________________ समुग्घाय 447 - अभिधानराजेन्द्रः - भाग 7 समुग्धाय वेदनासमुद्धातसमुद्धतानां च संख्येयगुणत्वे असमवहताना चासं-- ख्येयगुणत्वे भावना स्वयं भावनीया सुगमत्वात्, ‘एव' मित्यादि, पृथिवीकायिकगतेन प्रकारेणाल्पबहुत्वंतावद्वक्तव्यं यावद्वनस्पतिका-यिकाः, वायुकायिकान् प्रति विशेषभिधित्सुराह-'नवर' मित्यादि, नवरं वातकाविकानामल्पबहुत्वचिन्तायामेवं वक्तव्यं सर्वस्तोका वातकापिका वैक्रियसमुद्धातेन समुद्धताः, बादरपर्याप्तसंख्येयभागस्य वैक्रियलब्धेः सम्भवात, तेभ्योऽपि मारणान्तिकसमुद्धातेन समुद्धता असंख्येयगुणाः, पर्याप्तापर्याप्तसूक्ष्मबादरभेदभिन्नानां सर्वेषामपि वातकायिकानां मरणसमुद्धातसम्भवात् तेभ्योऽपि कषायसमुद्धातेन समुद्धताः संख्येयगुणाः, तेभ्योऽपि वेदनासमुद्धातेन समुद्धता विशेषाधिकाः, तेभ्योऽसमबहता असंख्येयगुणाः, सकलसमुद्धातगतवातकायिकापेक्षया स्वभावस्थानां वातकायिकानां स्वभावत एवासंख्येयगुणतया प्राप्यमाणत्वात्। द्वीन्द्रियसूत्रे सर्वस्तोकाः द्वीन्द्रिया मारणान्तिकसमुद्धातेन समुद्धताः, प्रतिनियतानामेव प्रश्नसमये मरणसद्भावात्, तेभ्यो वेदनासमुद्धातेन समुद्धता असंख्येयगुणाः, शीतातपादिसम्पर्कतोऽतिप्रभूतानां वेदनासमुद्धातभावात, तेभ्यः कषायसमुद्धातेन समुद्धता असंख्येयगुणाः, अतिप्रभूततराणां लोभादिकषायसमुद्धातभावात्. तेभ्योऽप्यसमवहताः संख्येयगुणाः, 'एव' मित्यादि, एवं द्वीन्द्रियगतेन प्रकारेण तावद्वक्तव्यं यावचतुरिन्द्रियाः / तिर्यपञ्चेन्द्रियसूत्रे सर्वस्तोकास्तैजससमुद्धातेन समुद्धताः, कतिपयानामेव तेजोलब्धिभावात्, तेभ्यो वेदनासमुद्धातेनासमवहता असंख्येयगुणाः, तेभ्योऽपि वैक्रियसमुद्धातेन समवहताः असंख्येयगुणाः, प्रभूतानां वैक्रियलब्धेर्भावात, तेभ्योऽपि मारणान्तिकसमुद्घातन समवहता असंख्येयगुणाः, सम्मूछिमजलचरस्थलचरखचराणामपि सर्वेषां वैक्रियलब्धिरहिताना प्रत्येक पूर्वोक्तेभ्योऽसंख्येयगुणानां केषाश्चित् गर्भजानामपि वैक्रियलब्धिरहितानां वैक्रियलब्धिमतां च मरणसमुद्घातसम्भवात्, तेभ्योऽपि वेदनासमुद्घातेन समुद्धता असंख्येयगुणाः, म्रियमाणजीवराश्यपेक्षया अपि अम्रियमाणानामसंख्येयगुणाना वेदनासमुद्घातभावात्,तेभ्यः कषायसमुद्घातेन समुद्धताः संख्येयगुणाः, तेभ्योऽप्यसमवहताः संख्येयगुणाः। अत्र भावना प्रागिव मनुष्यसूत्रे सर्वस्तोका आहारकसमुद्घातेन समुद्धताः, अतिस्ता कानामककालमाहारकशरीरप्रारम्भसंभवात्, तेभ्यः केवलिसमुद्घातेन समुद्धताः संख्येयगुणाः, शतपृथक्त्वसंख्यया प्राप्यमाणत्वात्, तेभ्यस्तैजससमुद्धातेन समवहताः संख्येयगुणाः, शतसहस्रसंख्यया तेषां प्राप्यमाणत्वात्, तेभ्योऽपि वैक्रियसमुद्घातेन समुद्धताः संख्येयगुणाः, कोटिसंख्यया लभ्यमानत्वात्, तेभ्योऽपि मारणान्तिकसमुद्धातेन समवहता असंख्येयगुणाः समूर्छिममनुष्याणामपि तद्भावात् तेषां चासंख्येयत्वात्, तेभ्योऽपि वेदनासमुद्धातेन समुद्धताः असंख्येयगुणाः म्रियमाणराश्यपेक्षया असंख्येयगुणानाममियमाणानां तद्भावसम्भवात्. तेभ्यः कषायसमुद्धातेन समुद्धताः संख्यगुणाः, प्रभूततया तेषां प्राप्यमाणत्वात्, तेभ्योऽप्यसमवहता असंख्येयगुणाः, सम्मूछिममनुष्याणामल्पकषायाणमुत्कटकषायिभ्योऽसंख्येयगुणानां सदा लभ्यमानत्वात्।