________________ समुग्धाय 446 - अभिधानराजेन्द्रः - भाग 7 समुग्घाय संखेज्जगुणा भरणंतियसमुग्घाएणं समोहया असंखेजगुणा वेदणासमुग्घाएणं समे हया असंखेज्जगुणा कसायसमुग्धाएणं समो-- हया संखेनगुणा समोहया असंखेज्जगुणा वाणमंतरजोइसियवेमाणियाणं जहा असुरकुमाराणं / (सू०३३८) 'एएसिण' मित्यादि, एतेषां प्राक् समवहताऽसमवहतत्वेन निरूपिताना भदन्त ! सामान्यतो जीवाना वेदनासमुद्धातेन यावत् केवलिसमुद्धातेन समवहतानामसमवहतानां च मध्ये कतरे कतरेभ्योऽल्याः कतरे करतेभ्यो बहुका:-संख्येयाऽसंख्येयादिगुणतया प्रभूताः,कतरे कतरैस्तुल्याः समसंख्याकाः / अत्रार्थे सूत्रे विभक्तिपरिणामः स्वयं योजनीयः,कतरे कतरेभ्यो विशेषाधिकामनागधिकाः, वाशब्दाः सर्वेऽपि विकल्पार्थाः,भगवानाह-गौतम! सर्वस्तोका जीवा आहारकसमुद्धातेन समुद्धताः, आहार-कशरीरिणो हि कदाचिदिहलोके षण्मासान यावन्न भवन्त्यपि यदापि भवन्ति तदापि जघन्यत एको द्वौ त्रयो वा उत्कर्षतः सहस्रपृथक्त्वं, केवलमाहारकसमुद्घात आहारकशरीरप्रारम्भकाले न शेषकालं ततः स्तोका एव युगपदाहारकसमुद्घाताः प्राप्यन्ते इति सर्वस्तोका आहारकसमुद्घातेन समुद्धताः,तेभ्यः केवलिसमुद्घातेन समुद्धताः संख्येयगुणाः, तेषामेककाल शतपृथक्त्वेन प्राप्यमाणत्वात्, यद्यप्याहारकशरीरिणः सत्तया समकालम् एको द्वौ वा त्रयो वा उत्कर्षतः सहस्रपृथक्त्वमानाः प्राप्यन्ते तथाप्या (पि स्तोकानामा) हारकसमुद्घातसम्भवात् एककालमतिस्तोकाः प्राप्यन्ते इति न तेभ्यः केवलिसमुद्घातसमुद्धताना संख्येयगुणत्वविरोधः, केवलिसमुद्घातसमुद्धतेभ्यः तैजससमुद्घातेन समवहता:? असंख्येयगुणाः, पञ्चेन्द्रियतिर्यग्योनिकानां मनुष्याणां देवानामपि च तैजससमुद्घातसम्भवात्, तेभ्योऽपि वैक्रियसमुद्घातेन समुद्धताः असंख्येयगुणाः नारकवातकायिकानामपि वैक्रियसमुद्घातसम्भवात्, वातकायिकाश्च वैक्रियलब्धिमन्तो न स्तोकाः किन्तु देवेभ्योऽप्यसंख्येयगुणाः / कथमेतदिति चेत्, उच्यते-इह बादरपर्याप्तवायुकायिकाः स्थलचरपञ्चेन्द्रियेभ्योऽसंख्येयगुणाः, महादण्डके तथा पठितत्वात्, स्थलचरपञ्चेन्द्रियाश्च देवेभ्योऽप्यसंख्येयगुणाः, ततो यद्यपि बादरपयप्तिवायुकायिकानां संख्येयभागमात्रस्य वैक्रियलब्धिसम्भवः / यत उक्तम्- "तिण्ह ताव रासीणं वउव्वियलद्धी चेव नत्थि, बायरपज्जत्ताणं पि संखेजइभागमेत्ताणं" ति, तथापि संख्येयभागमात्रा वैक्रियलब्धिमन्तो देवेभ्योऽप्यसंख्येयगुणा भवन्ति, ततो नैरयिकाणां वायुकायिकानां च वैक्रियसमुद्घातसम्भवादुपपद्यन्ते तैजससमुद्घातसमुद्धतेभ्यो वैक्रियसमुद्घातेन समुद्धताः असंख्येयगुणाः, तेभ्योऽपि मारणान्तिकसमुद्घातेन समुद्धता अनन्तगुणाः, कथम् ? उच्यते, इह निगोदजीवानामनन्तानामसंख्येयो भागः सदा विग्रहतौ वर्तमानः प्राप्यते, ते च प्रायो मारणान्तिकसमुद्घातसमुद्धता इति पूर्वेभ्योऽनन्तगुणाः, तेभ्योऽपि कषायसमुद्घातसमुद्धता असंख्येयगुणाः, निगोदजीवानामवानन्तानां