाया व्याख्यास्यते। सा चेयम्अभिंतर मज्झ बहि, विमाणजोइभवणाहिवकयाओ। पागारा तिन्नि भवे, रयणे कणगे य रयए य / / 546 / / अभ्यन्तरे मध्ये बहिर्विमानज्योतिर्भवनाधिपकृताः प्राकारास्त्रयो भवन्ति, ने कनके रजते च / यथाक्रम रत्नमयः कनकमयो रजतमय इत्यर्थः / एप भावार्थः / अभ्यन्तरप्राकारा रात्नस्त विमानाधिपतयः कुर्वन्ति,मध्यमः कनकेभवः कानकस्तं ज्योतिर्वासिनः कुर्वन्ति, बाह्यो रातजरत भवनपतय: कुर्वन्ति। मणिरयणहेमया विय, कविसीसा सव्वरयणिया दारा। सव्वरयणमय चिय, पड़ागधयतोरणविचित्ता।।५५०।। यथाक्रम मणिरत्नहेममयानि कपिशीर्षकाणि, तद्यथाप्रथमप्राकारे पशवर्णमणिमयानि कपिशीर्षकाणि तानि वैमानिकाः कुर्वन्ति, द्वितीये रत्नमयानि तानि ज्योतिष्का विदधते, तृतीये हेममयानि तानि भवनपतयः कुर्वन्ति, तथा सर्वरत्नमयानि द्वाराणि तानि भवनपतयः कुर्वन्ति, तथा सर्वरत्नमयान्येव मूलदलापेक्षया पताकाध्वजप्रधानानि तोरणानि विचित्राणि कनकस्वस्तिकादिभिश्चित्ररूपाणि तानि व्यन्तरदेवाः कुर्वन्ति। तत्तो य समतेणं, कालागुरुकुंदुरुक्कमीसेणं / गंधेण मणहरेणं, धूवघडीओ विउव्वन्ति / / 551 / / ततः समन्ततः-सर्वासु दिक्षु कृष्णागरुकुन्दुरुक्कमिश्रेण गन्धेन मनाहारिणा युक्ताः किं धूपघटिका विकुर्वन्ति, व्यन्तरदेवाः। उक्किट्ठिसीहनायं, कलयलसद्धेण सव्वओ सव्वं / तित्थयरपायमूले, करेंति देवा निवयमाणा // 552 / / तीर्थकरपादमूले निपतन्तो देवा उत्कृष्टिसिंहनादं कुर्वन्ति, उत्कृटिई पं विशेषप्ररितो ध्वनिविशेषस्तत्प्रधानः सिंहनादः उत्कृ ष्टिसिंहनादस्त तथा कलकलशब्देन समन्ततः-सर्वासु दिक्षु युक्तं सर्वमशेष कुर्वन्ति।