________________ समुग्धाय 443 - अमिधानराजेन्द्रः - भाग 7 समुग्घाय जस्सत्थि इक्को, मणूसस्स मणूसत्ते अतीता कस्सइ अस्थि कस्सइ नत्थि, जस्सस्थि एक्को, एवं पुरेक्खडा वि। एवमेते चउ-वीसं चउवीसा दंडगा। (सू० 335) 'मारणतिए' त्ति-मारणान्तिकरसमुद्घातः पुरस्कृतचिन्तायां स्व-स्थाने परस्थाने वा एकोत्तरिकया नेतव्यो यावद्वैमानिकस्य वैमा निकत्वेवैमानिकत्वविषयं सूत्रम्-तच्चैवम्- 'एगमेगस्सणं भंते! नेरइयस्स नेरइयत्ते केवइया मारणंतियसमुग्घाया अतीता ? गोयमा! अणता, केवइया पुरेक्खडा? गोयमा ! कस्सइ अस्थि कस्सइ नत्थि, जस्सस्थि जहन्नेणं एको वा दो वा तिणि वा उक्कोसेण सखेज्जा वा असंखेज्जा वा अणता वा' तत्र यो मारणान्तिक-समुद्घातमन्तरेण कालं कृत्वा नरकादुद्वृत्तःअनन्तर पारम्पर्येण वा मनुष्यभवं प्राप्य सेत्स्यति न भूयो नरकगामी तस्य न सन्ति पुरस्कृता मारणान्तिकसमुद्घाताः, यः पुनस्तद्भवे वर्तमानो मारणान्तिकसमुद्धातेन कालं कृत्वा नरकादुद्वृत्तः सेत्स्यति तस्येकः पुरस्कृतो मारणान्तिकसमुद्धातः, यः पुनर्भूयोऽपि नरक मागत्य सर्वसंख्यया द्वौ मारणान्तिकसमुद्धातौ गन्ता तस्यद्वौ, एवं त्रिप्रभृतयोऽपि भावनीयाः, संख्येयान् वारान् नरकमागन्तुः संख्येयाः, असंख्येयान यारान् असंख्येयाः, अनन्तान् वारान् अनन्ताः, एवमसुरकुमारत्वे आलापको वाच्यः, नवरमत्रैवं भावनायो नरकादुवृत्तो मनुष्यभवं प्राप्य सेत्स्यति, यदिवा- तस्मिन् भवे मारणान्तिकसमुद्धातमगत्वा मृत्युमासाद्य ततोऽ-न्यभवे सिद्धि गन्ता तस्येव न सन्ति, शेषस्य त्वेकादिभावना प्रागिव, व्यन्तरज्योतिष्कवैमानिकेषु यथा नैरयिकस्य, (यथान-रयिकस्य) नैरयिकादिषु चतुर्विशतिस्थानेषु चिन्ता कृता तथा असुरकुमारादीनां वैमानिकपर्यवसानानां चतुर्विशतिदण्डकक्रमेण कर्तव्या, तदेवमन्यान्यपि चतुर्विशतिर्दण्डकसूत्राणि भवन्ति। तथा चाह'एवं एए चउवीसं चउवीसा दंडगा भाणियव्वा' इति. उक्तो मारणान्तिकसमुद्घातश्चतुर्विशतिदण्डकसूत्रैः / (वैकुटिवकसमुद्धातवक्तव्यता 'वेउब्वियसमुग्धाय' शब्दे षष्टे भागे गता।) सम्प्रति तैजससमुद्घातमतिदेशत आह– 'तेयगे त्यादि, तैजस-समुद्धातो यथा मारणान्तिकसमुद्घातस्तथा वक्तव्यः / किमुक्तं भवति? स्वस्थाने परस्थाने च एकोत्तरिकया स वक्तव्य इति, नवरं यस्य नास्ति-न सम्भवति तैजसमुद्घातस्तस्य न वक्तव्यः, तत्र नैरयिकपृथिव्यप्तेजोवायुवनस्पतिद्वित्रिचतुरिन्द्रियेषु न सम्भवतीति न वक्तव्यः, शेषेषु तु वक्तव्यः, स चैवम्- 'एगमेग-स्स णं भंते ! नेरइयस्स नेरइयत्ते के वइया तेउसमुग्घाया अतीता ? गोयमा नत्थि, केवइया पुरेक्खडा? गोयमा ! नत्थि, एगमेगस्स णं भंते ! नेरइयरस असुरकुमारत्ते के वइया तेयगरमुग्धाया अतीता ? गोयमा ! अणंता, केवइया पुरेक्खडा ? गोयमा ! कस्सइ अस्थि कस्सइ नत्थि, जस्सस्थि जहन्नेणं एक्को वा दो वा तिणि वा उक्कोसेणं संखेजा वा असंखेज्जा वा अनन्ता वा' इत्यादिसूत्रोक्तं विशेषमुपजीव्य