विग्रहगत्यापन्नेभ्योऽसंख्येयगुणानां कषायसमुद्घातसमुद्धतानां सदा प्राप्यमाणत्वात्, तेभ्योऽपि वेदनासमुद्घातेन समुद्धता विशेषाधिका, तेषामेव निगोदजीवानामनन्तानां कषायसमुद्घातसमुद्धतेभ्यो मनाक् विशेषाधिकानां सदा वेदनासमुद्घातेन समुद्धततयाऽवाप्यमानत्वात्, तेभ्योऽपि एकेनापि समुद्घातेनासमुद्धता असंख्येयगुणाः, वेदनाकषायमरणसमुद्घातसमुद्धतेभ्यो निगोदजीवानामेवासंख्येयगुणानामसमवहतानां सदा लभ्यमानत्वात् / सम्प्रत्येतदेवाल्पबहुत्वं जीवविशेषेषु नैरयिकादिषु चतुर्विशतिदण्डकक्रमेण यथायोगं चिचिन्तयिषुराह'नेरइयाण' मित्यादि प्रश्नसूत्र, भगवानाह-सर्वस्तोका नैरयिका मारणान्तिकसमुद्घातेन समुद्धताः, मारणान्तिको हि समुद्धातो मरणकाले भवति, मरणं च शेषजीवन्नारकराश्यपेक्षयाऽतिस्तोकाना, न च सर्वेषां नियमाणानामविशेषेण मारणान्तिकसमुद्घातः, किन्तु कतिपयानाम्, 'समोहया वि मरति असमोहया वि मरंती' ति वचनात्। अतः सर्वस्तोका मारणान्तिकसमुद्घातसमुद्धताः, तेभ्योऽपि वैक्रियसमुद्धालेन समुद्धताः असंख्येयगुणाः, सप्तस्वपि पृथिवीषु प्रत्येक बहूनां परस्परवेदनोदीरणाय निरन्त-रमुत्तरवैक्रियसमारम्भवसम्भवात् तेभ्योऽपि कषायसमुद्धातेन समुद्धताः संख्येयगुणाः, कृतोत्तरवैक्रियाणामकृतोत्तरवैक्रियाणां च सर्वसंख्ययोत्तरवैक्रियारम्भकेभ्योऽसंख्येयगुणानां कषायसमुद्घातसमुद्धतत्वेन प्राप्यमाणत्वात्, तेभ्योऽपि वेदनासमुद्धातेन समुद्धताः संख्येयगुणाः, यथायोग क्षेत्रजपरमाधार्मिकोदीरितपरस्परोदीरितवेदनाभिः प्रायो बहूनां सदा समुद्धतत्वेन प्राप्यमाणत्वात्, तेभ्योऽप्येकेनापि समुद्धातेनासमवहताः संख्येयगुणाः, वेदनासमुद्धातमन्तरेणाप्यतिबहूनां सामान्यतो वेदनामनुभवतां सम्भवात् / सम्प्रत्यसुरकुमाराणामल्पबहुत्वमाह-एएसिण' मित्यादि प्रश्नसूत्रं सुगम, भगवानाह-- गौतम! सर्वस्ताकाः असुरकुमारास्तैजससमुद्घातेन समुद्धताः, तैजसो हि समुद्धातो महति कोपावेशे क्वचित् कदाचित्केषाञ्चिद्भवति, ततस्तेन समुद्धातेन समुद्धताः सर्वस्तोकाः, तेभ्यो मारणान्तिकसमुद्घातेन समुद्धताः असंख्येयगुणाः, तेभ्योवेदनासमुद्धातेन समुद्धताः असंख्येयगुणाः, परस्परं युद्धादौ बहूनां वेदनासमुद्घातेन समुद्धतानां प्राप्यमाणत्वात्, तेभ्योऽपि कषायसमुद्घातेन समुद्धताः संख्येयगुणाः, येन तेन वा कारणेन बहूनां कषायसमुद्धातगमनसम्भवात्, तेभ्योऽपि वैक्रियसमुद्धातेन समुद्धता संख्येयगुणाः, परिचारणाद्यनेकनिमित्तमतिबहूनामुत्तरवैक्रियकरणाराम्भसम्भवात्, तेभ्योऽप्यसमवहता असंख्येयगुणाः बहूनामुत्तमजातीनां सुखसागरावगाढाना पूर्वोक्तेभ्योऽसंख्येयगुणानां केनापि समुद्धातेनासमवहतानां सदा लभ्यमानत्वात्। एव' मित्यादि, यथा असुरकुमाराणामल्पबहुत्वमुक्तमेवं सर्वेषा भवनपतीनां द्रष्टव्यं, यावत् स्तनितकुमाराणामिति / / सम्प्रति पृथिवीकायिकगतमल्पबहुत्वमाह-'एएसि ण मित्यादि, अत्र कषायसमुद्घातसमद्धताना