________________ समुग्धाय 436 - अभिधानराजेन्द्रः - भाग 7 समुग्धाय गस्यानुभागस्य चानन्ततमभास्य भूयोऽपि बुद्ध्या यथाक्रम संख्यया अनन्ताश्च भागाः क्रियन्ते, ततोऽवकाशान्तरसंहारसमये स्थितः संख्येयभागान हन्ति, एक संख्येयभागं शेषीकरोति, अनुभागस्यानन्तान् भागान् हन्ति एकं मुञ्चति / एवमन्तेषु पञ्चसु दण्डादिसमयेषु प्रत्येक सामयिक कण्डकमुत्कीण, समये समये स्थितिकण्डकानुभागकण्डकघातनात्, अतः पर षष्ठसपयादारभ्य स्थितिकण्डकमनुभागकण्डक चान्तर्मुहर्तेन कालेन विनाशयति, प्रयत्नमन्दीभावात, षष्ठादिषु च समयेषु कण्डकस्य प्रतिसमयमेकैकं शकल तावदुत्किरति यावदन्तर्मुहुर्त - चरमसमये सकलमपि तत्कण्डकमुत्कीर्ण भवति। एवमान्तमोहूर्तिकानि स्थितिकण्डकान्यनुभागकण्डकानि च घातयन् तावद्वेदितव्यः यावत् सयोग्यवस्थाचरमसमयः, सर्वाण्यपि चामूनि स्थित्यनुभागकण्डकान्यसंख्येयान्यवगन्तव्यानीति कृतं प्रसङ्गेन। प्रकृतं प्रस्तुमः। (2) तत्र संग्रहणिगाथोक् तमर्थ स्पष्टयन प्रथमतः समुद्धात संख्याविषयं प्रश्नसूत्रमाहकति णं भंते ! समुग्धाया पण्णत्ता, गोयमा ! सत्त समुग्धाया पण्णत्ता, तं जहा–वेदणासमुग्घाते 1 कसायसमुग्घाते 2 मारणंतियसमुग्धाते 3 वेउव्वियसमुग्घाते 4 तेयासमुग्घाते 5 आहारसमुग्घाते 6 केवलिसमुग्घाते 7 / वेदणासमुग्घाए णं भंते ! कति समइए पण्णत्ते ? गोयमा ! असंखेज्जसमइए अतोमुहुत्तिते पण्णत्ते, एवं जाव आहारसमुग्घाते / केवलिसमुग्घाए णं भंते ! कति समइए पण्णत्ते ? गोयमा ! अट्ट समइए पण्णत्ते / नेरझ्या णं भंते ! कति समुग्घाया पण्णत्ता ? गोयमा ! चत्तारि समुग्धाया पण्णत्ता,तं जहा-वेदणासमुग्घाए कसायसमुग्धाएमारणंतियसमुग्घाए वेउव्वियसमुग्घाए। असुरकुमाराणं भंते ! कति समुग्धाया पण्णता? गोयमा ! पंच समुग्धाया पण्णत्ता, तं जहा.. वेदणासमुग्धाए कसायससमुग्घाए मारणंतियसमुग्घाए वेउव्यि--- यसमुग्घाए तेयासमुग्घाए एवं जाव थणियकुमारा णं / पुढविकाइया णं भंते ! कति समुग्घाया पण्णत्ता ? गोयमा ! तिण्णि समुग्घाया पण्णत्ता, तं जहा-वेदणासमुग्घाए कसायसमुग्घाए मारणंतियसमुग्घाए, एवं जाव चउरिंदियाणं, नवरं वाउकाइयाणं चत्तारि समुग्घाया पण्णत्ता, तं जहा-वेदणासमुग्धाए कसायसमुग्घाए मारणंतियसमुग्धाए वेउव्वियसमुग्घाए पंचिंदियतिरिक्खजोणियाणं जाव वेमाणिया णं भंते? कति समुग्घाया पण्णत्ता? गोयमा ! पंच समुग्घाया पण्णत्ता, तं जहा-वेयणासमुग्धाए कसायसमुग्घाए मारणंतियसमुग्घाए वेउव्विय समुग्घाए तेयासमुग्घाए नवरं मणुस्साणं सत्तविहे समुग्धाए पण्णत्ते, तं | जहा-वेदणासमुग्घाए कसायसमुग्घाए मारणं तिय-समुग्घाए | वेउव्वियसमुग्घाए तेयासमुग्घाए आहारसमुग्धाए केवलिसमुग्धाए। (सू०३३१) 'कई ण' मित्यादि, कति-किंपरिमाणा णमिति वाक्याऽलंकार, 'भदन्ते' ति-भगवतो वर्द्धमानस्वामिन आमन्त्रणं, भदन्तत्वं च भगवतः परमकल्याणयोगित्वात्, यदिवा–भवान्तेति,द्रष्टव्यं, सकलसंसारपर्यन्तवर्तित्वात् अथवा-भयान्त!इहपरलोकादि-भदमिन्नसप्तप्रकारभयविनाशकत्वात्, समुद्घाताः- उक्त-शब्दार्थाः प्रज्ञप्ताः, भगवानाह'गोय' त्यादि, गौतम ! सात समुद्घाताःप्रज्ञताः, तद्यथा-वेदनासमुद्घात इत्यादि, वेदनायाः समुद्घातो वेदनासमुद्घातः,एवं यावदाहारकसमुद्धात इति, केवलिसमुदघात इति-केवलिनः समुद्धाराः केवलिसमुद्घातः / सम्प्रति कः समुद्घातः, कियन्तं कालं यावद्भवतीत्येत-निरूपणार्थमाह-'वेयणे' त्यादि, सुगमं नवरं 'जावे' त्यादि, एव-मुक्तप्रकारेणाभिलापेनान्तर्मुहूर्तप्रमाणतया च समुद्घाताः क्रमेण तावद्वाच्याः यावदाहारकसमुद्घातः, एतेषड़प्यादा आन्तर्मुहू-र्तिकाः, केवलिसमुद्घातस्त्वष्टसामायिकः, स चानन्तरमेव भावितः एतानेव समुद्घातान् चतुर्विशतिदण्कक्रमेण चिचिन्तयि--पुराह- 'नेरइयाण' मित्यादि, नैरयिकाणामाद्याश्चत्वारः, तेषां तेजोलब्ध्याऽऽहारकलब्धिकेवलित्वाभावतः शेषसमुद्घातत्र-यासम्भवात्, असुरकु मारादीनां दशानामपि भवनपतीनां तेजोलेश्यालब्धिभावात् आद्याः पश समुद्घाताः, पृथिवीकायिकाप्कायिकतैजस्कायिकवनस्पतिकायिकद्वित्रिचतुरिन्द्रियाणामाद्यास्त्रयः, तेषां वैक्रियादिलब्ध्यभावतः उत्तरेषां चतुर्णामपि समुद्घातानामसम्भवात्, वायुकायिक्रानामाद्याश्चत्वारस्तेषा वैक्रियलब्धिसंभवेन वैक्रियसमुद्घातस्यापि सम्भवात, पञ्चेन्द्रियतिर्यग्योनिकानामाद्याः पञ्च, केषांचित्तेषां तेजोलब्धेरपि भावात्, मनुष्याणां सप्त मनुष्येषु सर्वसम्भवात् व्यन्तरज्योतिष्कवैमानिकानामाद्याः पञ्च, वक्रियतेजोलब्धिभावात् उत्तरौ तु द्वौ न सम्भवतः आहारकलब्धिकेवलित्वाऽयोगात्। (3) सम्प्रति चतुर्विशतिदण्डकमधिकृत्य एकैकग्य जीवस्य कति वेदनादयः समुद्घाता, अतीताः कति भाविन इति चिचिन्तयिषुराहएगमेगस्स णं भंते ! नेरइयस्स के वइया वेदणासमुग्घाया अतीता? गोयमा ! अणंता, केवइया पुरेक्खडा? गोयमा ! कस्सइ अस्थि, कस्सइ नऽत्थि। जस्सत्थि तस्स जहण्णेणं एक्को वा दो वा तिण्णि वा उक्कोसेणं संखेज्जा वा असंखेज्जा वा अणंता वा एवं असुरकुमारस्स वि निरंतरं० जाव वेमाणियस्स, एवं० जाव तेयगसमुग्घाए एवमेते पंच चउवीसा दंडगा। एगमे-गस्स णं मंते ! नेरइयस्स केवइया आहारसमुग्घाया अतीता ? कस्सइ अत्थि कस्सइनऽत्थि, जस्स अत्थितस्स जहण्णेणं एक्को वा दो वा उ