स्वयं परिभावनीयम् , अत्रापि सूत्र संख्यामाह- 'एव' मित्यादि, एवम्-मारणान्तिकसमुद्घातगतेन क्वचित् सर्वथा निषेधरूपेण च प्रकारेण एतेऽपि तैजससमुद्धात-गता अपि चतुर्विशतिः चतुर्विशतिका--दण्डका भणितव्याः। सम्प्रत्याहारकसमुद्धात चिन्तयन्नाह- 'एगमे गरस ण' मित्यादि, इह सर्वेष्वपि स्थानेषु मनुष्यत्वचिन्तायामतीता जघन्यत-एको द्वौ वा उत्कर्षतस्त्रयश्च, पुरस्कृता जघन्यतएको वा द्वौ वा त्रयो वा उत्कर्षतश्चत्वारः,शेषेषु स्थानेषु अतीताः पुरस्कृताश्च प्रतिषेद्धव्याः, मनुष्यस्य मनुष्यत्वचिन्तायामतीताः पुरस्कृताश्च जघन्यत एको वा द्वौ वा त्यो वा उत्कर्षतश्चत्वारः। अवार्थे च कारणं प्रागेवोक्तम्, अत्रापि सूत्रसंख्यामाह- 'एव' मित्यादि, एवम्उपदर्शितेन प्रकारेण एते आहारकसमुद्धातविषयाश्चतुर्वि-शतिसंख्याका दण्डका वक्तव्याः, कियद्दूर यावदित्याह-याव-द्वैमानिकस्य वैमानिकत्वे-वैमानिकत्वविषयं सूत्रम्, तचैवम्-'एगमेगस्सणं भंते ! वेमाणियस्स वेमाणियत्ते केवइया आहार-समुग्घाया अतीता ? गोयमा ! नत्थि, केवइया पुरेक्खडा ? गोयमा! नस्थि' इति / अधुना केवलिसभुद्धातमभिधित्सुराह-एगमेगरसणं भंते!' इत्यादि, अत्राप्ययं तात्पर्यार्थ:'सर्वेष्वपि स्थानेषु मनुष्यत्वचिन्ताव्यतिरेकेणातीताः पुरस्कृताश्च प्रतिषेद्धव्याः, मनुष्यवर्जेषु मनुष्यत्वचिन्तायामतीताः प्रतिषेद्धव्याः,पुरस्कृतस्तु कस्याप्यस्ति कस्यापि नास्ति,यस्याप्यस्तितस्याप्येक एवेति वक्तव्यः, मनुष्यस्य मनुष्यत्वचिन्तायामतीतः कस्यापि- अस्ति करयापि नास्ति, यस्याप्यस्तितस्याप्येक एव एतच्च प्रश्नसमये केवलिसमुद्धातादुत्तीर्ण केवलिनमधिकृत्य, पुरस्कृतोऽपि कस्यापि अस्ति कस्यापि नास्ति, यस्याप्यस्ति तस्याप्येक इति वक्तव्यम् / अत्रापि सूत्रसंख्यामाह- 'एवमित्यादि एवम्-उपदर्शितेन प्रकारेण एते केवलिसमुद्धातविषयाश्चतुर्विशतिश्चतुर्विंशतिसंख्याका दण्डका भवन्ति / तदेव सर्वसंख्यया एकत्वविषयाणां चतुर्विंशतिदण्डकसूत्राणामष्टषष्ट्यधिकशतं जातम् / एतावत्संख्याकान्येव बहुत्वविषयाण्यपि सूत्राणि भवन्ति। तान्युपदिदर्शयिषुराहनेरइयाणं भंते ! नेरइयत्ते केवइया वेदणासमुग्घाया अतीता ? गोयमा ! अणंता, केवइया पुरेक्खडा ? गोयमा ! अणंता, एवं जाव वेमाणियत्ते, एवं सव्वजीवाणं माणितव्वं० जाव वेमाणि-याणं वेमाणियत्ते, एवं० जाव तेयगसमुग्घाए, णवरं उवउजिऊण नेयव्वं जस्सस्थिवेउव्वियतेयगा / नेरइयाणं मंते ! नेरइयत्ते के वइया आहारगसमुग्धाया अतीता? गोयमा! नत्थि, केवइया पुरेक्खडा? गोयमा ! नत्थि, एवं जाव० वेमाणियत्ते, गवरं मणूसत्ते अतीता असंखेज्जा पुरेक्खडा असंखेज्जा एवं० जाव वेमाणियाणं / णवरं वणस्सइकाइयाणं मणूसत्ते अतीता अणंता पुरेक्खडा अणंता, मणूसाणं मणूसत्ते अतीता सिय संखेजा सिय असंखेजा, एवं पुरेक्खडा वि, सेसा सव्वे जहानेरइया, एवं एते चउवीसं चउदीसा दंडगा। नेरइयाणं भंते ! नेरइयत्ते केवइया केवलिसमुग्धाया अ