व्यन्तरज्योतिष्कवैमानिका यथा असुरकुमारास्तथा वक्तव्याः / तदेवमुक्तं समुद्धताऽसमुद्धतविषयमल्पबहुत्वम्। (E) अधुना कषायसमुद्धातगतां विशेषवक्त व्यतामभिधित्सुराहकति णं भंते ! कसायसमुग्धाया पण्णत्ता ? गोयमा ! चत्तारि कसायसमुग्धाया पण्णत्ता, तं जहा-कोहसमुग्घाए माणसमुग्घाए मायासमुग्घाए लोहसमुग्घाए। नेरइयाणं भंते ! कति कसायसमुग्घाया पण्णत्ता, गोयमा ! चत्तारि कसायसमुग्घाया पण्णत्ता, एवं० जाव वेमाणियाणं / एगमेगस्सणं भंते ! नेरइयस्स केवइया कोहसमुग्धाया अतीता? गोयमा ! अणंता, केवइया पुरेक्खडा? गोयमा ! कस्सइ अत्थि कस्सइ नत्थि, जस्सत्थि जहण्णेणं एको वा दो वा तिण्णि वा उक्कोसेणं संखेज्जा वा असं--- खेजा वा अणंता वा,एवं० जाव वेमाणियस्स, एवं जाव० लोभसमुग्घाए एते चत्तारि दंडगा। नेरइयाणं भंते ! केवइया कोहसमुग्घाया अतीता? गोयमा ! अणंता, केवड्या पुरेक्खडा ? गोयमा ! अणंता, एवं जाव वेमाणियाणं एवं० जाव लोभसमुग्घाए, एवं एए वि चत्तारि दंडगा। एगमेगस्स णं भंते ! नेरइयस्स नेरइयत्ते केवइया कोहसमुग्घाया अतीता? गोयमा ! अणंता एवं जहा वेदणासमुग्घाओ भणितो तहा कोहसमुग्घातो वि निर-- वसेसं० जाव वेमाणियत्ते। माणसमुग्धाएमायासमुग्धाए विनिरवसेसं जहा मारणंतियसमुग्धाए, लोहसमुग्धातो जहा कसायसमुग्घातो नवरं सव्वजीवा असुरादिनेरइएसु मोहकसाएणं एगुत्तरियाए नेयव्वा / नेरइयाणं भंते? नेरइयत्ते केवइया कोहसमुग्घाया अतीता? गोयमा ! अणंता,केवइया पुरेक्खड़ा ? गोयमा! अणंता, एवं 0 जाव वेमाणियत्ते, नवं सहाणपरट्ठाणेसु सव्वत्थ भाणियव्या, सव्वजीवाणं चत्तारि विसमुग्धाया.जावलोभस--- मुग्घाओ 0 जाव वेमाणियाणं वेमाणियत्ते / (सू०३३६)। 'कइण' मित्यादि, इद सामान्यतः कषायसमुद्धातविषयं चतुर्विशतिदण्डकक्रमगतं च सूत्रं सुप्रतीतं, सम्प्रत्येकैकस्य नैरयिकादेश्चतुर्विशतिदण्डकक्रमेण वैमानिकपर्यवसानस्य तद्ववक्तता-माह'एगमेगस्स णं भंते !' इत्यादि, अत्रातीतसूत्रं सुप्रतीतम्, पुरस्कृतसूत्रे'कस्सइ अतिथ करसइ नत्थि' त्ति-यो नरकभव-प्रान्ते वर्तमानः स्वभावत एवाल्पकषायः कषायसमुद्धातमन्तरेण कालं कृत्वा नरकादुदवृत्तो मनुष्यभवं प्राप्य कषायसमुद्धातमगत एव सेत्स्यति तस्य नास्ति पुरस्कृत एकोऽपि कषायसमुद्धातो, यस्यापि सन्ति तस्यापि जघन्यत एको द्वौ त्रयो वा.ते च प्रागुक्तस्वरूपस्य सकृत्कषायसमुदघातगामिनो वेदितव्याः, उत्कर्षतः संख्यया असंख्येया