SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ समुग्घाय 444 - अभिधानराजेन्द्रः - भाग 7 समुग्धाय तीता ? गोयमा ! नत्थि, केवइया पुरेक्खडा? गोयम ! नत्थि, एवं० जाव वेमाणियत्ते, णवरं मणूसत्ते अतीता णत्थि, पुरेक्खडा असंखेज्जा, एवं० जाव वेमाणिया, नवरं वणस्सइकाइयाणं मणूसत्ते अतीता नत्थि, पुरेक्खडा अणंता, मणूसाणं मणूसत्ते अतीता सिय अस्थि सिय नत्थि, जइ अस्थि जहण्णेणं एक्को वा दो वा तिण्णि उक्कोसेणं सतपुहुत्तं, के वझ्या पुरेक्खडा? गोयमा! सिय संखेजा सिय असंखेज्जा, एवं एते चउव्वीसं चउव्वीसा दंडगा सव्वे पुच्छाए भणितव्वा जाव वेमाणियाणं वेमाणियत्ते। (सू० 336) 'नेरइयाण' मित्यादि, नैरयिकाणां विवक्षितप्रश्नसमयभाविनां सर्वेषां भदन्त ! पूर्व सकलमतीतं कालमवधीकृत्य यथासम्भव नैरयिकत्वे वृत्ताना सतां समुदयेन सर्वसंख्यया कियन्तो वेदना-समुद्धाता अतीताः ? भगवानाह--गौतम ! अनन्ताः, बहूनाभनन्तकालमसंव्यवहारराशेरुद्वृत्तत्वात्, कियन्तः पुरस्कृताः? एतच्च सूत्रं सूचामात्र, परिपूर्णस्तु पाठ एवम्-'नेरइयाणं भंते ! नेरइयत्ते केवइया वेयणासमुग्घाया पुरेक्खडा?' इति। भगवानाह- गौतम ! अनन्ताः, बहूनामनन्तशो भूयोऽपि नरकेष्वागमनसम्भवात, एव' मित्यादि, एवमुक्तेन प्रकारेणासुरकुमारत्वादिषु स्थानेषुक्रमेण तावद् वक्तव्यं यावद्वैमानिकत्वेवैमानिकत्वविषयं सूत्रम। तचेदम्- 'नेरइयाणं भंते ! वेमाणियत्ते केवइया वेयणास-मुग्धाया अतीता ? गोयमा ! अणता, केवइया पुरेक्खडा? गोयमा! अणंता' इति, अत्र अतीता अनन्ताः सुप्रतीताः, सर्वसांव्यवहारिकजीवः प्रायोऽनन्तशो वैमानिकत्वस्य प्राप्तत्वात्, पुरस्कृतास्त्वनन्ताः, प्रश्नसमयभाविना नैरयिकाणां मध्ये बहुभिरनन्तशो वैमानिक वस्य प्राप्स्यमानत्वात, एवमपान्तरालवर्तिष्वपि असुरकुमारत्वादिषु स्थानेषु भावना भावनीया, यथा च नैरयिकाणां नैरयिकत्वादिषु चतुर्विंशतिदण्डकक्रमेणातीताः पुरस्कृताश्व वेदनासमुद्धाता भणिताः,एवं सर्वजीवानामसुरकुमारादीनां भणितव्याः, कियद् दूर यावदित्याह-यावद्वैमानिकानां वैमानिकत्वेवैमानिकत्वविषयाः, ते चैवम्- 'वेमाणियाणं भते! वेमाणियत्ते केवइया वेयणासमुग्धाया अतीता ? गोयमा ! अणंता, केवइया पुरेक्खडा ? गोयभा? अणंता' इति, एवं कषायमरणवै-क्रियतेजससमुद्धाता अपि नैरयिकादीनां वैमानिकपर्यवसानानां सर्वेषु नैरयिकत्वादिषु स्थानेषु चतुर्विशतिदण्डकक्रमेण वक्तव्याः, तथा चाह- ‘एवं जावे' त्यादि, एवं-वेदनासमुद्धातगतेन प्रकारेण कषायादिसमुद्धाता अपि तावद्वक्तव्याः यावत्तेज-ससमुद्धातः, किमविशेषेण वक्तव्याः ? नेत्याह'नवर' मित्यादि, नवरमुपयुज्य--उपयोगं कृत्वा सर्व सूत्र बुद्ध्या नेतव्यम्। किमुक्तं भवति? -ये यत्र समुद्धाता घटन्ते ते तत्रातीताः पुरस्कृताश्च अनन्ता वक्तव्याः, शेषेषु च स्थानेषुप्रतिषेद्धव्याः। एतदेव वैविक्त्येनाह'जरस अत्थी' त्यादि, यस्य जीवराशेर्ने -रयिकादेरसुरकुमारादेश्च सन्ति वैक्रियतैजसमुद्घातास्ते तस्य वक्तव्याः शेषेषु पृथिव्यादिषु स्थानेषु प्रतिषेद्धव्या इति सामर्थ्य-लभ्यम, कषायमारणान्तिकसमुद्घाताः पुनः | सर्वत्रापि