________________ समुद्दपाल 462 - अभिधानराजेन्द्रः - भाग 7 समुद्दपाल प्रतानि महाव्रतानि शीलानिपिण्डविशुद्ध्याधुत्तरगुणरूपाणि परीषहानिति भीमसेनन्यायेन परिषहसहनानि च / एतदभिरुच्य तदनन्तरं च यत्कृतवास्तदाह-अहिंसां सत्यमस्तैन्यकं च 'तत्तो य बभं अपरिगह च' त्ति-ततश्च ब्रह्मचर्यमपरिग्रहं च प्रतिपद्य-अङ्गीकृत्य 'अबंभपरिगह च' इति तु पाठे परिवयं चेत्यध्याहार्य पञ्च महाव्रतानि-उक्तरूपाणि 'चरिजत्ति-प्राग्वदचरत् नाङ्गीकृत्यैव तिष्टोदिति भावः, धर्म श्रुतचारित्ररूपं जिनदेशित 'विउत्ति-विद्वान् जानानः। 'सव्वेहिं भूतेहिं' सुबव्यत्यात् सर्वेष्वशेषेषु प्राणिषु द्वययाहितोपदेशादिदानात्मिकया रक्षणरूपया वा अनुकम्पनशीलो दयानुकम्पी पाठान्तरतो दयानुकम्पो वा क्षान्त्या न त्वशक्त्या क्षमते प्रत्यनीकाद्युदीरितदुर्वचनादिकं सहत इति क्षान्तिक्षमः, संयत इति संयतः, स चासौ ब्रह्मचारी च संयतब्रह्मचारी पूर्व ब्रह्मप्रतिपत्त्यागत्वेऽपि ब्रह्मचारीत्यभिधानं ब्रह्मचर्यस्य दुग्नुचरत्वख्यापनार्थम्, अनेन च मूलगुणरक्षणोपाय उक्तः। 'कालेण कालं ति-रूढितः काले-प्रस्तावे, यद्वा-कालेन-पादोनपौरूष्यादिना कालमिति कालोचित प्रत्युपेक्षणादि कुर्वन्निति शेषः, राष्टे-मण्डले बलाबल सहिष्णुत्वासहिष्णुत्वलक्षणं ज्ञात्वाऽऽत्मनो यथा यथा संयमयोगहानिर्न जायते तथा तथेत्यभिप्रायः,अन्यच सिंहवच्छब्देन प्रस्तावाद्धयोत्पादकेन न समत्रस्यन्नैव सत्त्याचलितवान्, सिंहदृष्टान्ताभिधानं च तस्य सात्त्विकत्वेनातिस्थिरत्वादत एव वाग्योगम्-अर्थाद्दुःखोत्पादक 'सोच' त्ति-श्रुत्वा न-नैवासभ्यमश्लीलरूपम् 'आहु' त्ति-उक्तवान् / तर्हि किम-यमकरोदित्याह-उपेक्षमाणस्तमवधीरयन पर्यव्रजत तथा प्रियम-नुकूलमप्रियमननुकूलं 'सव्वं तितिक्खएज' त्ति-सर्वमतितिक्षतसोढवान्। किञ्च 'न सव्व' त्ति-सर्व वस्तु सर्वत्र स्थानेऽभ्यरोच-यत न यथा दृष्टाभिलाषुकोऽभूदिति भावः / यदि वा-यदेकत्र पुष्टालम्बनतः सेवितं नतत्सर्वमभिमताहारादि सर्वत्राभिलीष-तवान्,नचापि पूजा गहाँ वाऽभ्यरोचयतेति सम्बन्धः, इह च गा-तोऽपि कर्मक्षय इति केचिदतस्तन्मतव्यवच्छेदार्थ गर्हाग्रहणं, यद्वा-गर्हा-परापवादरूपा, ननु भिक्षोरपि किमन्यथाभावः सम्भवति?, येनेत्थमित्थं च तद्गुणाभिधानमित्याह- 'अणेग' त्ति-वृत्तार्द्ध तत्र च 'अणेग' त्ति-अनेके छन्दाः अभिप्रायाःसम्भव, न्तीति गम्यते, 'मिह' त्ति-मकारोऽलाक्षणिकः, इह जगति 'माण-वेहि' ति-सुब्ब्यत्ययान् मानवेषु 'ये' इति याननेकान् छन्दानुभावतस्तत्त्ववृत्त्यौदयिकादिभावतो वा स प्रकरोति भृशं विधत्ते 'भिक्खु' त्ति-अपिशब्दस्य गम्य मानत्वात् भिक्षुरपि-अनगारोऽपि सन् अत इत्थमित्थं च तद्गणभिधानमिति भावः / अपरं च'भयभेरवा' भयोत्पादकत्वेन भीषणास्तत्रेति ब्रह्मप्रतिपत्तौ 'उइंति' त्तिउद्यन्ति उदयं यान्ति पठ्यते च-'उति' त्ति- उपयन्ति भयभैरवा इत्यनेनापि गते-भीमा इति पुनरभिधानमतिरौद्रता ख्यापनायोक्तं, दिव्या इत्यादावुपसर्गा इति गम्यते। 'तिरिच्छत्ति तैरश्वाः तथा 'परीसह' ति-परीषहांश्च उद्यन्तीति सम्बन्धः, सीदन्ति–संयम प्रति शिथिलीभवन्ति 'जत्थ' ति यत्र येषूपसर्गेषु परीषहेषु च सत्सु 'से' इति-स तत्र | तेषु 'पत्ते त्ति-वचन-व्यत्ययात, प्राप्तेषु प्राप्तो वानुभवनद्वारेणायातो न(व्यर्थत् स्यात्) व्यथाभीतश्चलितो वा सत्त्वाद् भिक्षुः सन संग्रामशीर्षेयुद्धप्रकर्ष इव नागराजो-हरितराजः स्पर्शास्तृ-उपतापयन्ति अकुक्कय' त्ति आर्षत्वात् कुत्सितं कूजति-पीडितःसन्नाक्रन्दति कुकूजो न तथेत्यकुकूजः पठ्यतेच–'अकक्करित्ति-कदाचिद्वेदनाकुलि-तोऽपिन कर्करावितकारी, अनेन चानन्तरसूत्रोक्त एवार्थो विस्पष्टतार्थमन्वयेनोक्तः, एवंविधश्च स रजांसीव रजांसि जीव-मालिन्यहेतुतया कर्माणि 'खेवेज' त्ति-अक्षिपत् परीषहसहनादि-भिः क्षिप्तवान्, 'मोह' (म) इतिमिथ्यात्वहास्यादिरूपोऽज्ञानं वा गृह्यते, आत्मना गुप्त आत्मगुप्तः कूर्मवत् संकुचितसर्वाङ्गः अनेन परीषहसहनोपाय उक्तः, किञ्च 'न यावि पूर्य गरिहं च संजये' ति-न चापि पूजा गर्दा च प्रतीति शेषः असजत्-सङ्ग विहितवान्, तत्र च अनुन्नतत्व मनवनतत्वं च हेतुर्भावत उन्नतो हि पूजा प्रति अवनतश्च गहाँ प्रति सङ्ग कुन्नित्वन्यथेति भावः,पूर्वत्राभिरुचिनिषेध उक्तः इह तु सङ्गस्येति पूर्वस्माद्विशेषः,स इति–स एवंगुणःऋजुभावम्-आर्जव प्रतिपद्य-अङ्गीकृत्य संयतो निर्वाणमार्ग सम्यग्दर्शनादिरूपं विरतः सन्नुपैति विशेषेण प्राप्नोति, वर्तमाननिर्देश: इहोत्तरत्र च प्राग्वत्ततः स तदा कीदृशः किं करोतीत्याह-अरतिरती संयमासंयमविषये सहतेनताभ्यां वाध्यत इत्यरतिरतिसहः 'पहीणसंथवे' त्ति-प्रक्षीणसंस्तवःसंस्तवाहीणो वा संस्तवश्व पूर्वपश्चात्संस्तवरूपो वचनसवासरूपो वा गृहिभिः सह, प्रधानः स च संयमो मुक्तिहेतुत्वात यस्यास्त्यसौ प्रधानवान् परमः प्रधानोऽर्थः पुरुषार्था वाऽनयोः कर्मधारये परमार्थो मोक्षः, स पद्यते-गम्यते यैस्तानिपरमार्थपदानि सम्यग्दर्शनादीनि सु-व्यत्ययात् तेषु तिष्ठति अविराधकतयाऽऽस्ते 'छिन्नसोय'त्ति छिन्नशोकः छिन्नानि या श्रोतांसीव श्रोतांसिमिथ्यादर्शनादीनि येनासौ छिन्नश्रोताः,अतएव अममोऽकिञ्चनः, इह च संयमवि-शेषाणामानन्त्यातदभिधायिपदाना पुनः पुनर्वचनेऽपि न पौनरुक्त्य, तथा विविक्तलयनानिस्त्रयादिविरहितोपाश्रयरूपाणि विविक्तत्वादेव च 'निरोवलेवाई ति-निरुपलेपानि-अभिष्वङ्ग रूपोपलेपवर्जितानि भावतो द्रव्यतस्तु तदर्थं नोपलितानि असंसृतानि-वीजादिभिरय्याप्तानि अत एव च निर्दोषतया ऋषि-भिः-मुनिभिश्चीर्णान्यासेवितानि,चीर्णशब्दस्य तु सुचीर्ण प्रोषितव्रतमितिक्त्साधुता 'फासिज्ज' त्ति-अस्पृशत्-सोढवानित्यर्थः पुनः पुनः परीषहस्पर्शनाभिधानमतिशयख्यापनार्थम्, ततः स कीदृगभूदित्याह 'स' इति समुद्रपालनामा मुनिनिमिह श्रुतज्ञानं तेन ज्ञानम्-अवगमः प्रक्रमाद्यथावत् क्रियाकलापस्य तेनोपगतो युक्तो ज्ञानज्ञानोपगतः,पाठान्तरतः सन्ति-शोभनानि नानेत्य-नेकरूपाणि ज्ञानानि सङ्ग त्यागपर्यायधर्माभिरुचितत्वाद्यवबोधा-त्मकानि तैरुपगतः सन् नानाज्ञानोपगतः धर्मसञ्चयक्षान्त्यादियतिधर्मसमुदयम् 'अणुत्तर णाणधरि त्ति-एकारस्यालाक्षणिकत्वादनुत्तरज्ञानं केवलाख्यं तद्धारयत्यनुत्तरज्ञानधरः, पठ्यते च–'गुणुत्तरे णाणधरि' ति-तत्र च गुणोत्तरोगुणप्रधानो ज्ञानं प्रस्तावात् केवलज्ञानं तद्धरः, एकारस्यालाक्षणिकत्वाद् गुणोत्तर यज्ज्ञानं तदरो वाऽत एव यशस्वी 'ओभासइय'त्ति अवभासते--प्र--