SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ समुग्धाय 456 - अभिधानराजेन्द्रः - भाग 7 समुग्धाय नानि। वायुकायिकास्तुजघन्यतो वा उत्कर्षतो वा अमुलासंख्येयभाग, तावत्प्रमाणं चोत्कर्षतो दण्डमारचयन्तम्तावति प्रदेशे तेजसादिशरीरपुद्गलान् आत्मप्रदेशेम्यो विक्षिपन्ति, ततस्तैः पुदगलैर्भूत क्षेत्रमायामत उत्कर्षतोऽपि संख्येयान्येव योजनान्यवाप्यन्ते। एतच्चैव क्षेत्रप्रमाणं केवलं | वैक्रियसमुद्धातसमुद्भवं प्रयत्नमधिकृत्योक्तम्, यदा तु कोऽपि वैक्रिय - समुद्घातमधिरूढो मरणमुपश्लिष्टः कथमप्युत्कृष्टदेशेन त्रिसामयिकेन विग्रहेणोत्पत्तिदेशमभिगच्छति तदा संख्यातीतान्यपि योजनानि यावदायामक्षेत्रमवसेयम् तावत्प्रमाण क्षेत्रापूरणं मरणसमुद्घातप्रयत्नसमुद्भवमिति सदपि न विवक्षितम् / 'एकदिसिं विदिसिं वा' इति-तल जघन्यत उत्कर्षता वा यथोक्तप्रमाणमायामक्षेत्रमेकस्यां दिशि विदिशि वा द्रष्टव्यम्, तत्र नैरयिकाणां पञ्चेन्द्रियतिरश्चां वायुकायिकानां च नियमादेकदिशि नैरयिका हि परवशा अल्पर्द्धयश्च तिर्यक्पञ्चेन्द्रियाश्वाल्पर्द्धय एव वायुकायिका विशिष्टचेतनाविकलास्ततस्तेषां वैक्रियसमुद्घातमारभमाणाना यदि पर तथा स्वाभाच्यादेवात्मप्रदेशदण्डविनिर्गमस्तेभ्यश्चात्मप्रदेशेभ्यो विश्लिष्य पुद्गलानां च स्वभावतोऽनुश्रेणिगमनं न तु विश्रेणितः ततो दिश्येव नैरयिकतिर्यक्पञ्चेन्द्रियवायुकायिकानामायाभताः क्षेत्रं द्रष्टव्यम्, न तु विदिशि, ये तु भवनपतिव्यन्तरज्योतिष्कवैमानिका मनुष्याश्च ते स्वेच्छाचारिणो विशिष्टलब्धिसम्पन्नाश्च भवन्ति ततस्ते कदाचित्प्रयत्नविशेषतो विदिश्यप्यात्मप्रदेशाना दण्ड विक्षिपन्तस्तत्र तेभ्य आत्मप्रदेशेभ्यः युगलान् विक्षिपन्तीति तेषामेकस्यां दिशि विदिशि वा प्रत्येतव्यम्। वैक्रियसमुद्घातगतश्च कोऽपि कालमपि करोति, विग्रहण चोत्पत्तिदेशमभिसर्पति ततो विग्रहगतिमधिकृत्य कालनिरूपणार्थमाह'से णं भंते !' इत्यादि, तत् भदन्त ! क्षेत्रं विग्रहगतिमधिकृत्योत्पत्तिदर्श यावत् 'केवइ-कालस्स' ति-तृतीयार्थे षष्ठी, कियता कालेनापूरण कियता कालेन स्पृष्टम्,?भगवानाह-गौतम ! एकसामयिकेन वा द्विसा - मयिकेन वा त्रिसामयिकेन वा विग्रहेण आपूर्ण स्पृष्टमिति गम्यते। किमुक्त भवति ?-विग्रहगतिमधिकृत्य मरणदशाया आरभ्य उत्पत्तिदेशं यावत् क्षेत्रस्यापूरणमुत्कर्षतः त्रिभिः समयैरवाप्यते न चतुर्थेनापि समयेन, वैक्रियसमुद्घातगतो हि वायुकायिकोऽपि प्रायस्त्रसनाड्यामेवोत्पद्यते, त्रसनाड्यां च विग्रह उत्कर्षतोऽपि त्रिसामयिक इति / उपसंहारमाह'एवइकालस्स' इत्यादि सुगमम्, 'सेस तं चेवे त्यादि अत ऊर्ध्व शेष सूत्र तदेव यत्प्राक वेदनासमुद्घाते उक्तम्, तच्च तावत् यावदन्तिमपदं 'पंचकिरिया वि' इति 'एवं नेरइएण वि' इत्यादि सूत्रं तु स्वयं भावनीयम्। यस्तु दिविदिगपेक्षया विशेषः स प्रागेव दर्शितः।। सम्प्रति तेजससमु घातमभिधित्सुराह-'जीवे णं भते ! तेयगसमुग्घाएण' मित्यादि, सुगम, नवरमयं तैजससमुद्घातश्चतुर्देवनिकायतिर्यक्पञ्चन्द्रियमनुष्याणां सम्भवतिन शेषाणां, तेच महाप्रयत्नवन्त इति तेषां तैजससमुदधातमारभमाणानां जघन्यतोऽपि