वेदना-समुद्घातवदाविशेषणातीताः, पुरस्कृताश्वानन्ता वक्तव्याः, नतु कापि निषेद्धव्याः / सम्प्रति आहारसमुद्भातविषयं सूत्रमाह- 'नरइयाण' मित्यादि, आहारकसमुद्धातो ह्याहारकलब्धौ सत्या-माहारकशरीरप्रारम्भकाले भवति, नान्यथा आहारकलब्धिश्वोपजायते, चतुर्दशपूर्वाधिगमे तेषां चतुर्दशानां पूर्वाणामधिगमो मनुष्यत्वावस्थायां नशेषायामवस्थायामिति मनुष्यत्ववर्जासु शेषास्ववस्थास्वतीताना पुरस्कृतानां चाहारकसमुद्धाताना प्रतिषेधः, मनुष्यत्वावस्थायामपि पूर्वमतीता असंख्येयाः,प्रश्नसमयभाविना नारकाणां मध्ये बहूनामसंख्येयाना नारकाणां पूर्व तदा तदा मनुष्यत्वमवाप्य अधिगतचतुर्दशपूर्वाणां प्रत्येकं सकृद् द्वि-विर्वा कृताहारकसमुद्धातत्वात्, पुरस्कृता अपि असंख्येयाः प्रश्नसमयभाविनां नारकाणा मध्ये बहुभिरसंख्येयारकैर्नरका-दुद्वृत्त्यानन्तर्येण पारम्पर्येण वा तदा मनुष्यत्वावाप्तौ चतुर्दश पूर्वाण्यधीत्य प्रत्येकमाहारकसमुधवातानामेकशो द्विस्त्रिश्चतुर्वा करिष्यमाणत्वात्, ‘एवं जाववेमाणियाण मिति, नैरयिकाणां चतु-विशतिदण्डक क्रमेण चिन्ता कृता, एवमसुरकुमारादीनामपि प्रत्येक चतुर्विशतिदण्डकामेण तावद्वक्तव्या यावद्वैमानिकाना, केवल यत्रास्ति विशेपस्तं दर्शयति-'नवर' मित्यादि, नवरं वनस्पतिकायिकान। मनुष्यत्वचिन्तायामतीताः पुरस्कृताश्च प्रत्येक-मनन्ता वक्तव्याः, अनन्तानां पूर्वमधिगतचतुर्दशपूर्वाणां यथा-योगमेकशो द्विस्त्रिा कृताहारकसमुद्धातानां वनस्पतिष्ववस्थानात् अनन्तरमेव वनस्पतिकायादुद्वृत्त्यानन्तर्येण पारम्पर्येण वा मानुषत्वमवाप्य यथायोगमेकशी द्विरित्रश्चतुर्वाऽऽहारकसमुद्घातानां निर्वर्तयिष्यमाणत्वात, मनुष्याणा मनुष्यत्वावस्थायामतीताः पुरस्कृताश्च स्यात्संख्येयाः स्यादसंख्येयाः, कथमिति चेत्, उच्यते-ते हि प्रश्नसमयभाविनः उत्कर्षपदेऽपि सर्वस्तोकाः, श्रेण्यसंख्येयभागगतप्रदेशराशिप्रमाणत्वात्, ततो विवक्षितप्रश्नसमयभाविना मध्ये कदाचिदसंख्येयाः यथायोगं प्रत्येकमेकशो द्विरित्रश्चतुर्वा कृतकरिष्यमाणाहारकसमुद्घाताः प्राप्यन्ते / उपसंहारमाह- 'एव' मित्यादि, एवम्-उक्तेन प्रकारेण एते आहारकसमुद्धातविषयाश्चतुर्विशतिश्चतुर्विशतिसंख्याका दण्डका वक्तव्याः! सम्प्रति केवलिसमुद्घातं चिन्तयति-'नरइयाण' मित्यादि, केवलिसमुद्घातोऽपि मनुष्यत्वावस्थायां भवति, न शेषास्ववस्थासु, नच कृतकेवलिसमुद्घातःसंसारं पर्यटति, केवलिसमुद्घातानन्तरमन्तरमुहूर्तेनावश्यं निःश्रेयसपदाधिगमात,ततो नारकाणां मनुष्यत्ववर्जासु शेषास्ववस्थास्वतीताः पुरस्कृताश्च केवलिसमुद्घाताः प्रतिषेशव्याः, मनुष्यत्वावस्थायामप्यतीताः प्रतिषेद्धव्याः, कृतके वलिसमुद् - धातानां नरके गमनाभावात्, भाविनश्च भवष्यिन्ति, प्रश्नसमयभाविना मध्ये बहूनामसंख्येयानां नारकाणां मुक्तिपदगमनयोग्यत्वात्, ततः पुरस्कृता असंख्येया इत्युक्तम्, ‘एव' मित्यादि, यथा नैरयिकाणां केवलिसमुद्घातचिन्ता कृता एवमसुरकुमारादीनामपि कर्तव्या, सा च तावत् यावत् वैमानिकानाम् / अत्रैव विशेषमाह- 'नवर' मि
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy