________________ समुग्घाय 437 - अभिधानराजेन्द्रः - भाग 7 समुग्घाय कोसेणं तिण्णि, केवइया पुरेक्खडा, कस्सइ अत्थि कस्सइ नऽत्थि, जस्सऽत्थि जहण्णेणं एक्को वादोवा तिण्णि वा उक्कोसेणं चत्तारि, एवं निरंतरं जाव वेमाणियस्स, नवरं मणूसस्स अतीता वि पुरेक्खडा वि जहा नेरइयस्स पुरेक्खडा / एगमेगस्स णं भंते! नेरइयस्स केवतिया केवलिसमुग्धाया अतीता? गोयमा ! नऽत्थि, केवइया पुरेक्खडा? गोयमा ! कस्यइ अस्थि कस्सइ नत्थि, जस्सत्थि एक्को,एवं०जाव वेमाणियस्स,नवरं मणूसस्स अतीता कस्सइ अत्थि, कस्सइ नत्थि,जस्सत्थि एक्को, एवं पुरेक्खडा वि। (सू० 3324) 'एगमेगरसणं भंते! इत्यादि, एकैकस्य सूत्रे मकारोऽलाक्षणिकः, भदन्त! नरयिकस्य सकलमतीतं कालमधिकृत्य 'केवइय' ति-कियन्तो वदनासमुद्घाता अतीता-अतिक्रान्ताः? भगवानाह-गौतम! अनन्ताः, नारकादिस्थानानामनन्तशः प्राप्तत्वादेकैकस्मिँश्च नारकादिस्थानप्राप्तिकाले प्रायोऽनेकशो वेदनासमुद्घातानां भावात्, एतच्च बाहुल्योपक्षयोच्यते, बहवो हि जीवा अन-न्तकालमसंव्यवहारराशेरुद्वत्ता वर्तन्ते, ततस्तदपेक्षया एकैकस्य नैरयिकस्यानन्ता अतीता वेदनासमुद्घाता उपपद्यन्ते। ये तु स्तोककालमसंव्यवहारराशेरुवृत्तास्तेषां यथासम्भवं संख्येया असंख्येया वा प्रतिपत्तव्याः,केवलं ते कतिपये इति न विवक्षिताः। 'कवइया पुरेक्खड' त्ति इदं सूत्रं पाठसूचामात्र,सूत्रपाठस्त्वेवम्-'एगमेगस्स ण भंतं ! नेरइयरस केवइया वेयणासमुग्घाया पुरेक्खडा' इति, सुगम, नवरं पुरे अग्रे कृताः-तत्परिणामप्राप्तियोग्यतया व्यवस्थापिताः, सामर्थ्यात तत्कर्तृजीवेनति गम्यते, पुरस्कृता अनागतकालभाविन इति तात्पर्यार्थः / अत्र भगवानाह–कस्यापि सन्ति कस्यापिन सन्ति, यस्यापि सन्ति,तस्यापि जघन्यत एको द्वौ वा त्रयो वा, उत्कर्षतः संख्येया वा असंख्येया वा अनन्ता वा / इयमत्र भावनायो नाम विवक्षितप्रश्नसमयानन्तरं वेदनासमुद्घातमन्तरेणैव नरकादुवृत्यानन्तरमनुष्यभवे वेदनारग्मुद्घातमप्राप्त एव सेत्स्यति तस्य पुरतो वेदनासमुद्घात एकोऽपि नास्ति, यस्तु विवक्षितप्रश्नसमयानन्तरमायुःशेषे कियत्कालं नरकभवे स्थित्वा तदनन्तरं मनुष्यभवमागत्य सेत्स्यति तस्य एकादिसम्भवः, संख्यातकालसंसारावस्थायिनः संख्याताः, असंख्यातकालसंसारावस्थायिनोऽसंख्याताः अनन्तकालसंसारावस्थायिनोऽनन्ताः, 'एव' मित्यादि, एवं नैरयिकावतप्रकारेणासुरकुमारस्यापि यावत् स्तनितकुमारस्य वाच्यम्, ततश्चतुर्विशतिदण्डकक्रमेण निरन्तरं तावद्वाच्य यावद्वैमानिकस्य। किमुक्तं भवति? सर्वेष्वपि असुरकुमारादिषु स्थानेषु अतीता वेदनासमुद्घाता अनन्तावाच्याः, पुरस्कृतास्तु कस्यापि सन्ति कस्यापिन सन्ति, यस्यापि सन्ति तस्यापि जघन्यत एको द्वौ वा त्रयो वा उत्कर्षतः संख्येया असंख्यया अनन्ता वा इति वाच्याः। भावनाऽपि पूर्वोक्तानुसारेण स्वयं परिभावनीया, एवं चतुर्विशतिदण्डक