क्षेत्रमायामतोऽमुलासंख्येयभागप्रमाणं भवति, न तु संख्येयभागमानम्-उत्कर्षतः संख्येययोजनप्रमाणम् / तच्च जघन्यत उत्कर्षतो वा यथोक्तप्रमाण क्षेत्रं तिर्यक्रपञ्चेन्द्रियवर्जानामेकरयां दिशि विदिशि वा वक्तव्यम्, तिर्यक्पञ्चेन्द्रियाणां तु दिश्येव / अत्र युक्तिः प्रागुक्तैवानुसतव्या, तथा चाह- ‘एवं जहा वेउव्वियसमुग्घाए' इत्यादि। त-देवमुक्तस्तैजससमुदघातः / / साम्प्रतमाहारकसमुद्घातं प्रतिपिणदयिषुराह-'जीवे ण भंते!' इत्यादि, एतच्च सूत्रं तैजरासमुद्घातवदावनीय, नवरमयमाहारकसमुद्घातो मनुष्याणां तत्राप्यधीतचुर्दशपूर्वाणांतत्रापि केषाश्चिदेवाहारकलब्धिमतां न शेषाणा, ते चाहारकसमुद्घातमारभमाणा जघन्यत उत्कर्षतो वा यथोक्तप्रमाणमायामतः क्षेत्रमात्मप्रदेशविश्लिष्टः पुद्गलैरापूरयन्त्येकस्यां दिशि, न तुविदिशि। विदिशि तु प्रयत्नान्तरविशेषादात्मप्रदेशदण्डविक्षेपः पुद्गलैरापूरण च / नच ते प्रयत्नान्तरमारभते प्रयोजनाभावात्, गम्भीरत्वाचेति। आहारकसमुद्घातगतोऽपिच कोऽपि कालं करोति विग्रहेण चोत्पद्यते विग्रहश्चोत्कर्षतस्त्रिसामयिक इति 'एगदिसिं एवइए खेत्ते फुडे' तथा 'एगसमइएण वा दुसमइएण वा' इत्यायुक्तम्। तथा मनुष्याणामेवायमाहारकसमुदधात इति चतुर्विशतिदण्डकचिन्तोपक्रमे 'एवं मणूसे वि' इत्युक्तम्, अस्यायगर्थ:-एवं सामान्यतो जीवपदे इव मनुष्येऽपि मनुष्यचिन्तायामपि सूत्रं वक्तव्यम, जीवपदे मनुष्यानेवाधिकृत्य सूत्रस्य प्रवृत्तत्वात, अन्येषामाहारकसमुद्घातासम्भवात्। तदेवं षण्णामपि छाद्यस्थिकानां समुद्घातानामारम्भे जघन्यत उत्कर्षतो वा यावत्प्रमाण क्षेत्रमात्मविश्लिष्टेः पुद्गलैर्यथायोगमौदारिकादिशरीराद्यन्तर्गतरापूरितं भवति तावत्प्रमाणमावेदितम् / प्रज्ञा०३६ पद। विशे० / भ० / स०। आ० चू०। आ० म०। पं० सं०। (13) अधुना समुद्घातद्वारविस्तर:तेसि णं भंते ! जीवाणं कति समुग्घाया एण्णत्ता ? गोयमा ! तओ समुग्घाया पण्णत्ता,तं जहा-वेयणासमुग्धाए कसायसमुग्घाए मारणंतियसमुग्घाए। (सू०१३+) तत्र समुद्धाताः सप्त, तद्यथा-वेदनासमुद्धातः 1 कषायसमुद्धातः 2 मारणसमुद्धातः 3 वैक्रियसमुद्घातः 4 तैजससमुद्घातः५ आहारकसमुद्घातः 6 केवलिसमुद्धातश्च 7 / तत्र वेदनायाः समुद्धातो वेदनासमुदघातः, स चासातवेदनीयकर्माश्रयः१. कषायेण कषायोदयेन समुद्घातः कषायसमुद्घातः, स च कषायचारित्र-मोहनीयकर्माश्रयः 2, मरणे भवो मारणः, चासौ समुद्घातश्च मारणसमुद्घातः 3, वैक्रिये प्रारभ्यमाणे रामुद्धातो वैक्रियसमुद्घातः, स च वैक्रियशरीरनामकर्माश्रयः 4, (तैजसेन हेतुभूतेन समुघातस्तैजससमुद्घातः तैजसशरीरनामकर्माश्रयः) 5, आहारके प्रारभ्यमाणे समुद्घातः आहारकसमुद्घातः, स चाहारकशरीरनामकर्माश्रयः 6, केवलिनि अन्तर्मुहर्तभाविपरमपदे समुद्धातः केवलिसमुद्भातः 7 / (जी०) तत्र वेदनासमुद्घातगत आत्मा वेदनीयकर्मपुद्गलपरिशातं करोति, तथाहि-वदनाकरालितो जीवः स्वप्रदेशाननन्तानन्तकर्मपरमाणुवेष्टितान् शरीराद्वहिरपि विक्षिपति, तैश्च प्रदेशैर्वदनजघनादिरन्ध्राणि कर्ण स्कन्धाद्यन्तरालानि चापूर्यायामतो विस्तरतश्च शरीरमा क्षेत्रमभिव्याप्यान्तर्मु
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy