________________ समुग्घाय 438 - अमिधानराजेन्द्रः - भाग 7 समुग्धाय तस्यैकोऽतीत आहारकस्य समुद्घातः द्वौ वारौ कृतवतो द्वौ, त्रीन वारान् कृतवतस्त्रयो,यश्चतुर्थवेलामाहारकशरीरं कृत्वा आहारकसमुद्घाताचतुर्थात्प्रतिनिवृत्तो वर्तते न चाद्यापि मनुजभवं विजहाति तस्य चत्वारः, पुरस्कृता अपि समुघाताः कस्यापि सन्ति कस्यापि न सन्ति / तत्र यश्चतुर्थवेलमाहारकशरीरं कृत्वा आहारकसमुद्घातात् प्रतिनिवृत्तो, यदिवा-पूर्वमकृताहारकशरीरोऽपि, अथवा-एकवारकृताहारकशरीरोऽपि, यदिवा-द्विष्कृत्वःकृताहारकशरीरोऽपि, यदिवा-त्रिष्कृत्वःकृताहारकशरीरोऽपि तथा-विधसामायभावात् उत्तरकालमाहारकशरीरमकृत्वैव मुक्तिभवाप्स्यति तस्य पुरस्कृता आहारकसमुद्घातान सन्ति, यस्यापि सन्ति तस्यापि जघन्यतएको वा द्वौ वा त्रयो वा उत्कर्षतश्वत्वारः तत्रएकादिसम्भवः पूर्वोक्तभावनानुसारेण स्वयं भावनीयः यस्तु पूर्वकालमेकवारमपि आहारकशरीरं न कृतवान्, अथ चोत्तरकालं तथाविधसामग्रीभावतो यावत्सम्भवमाहारकशरीरकर्ता तस्य चत्वारो न शेषस्य। सम्प्रति केवलिसमुद्धातविषयं दण्डकसूत्र-माह- 'एगमेगस्स ण' मित्यादि, एकै कस्य भदन्त ! नैरयिकस्य निरवधिकमतीत कालमधिकृत्य कियन्तः केवलिसमुद्धाता अतीताः ? भगवानाह'नत्थि' त्ति-नास्त्यतीत एकोऽपि केवलिसमुद्धातः, केवलिसमुद्धातानन्तरं ह्यन्तर्मुहूर्तेन नियमतो जीवाः परमपदमश्नुवते, ततो यद्यभविष्यत्केवलिसमुद्धातस्तर्हि नरकमेव नागभिष्यद्, अथ च सम्प्रति नरकगामिनो वर्तन्ते तस्मान्नास्त्येकस्याप्यतीतः केवलिसमुद्धातः, 'केवइया पुरेक्खड' त्ति-कियन्तः पुरस्कृताः केवलिसमुद्धाता इति प्रश्नः, भगवा-नाह- 'गोयमा ! कस्सइ अस्थि कस्सइ नत्थि' त्ति-इह केवलि समुद्धात एकस्य प्राणिन आकालमेक एव भवति, न द्विवाः, ततोऽस्तीति निपातोऽत्र एकवचनान्तो वेदितव्यः, ततश्चायमर्थःकस्यापि केवलिसमुद्धातः पुरस्कृतोऽस्ति, यो दीर्घतरेणापि कालेन मुक्तिपदप्राप्त्यवसरे विषमस्थितिकर्मा इति, कस्यापि नास्ति, यो मुक्तिपदमवाप्नुमयोग्यो योग्यो वा केवलि-समुद्घातमन्तरेणैव मुक्तिपदं गन्ता, तथा च वक्ष्यति- "अगंतूण समुग्घायमणंता केवली जिणा। जरमणविप्पमुक्का, सिद्धिं वरगइंगया।॥१॥” इति, इह अस्तीति निपातः सर्वलिङ्गवचन इत्यविदितसिद्धान्तस्य बहुत्वाशङ्कापि कस्यचित् स्यात् ततस्त-दपनोदार्थमाह- 'जस्सअस्थि एको यस्यास्ति पुरस्कृतः केवलिसमुद्घातस्तस्य एको, भूयः संसाराभावात्, ‘एवं जाव वेमाणियस्स' त्ति एवं -नैरयिकगताभिलापप्रकारेण चतुर्विशतिदण्डकक्रममनुसृत्य तावद् वक्तव्यं यावद्वैमानिकस्य सूत्रम्, तचेदम् एगमेगस्स णं भंते ! वेमाणियस्स केवइया केयलिसमुग्घाया अतीता ? गोयमा ! नत्थि, केवइया पुरेक्खडा ? गोयमा ! करसइ अत्थि, कस्सइ नत्थि, जस्सस्थि एक्को' इति, तत्रय विशेषमाह-'नवर' मित्यादि नवरमयं विशेषःमनुष्यस्य केवलिसमुद्घातस्य चिन्तायामतीतः कस्याप्यस्ति कस्यापि नास्तीति वक्तव्यः, तत्र यः केवलिसमुद्घातात् प्रतिनिवृत्तो वर्तत न | चाद्यापि मुक्तिपदमवाप्नोति तस्यास्त्यतीतः केवलिसमुद्धातः, ले च सर्वसंख्यया उत्कर्षपदे शतपृथक्त्वप्रमाणा वेदितव्याः कस्यापि नास्ति अतीतः केवलिसमुद्धातो, यो न समुद्घात गतवान्, तेच सर्व-संख्यया असंख्येया द्रष्टव्याः, शतपृथक्त्वव्यतिरेकेणान्येषां सर्वेषामप्यसम्प्राप्तकेवलिसमुद्घातत्वात्, अत्राप्यस्तीति निपातस्य सर्वलिङ्गवचनत्वात्, 'कस्सइ अत्थि कस्सइ नत्थि' इत्युक्तो बहुत्वाशङ्का स्यात्, ततस्तद्व्यवच्छेदार्थमाह-यस्य मनुष्यस्यातीतः केवलिसमुद्घातस्तस्य नियमादेको न द्वित्राः एकेनैव केवलिसमुद्घातेन प्रायः समस्तघातिकर्मणां निर्मूलका–पंकषितत्वात्, ‘एवं पुरेक्खडा वि' त्ति-एवम्- अतीतगतेन प्रका-रेण पुरस्कृता अपि केवलिसमुदघाता वाच्याः, ते चैवम्-'कस्सइ अस्थि, कस्सइ नत्थि जस्सत्थि एको' इति / अत्र भावना पूर्वो - क्तानुसारेण स्वयं भावनीया। (4) तदेवमतीतमनागतं च कालभधिकृत्य एकैकस्य नैरयिकादेवेदनादिसमुद्घात इन्ता कृता, सम्प्रति नैरयिकादेः प्रत्येकं समुदायरूपस्य तचिन्ता चिकीर्षुराहनेरइयाणं भंते ! केवइया वेदणासमुग्धाया अतीता ? गोयमा ! अणंता, केवइया पुरेक्खडा? गोयमा ! अणंता, एवं जाव वेमा-णियाणं, एवं जाव तेयगसमुग्घाए, एवं एते वि पंच चउवीस-दंडगा, नेरइयाणं भंते ! केवइया आहारगसमुग्घाया अतीता? गोयमा! असंखेज्जा, केवइया पुरेक्खडा? गोयमा ! असंखेज्जा, एवं०जाव वेमाणियाणं, णवरं वणस्सइकाइयाणं मणूसाण य इमं णाणत्तं-वणस्सइकाइयाणं भंते ! केवइया आहार-समुग्घाया अईया ? गोयमा ! अणंता मणूसाणं भंते ! केवइया आहारसमुग्घाया अईया ? गोयमा ! सिय संखेज्जा सिय असं-खेज्जा, एवं पुरेक्खडा वि / नेरइयाणं भंते ! केवइया के वलिसमु-पघाया अईया? गोयमा ! णत्थि, के वइया पुरेक्खडा?गोयमा! असंखेज्जा, एवंजाव वेमाणियाणं, णवरं वणस्सइमणूसेसु इमं नाणत्तं-वणस्सइकायाणं भंते ! केवइया के वलिसमुग्धाया अतीता ? गोयमा ! णत्थि,के वइया पुरेक्खडा? गोयमा ! अणंता, मणूसा णं भंते ! केवइया केवलिसमुग्घाया अतीता ? गोयमा ! सिय अस्थि सिय नत्थि, जइ अत्थि जहण्णेणं एक्को वा दो वा तिणि वा, उक्कोसेणं सत्तपुहुत्तं, केवतिया पुरेक्खडा? सिय संखेआ सिय असंखेज्जा। (सू०३३२) 'नेरझ्याण' मित्यादि, नैरयिकाणां विवक्षितप्रश्नसमयभाविनां सर्वेषां समुदायेन भदन्त ! कियन्तो वेदनासमुद्घाता अतीताः ? भगवानाहगौतम ! अनन्ता, बहूनामनन्तकालसव्यवहारराशेरुदवृत्तत्वात्, कियन्तः पुरस्कृताः? अत्रापि प्रश्नसूत्रपाठः परिपूर्ण एवं द्रष्टव्यः 'नेरइयाणं भंते! केवइया वेयणासमुग्धाया पुरक्खडा' इति, भगवानाह गौतम! अनन्ताः, बहूनामनन्त