क्रमेण कषायसमुद्घातो मारणान्तिकसमुद्घातो वैक्रियसमुद्घातस्तैजससमुद्घातश्च प्रत्येकं, तत एव पञ्चचतुर्विंशतिदण्डकसूत्राणि भवन्ति / तथा चाह-'एवं जाव तेयगसमुग्घाए' इत्यादि, एवं वेदनासमुद्घातप्रकारेण शेषसमुद्घातेष्वपि प्रत्येक तावद्वक्तव्यं यावत्तैजससमुद्घातः, शेष सुगमम, 'एगमेगस्स ण' मित्यादि, एकैकस्य भदन्त ! नैरयिकस्य पाश्चात्य सकलमतीत कालमपेक्ष्य क्रियन्त आहारकसमुद्घाता अतीताः? भगवा-नाह- गौतम ! कस्यापि 'अत्थि' ति- अस्तीति निपातः सर्वलिङ्गवचनो,यदाह शाकटायनन्यासकृत्- "अस्तीति निपातः सर्वलिङ्गवचनेष्वि" ति, ततोऽयमर्थः-कस्यापि अतीता आहारक-समुद्घाताः सन्ति कस्यापि न सन्ति, येन पूर्व मानुष्यं प्राप्य तथाविधसामा यभावतश्चतुर्दशपूर्वाणि नाधीतानि, चतुर्दशपूर्वा-धिगमे वा आहारकलब्ध्यभावतः तथाविधप्रयोजनाभावतो वा आहारकशरीर न कृतं तस्य न सन्तीति,यस्यापि सन्ति तस्यापि जघन्यतः एको वा द्वी वा उत्कर्षतस्तु त्रयो, नतु चत्वारः चतुष्कृत्यः कृताहारकशरीरस्य नरकगमनाभावात्. आह च मूलटी-काकारः-"आहारसमुग्धाया उक्कोसेणं तिन्नि, तदुवरि नियमा नरगं न गच्छइ जस्स चत्तारि भवन्ति" इति, पुरस्कृता अपि कस्यापि सन्ति कस्यापि न सन्ति, तत्र यो मानुष्यं प्राप्य तथा--विधसामर यभावतश्चतुर्दशपूर्वाधिगममाहारकसमुद्घातं चान्तरेण सेल्स्यतितरयन सन्ति, शेषस्य तु यथासम्भवं जघन्यतएको द्वौ वा त्रयो वा उत्कर्षतश्चत्वारःतत ऊर्ध्वमवश्यं गत्यन्तरासंक्रमे–णाहारकसमुद्घातमन्तरेण च सिद्धिगमनभावात्, ‘एव' मित्यादि, एवं नैरयिकोक्तेन प्रकारेण चतुर्विशतिदण्डकक्रमेण निरन्तरं तावद्वाच्य यावद्वैमानिकस्य सूवम, नवरं मनुष्यस्यातीता अपि पुरस्कृता अपि यथा-नैरयिकस्य पुरस्कृतास्तथा वाच्याः, अतीता अपि चत्वारः पुरस्कृता अपि चत्वार उत्कर्षतो वाच्या इत्यर्थः / सूत्रपाठश्चैवम्- 'एगमेगस्सणं मणूसस्स भंते ! केवइया आहा-रसमुग्घाया अतीता? गोयमा ! कस्सइ अस्थि कस्सइ नत्थि, जस्स अत्थि जहन्नेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं चत्तारि, केवइया पुरेक्खडा? गोयमा! कस्सइ अस्थि कस्सइनस्थि जस्स अस्थि जहन्नेणं एको वा दो वा तिन्नि वा उझोसेणं चत्तारि' अत्र भावना-इह यश्चतुर्थवलमाहारकशरीरं करोति स नियमात् तद्भव एव मुक्तिमासादयति, न गत्यन्तरं, कथमेतदवसीयते इतिचेत् ? उच्यतेसूत्रपौर्वापर्य-पर्यालोचनात्, तथा यदि चतुर्थवेलमप्याहारकशरीरं कृत्वा गत्यन्तरं संक्रामेत ततो नैरयिकादावन्यतरस्यां गतौ उत्कर्षतश्चत्वारोऽप्याहारकस्य समुद्घाता उच्येरन, न चोच्यन्ते, ततोऽवसीयतेचतुर्थवेलमहारकशरीरं कृत्वा नियमात् तद्भव एवमुक्तो भवति, न गत्यन्तरगामी, तत्र यः प्रागाहारकशरीर कदाचिनापि न कृतवान् तस्यातीतमाहारक-समुद्घातो नास्ति, ततस्तदपेक्षयोक्तं 'कस्सइनत्थि' त्ति-यस्यापि सन्ति सोऽपि यदि पूर्वमकवारमाहारकशरीरं कृतवान्