________________ समुग्घाय 448 - अभिधानराजेन्द्रः - भाग 7 समुग्धाय अनन्ता वा,तत्र संख्येयं कालं संसारावस्थायेनः संख्येयाः, असंख्येयं कालमसंख्येयाः, अनन्तकालमनन्ताः / एवमसुरकुमारादिक्रमेण तावद वाच्यं यावद्वैमानिकस्य, 'एव' मित्यादि, एवं-चतुर्विशतिदण्डकक्रमेण मानादिकषायसमुद्घातसमुद्धतास्तावद्वक्तव्या यावल्लोभसमुद्धातः / एवमेते चत्वारः चतुर्विशतिदण्डका भवन्ति, एते चैकैकनैरयिकादिविषया उक्ताः / सम्प्रत्येतानेव चतुश्चतुर्विशतिदण्डकान् सकलनारकादिविषयानाह-- 'नेरइयाण' मित्यादि, अतीतसूत्रं सुप्रतीतं, पुरस्कृता अनन्ताः, प्रश्नसमयभाविनां नारकाणां मध्ये बहूनामनन्तकालमवस्थायित्वात्। एवं-नैरयिकोक्तेन प्रकारेण तावद्वक्तव्यं यावद्वैमानिकानां यथा चैषः क्रोधसमुद्धातश्चतुर्विशतिदण्डकक्रमेणोक्तः एवं मानदिसमुद्धाता अपितावद्द्वक्तव्या यावल्लोभसमुद्घातः / एवमेतेऽपि सकलनारकादिविषयाश्चत्वारश्चतुर्विशतिदण्डका भवन्ति। साम्प्रतमेकैकस्य नैरयिकादे रयिकादिषु भावेषु वर्तमानस्य कतिक्रोधसमुद्धाता अतीताः कति भाविन इति निरूपयितुकाम आह'एगमेगस्स ण' मित्यादि, एकैकस्य भदन्त ! नैरयिकस्य विवक्षि-- तप्रश्नसमयकालात् पूर्व सकलमतीत कालमवधीकृत्य तदा तदाऽस्य नैरयिकत्वं प्राप्तस्य सतः सर्वसंख्यया कि यन्तःक्रोधसमुद्धाता अतीताः ? भगवानाह-गौतम ! अनन्ताः, नरकगतेरनन्तशः प्राप्तवात्, एककस्मिँश्च नरकभवे जघन्यपदेऽपि संख्येयानां क्रोधसमुद्धातानां भावात्, 'एवं जहे' त्यादि, एवमुपदर्शितेन प्रकारेण यथा वेदनासमुद्धातः प्राग भणितस्तथा क्रोधसमुद्धातोऽपि भणितय्यः, कथं भणितव्यः ? इत्याह-निरवशेष, क्रियाविशेषणमेतत्, सामस्त्येनेत्यर्थः / कियडूर यावद् भणितव्यमित्याह-यावद् वैमानिकत्वे, वैमानिकस्य वैमानिकत्व इत्यालापकम्। यावदित्यर्थः, स चैवम्- 'केवइया पुरेक्खडा? गोयमा। कस्सइ अत्थि कस्सइनस्थि, जस्सत्थि जहण्णेणं एको वा दो वा तिण्णि वा उन्मोसेणं संखेजा वा असंखेजा वा अणंता वा,एवम–सुरकुमारत्ते० जाव वेमाणियत्ते, 'एगमेगस्सणं भंते ! असुरकुमारस्स नेरइयत्ते केवइया कोहसमुग्घाया अतीता? गोयमा ! अणता, केवइया पुरेक्खडा? गोयमा ! कस्सइ अस्थि कस्सइ नत्थि, जस्सत्थि तत्थ सिय संखेज्जा सिय असखेजा सिय अणंता / एव-मेगस्स णं भंते ! असुरकुमारस्स असुरकुमारत्ते केवइया कोहसमु-ग्घाया अतीता ? गोयमा ! अणंता, केवइया पुरेक्खडा? गोयमा! कस्सइ अस्थि कस्सइ नत्थिजस्सत्थि जहण्णेणं एको वा दो वा तिण्णि वा उक्कोसेण संखेज्जा वा असंखेजा वा अणंता वा, एवं नागकुमारत्ते० जाव वेमाणियत्ते, एवं जहा असुरकुमारेसुनेरइया वेभाणियपजवसाणेसु भणिया तहा णागकुमारादिया सट्ठाणपरहाणेसु भाणियव्वा० जाव वेमाणियत्ते' इति, अस्यार्थः--कियन्तो भदन्त ! एकैकस्य नारकस्यासंसारमोक्षमनन्तं कालं मर्यादीकृत्य नरयिकत्वे भाविनः स(न्तः)तः सर्वसंख्यया पुरस्कृताः क्रोधसमुद्धाता ? | भगवानाह– 'कस्सइ अत्थि' इत्यादि, य आसन्नमरणः क्रोधसमुदा- | तमनासाद्यात्यन्तिकमरणेन नरकादुवृत्तः सेत्स्यति तस्य नास्ति नैरयिकत्वभाविन एकोऽपि पुरस्कृतः क्रोधसमुद्धातः, शेषस्य तु सन्ति। यस्यापि सन्ति तस्थापि जघन्यत एको द्वौ त्रयो वा,एतच क्षाणशषायुषां तद्भवस्थानां भूयो नरकेषु उ (ध्वनु) त्पद्यमानानां वेदितव्यं, भूयो नरके षूत्पत्तो हि जघन्यपदेऽपि संख्येयाः प्राप्यन्ते, नैरयिकाणां क्रोधसमुद्धातप्रचुरत्वात्, उत्कृर्षतः संख्येया वा असंख्येथा वा अनन्ता वा / तत्र सकृन्नरकेषु जघन्यस्थितिकेषूत्पपत्स्यमानस्य संख्येया अनेकशः, यदि वा- दीर्घस्थितिकेषु सकृदपि उत्पत्स्यमानस्यासंख्येयाः, अनन्तशः उत्पत्स्यमानस्यानन्ताः, 'एव' मित्यादि, एवं नैरयिकोक्तप्रकारेणासुरकुमारत्वे तदनन्तरं चतुर्विशतिदण्डकक्रमेण तावद्वक्तव्यं यावद्वैमानिकत्वविषय सूत्रम्, तचैवम्- 'एगमेगस्सण मंते! नेरइ-यरस वेमाणियत्ते केवइया कोहसमुग्घाया अईया ? गोयमा ! अणता, केवइया पुरेक्खडा? गोयमा ! कस्सइ अस्थि कस्सइ नत्थि, जस्सत्थि जहण्णेणं एको वा दो वा तिणि वा उक्कोसेणं संखेजा वा असंखेजा वा अणंता वा' अत्राप्ययं भावार्थः-अतीत-चिन्तायामनन्ताः, अनन्तशो वैमानिकत्वस्य प्राप्तत्वात्, पुरस्कृतचिन्ताया योऽनन्तरभवे नरकादुवृत्तो मानुषत्वमवाप्य सेत्स्यति, प्राप्तौ वा परम्परया सकृद्वैमानिकभवं न क्रोधसमुद्धातं गन्ता तस्यैकोऽपि पुरस्कृतः क्रोधसमुसालो वैमानिकत्वे न विद्यते, यस्त्वसकृद्वैमानिकत्वं प्राप्तः सन् सकृदेव क्रोधसमुद्धातं याता तस्य--जघन्यत एको द्वौ वा त्रयो वा, शेषस्य संख्यातान वारान वैमानिकत्वं प्राप्स्यतः संख्येयाः,असंख्येयान वारान् असंख्येयाः, अनन्तान वारान् अनन्ताः / 'एगमेगस्स ण' मित्यादि प्रश्नसूत्रे सुगम, 'गोयमा ! अणंता' इति, अनन्तशो नैरयिकत्वे प्राप्तस्य, एकैकरिमँश्च नैरयिकभवे जघन्यपदेऽपि संख्येयानां क्रोधसमुद्धाताना भावात, पुरस्कृताः कस्यचित्सन्तिकस्यचिन्न सन्ति। किमुक्तं भवति? योऽसुरकुमारभवादुद्वृत्तो न नरकं या-स्यति किन्त्वनन्तरं परम्परया वा मनुष्यभवमवाप्य सेत्स्यति तस्य नैरयिकावस्थाभाविनः पुरस्कृताः क्रोधसमुद्धाताः न सन्ति नैरयिकत्वावस्थाया एवासम्मवात, यन्तु तद्भवादूर्ध्व पारम्पर्येण नरकगामा तस्य सन्ति, तस्यापि कस्यचिसंख्येयाः, कस्यचिद-संख्येयाः, कस्यचिदनन्ताः। तत्र यः सकृजघन्यस्थितिकेषु नरकमध्येषु समुत्पत्स्यते तस्य जघन्यपदेऽपि संख्येयाः दशवर्षसहस्रप्रमाणायामपि स्थितौ संख्येयानां क्रोधसमुद्धातानां भावात् क्रोधबहुलत्वान्नारकाणाम्, असकृद्दीर्घस्थितिषु सकृद्धा गमनेऽसंख्येयाः, अनन्तशो नरकगमनेऽनन्ताः। तथा एकैकस्य भदन्त ! असुरकुमारण असुरकुमारत्वे स्थितस्य सतः सकलमतीतकालमधिकृत्य कियन्तः क्रोधसमुद्धाता अतीताः? भगवानाह–अनन्ताः अनन्तशोऽसुरकुमारभावस्य प्राप्तत्वात, प्रति-भवं च क्रोधसमुद्धातस्य प्रायो भावात्, पुरस्कृतचिन्तायां कस्यापि सन्ति कस्यापिन सन्ति, यस्य प्रश्नकालादूर्ध्वमसुरकुमारत्वेऽपि वर्तमानस्य न भावी क्रोधसमुद्धातो नापि तत उद्वृत्तो भूयोऽप्य-सुरकुमारत्वं याता तस्य न सन्ति,यस्तु सकृदसु