________________ समुग्घाय 435 - अभिधानराजेन्द्रः - भाग 7 समग्घाय (1) गतिपरिणामविशेष एव समुद्घातश्चिन्त्यते, तत्र समुद्घातक्तव्यताविषये इयमादौ संग्रहणिगाथावेयणकसायमरणे, वेउव्वियतेयए य आहारे। केवलिए चेव भवे, जीवमणुस्साण सत्तेव।।१।। 'वेयणे' त्यादि,इह समुद्घाताः सप्त भवन्ति, तद्यथा- 'वेयणकसायमरणे' इति, वेदनं च कषायाश्च मरणं च वेदनकषायमरणं समाहारो द्वन्द्वस्तस्मिन् विषये त्रयः समुद्घाता भवन्ति, तद्यथा-वेदनासमुद्धातः कषायसमुद्घातो मरणसमुद्घातश्च, 'वेउव्विय' त्ति-वैक्रियविषयश्चतुर्थः समुद्घातः, तेजसः पञ्चमः समुद्घातः, षष्ठ आहार इति-आहारकशरीरविषयः,सप्तमः केवलिक:-केवलिषु भवति, 'जीवमणुस्साण सत्तेव' त्ति-सामान्यतो जीवचिन्तायां मनुष्यद्वारचिन्तायां सप्तैवसप्तपरिमाणाः समुद्घाता वक्तव्याः, न न्यूनाः, सप्तानामपि तत्र सम्भवात्, 'सत्तेव' त्ति-एवकारोऽत्र परिमाणे, वर्त्तते च परिमाणे एवशब्दः, यदाह शाकटायनन्यासकृत्- 'एवोऽवधारणपृथक्त्वपरिमाणेष्विति, शेषद्वारचिन्तायां तु यथासम्भवं वाच्याः, ते चाग्रे स्वयमेव सूत्रकृताऽभिधास्यन्ते इत्येष संग्रहणिगाथासंक्षेपार्थः / अथ समुद्धात इति कः शब्दार्थ? उच्यतेसमिति-एकीभावे, उत्प्राबल्ये, एकीभावेन प्राबल्येन घातः समुद्धातः। केन सह एकीभावगमनमिति चेत्, उच्यते-अद्विनादिभिः, तथाहियदाऽऽत्मा वेदनादिस-मुद्घातगतो भवति तदा वेदनाद्यनुभवज्ञानपरिणत एव भवति, नान्यज्ञानपरिणतः, प्राबल्येन कथं घात इति चेत, उच्यते-इह वेदनादिसमुद्धातपरिणतो बहून वेदनीयादिकर्मप्रदेशान् कालान्तरानुभवयोग्यानुदीरणाकरणेनाकृष्योदयावलिकायां प्रक्षिप्यानुभूय च निर्जरयति, आत्मप्रदेशैस्सह संक्तिष्टान् सातयतीति भावः, 'पुटवकयकम्मसाडणं तु निज्जरा' इनि वचनात्, तथाहि-वेदनासमुद्घातोऽसद्वैद्यकर्माश्रयः कषायसमुद्घातः कषायाख्यचारित्रमोहनीयकर्माश्रयः, मारणान्तिकसमुद्घातः अन्तर्मुहूर्त शेषायुःकर्माश्रयः, वैकुर्विकतैजसाहारकसमुद्घाता यथाक्रमं वैक्रियशरीरतैजसशरीराहारकशरीरनामकर्माश्रयाः, केवलिसमुद्घातः सदसद्वेधशुभाशुभनामोच्चनीचैर्गोत्रकर्माश्रयः, (प्रज्ञा०)(तत्र वेदनासमुद्धातगताऽऽत्मवक्तव्यता वयणासमुग्घाय' शब्दे षष्ठे भागे गता।) कषायसमुद्घातसमुद्धातः कषायाख्यचारित्रमोहनीयकर्मपुद्गलपरिशातं विधत्ते, तथाहिकषायोदयसमाकुलो जीवः प्रदेशान् बहिर्विक्षिपति तैः प्रदेशैर्वदनोदरादिरन्ध्राणि कर्णस्कन्धाद्यन्तरालानि चापूर्यायामतो विस्तरतश्च देहमात्रं क्षेत्रमभिव्याप्य वर्तते, तथाभूतश्च प्रभूतान् कषायकर्मपुद्गलान् परिशातयति। (प्रज्ञा०, (इतोऽग्रे 'मारणंतियसमुग्घाय' शब्दे षष्ठे भागे 254255 पृष्ठे गतम्) (वैक्रियसमुद्धातवक्तव्यता 'वउब्वियसमुग्घाय' शब्दे षष्ठ भागे गता।) एवं तैजसाहारसमुद्धातावपि भावनीयौ, नवरं तेजससमुद्धातस्तेजोलेश्याविनिर्गमकाले तैजसनामकर्मपुद्गलपरिशात हेतुः, आहारकसमुद्घातगतस्त्वाहारशरीरनामकर्मपुद्गलान परिशातयतीति, केवलिसमुद्घातगतः केवली सदसāद्यादिकर्मपुद्गलपरिशातं करोति, स | च यथा कुराते तथा विनयजनानुग्रहाय भाव्यते इति, केवलिसमुद्घातोऽटसामयिकः, तं च कुर्वन् केवली प्रथमसमये बाहल्यतः स्वशरीरप्रमाणमूर्ध्वमधश्च लोकान्तपर्यन्तम् आत्मप्रदेशानांदण्डमारचयति, द्वितीयसमये पूर्वापरं दक्षिणोत्तरं वा कपाट, तृतीये मन्थानं, चतुर्थेऽवकाशान्तराणां पूरणं, पञ्चमेऽवकाशान्तराणां संहारं, षष्ठे मन्थः, सप्तमे कपाटस्य, अष्टमे स्वशरीरस्थो भवति, वक्ष्यति च– “पढमे समये दंड करेइ, बीए कवाडं करेई" इत्यादि, तत्र दण्डसमयात् प्राक् या पल्योपमासङ्घयेयभागमात्रा वेदनीयनाम-गोत्राणां स्थितिरासीत् तस्या बुद्ध्या असंख्येयभागाः क्रियन्ते, ततो दण्डसमये दण्ड कुर्वन् असंख्येयान् भागान् हन्ति, एकोऽसंख्येयो भागोऽवतिष्ठते, यश्च प्राकर्मत्रयस्यापि रसस्तस्याप्यनन्ता भागाः क्रियन्ते, ततस्तस्मिन् दण्डसमये असातवेदनीय 1 प्रथमवर्जसंस्थान६ संहननपञ्चका ११ऽप्रशस्तवर्णादिचतुष्टयो 15 पघाता १६ऽप्रशस्तविहायोगति 17 दुःस्वर 18 दुर्भगा १६ऽस्थिरा २०ऽपर्याप्तका २१ऽशुभा २२ऽनादेया २३व्यशःकीर्ति 24 नीचैर्गोत्ररूपाणां 25 पञ्चविंशतिप्रकृतीनामनन्तान भागान् हन्ति, एकोऽनन्तभागोऽवशिष्यते, तस्मिन्नेव चसमये सातवेदनीय१ दवेगति 2 मनुष्यगति 3 देवानुपूर्वी 4 मनुष्यानुपूर्वी 5 पञ्चेन्द्रियजाति 6 शरीरपञ्चको 11 पाङ्गत्रय 14 प्रथमसंस्थान 15 संहनन 16 प्रशस्तवर्णादिचतुष्या २०ऽगुरुलघु 21 पराघातो 22 च्छ्रास 23 प्रशस्तविहायोगति 24 त्रस 25 बादर 26 पर्याप्त 27 प्रत्येकाऽऽतपो 26 द्योत 30 स्थिर 31 शुभ 32 सुभग 33 सुस्वरा 34 ऽऽदेय 35 यशःकीर्ति 36 निर्माण 37 तीर्थकरो 38 च्चैर्गोत्ररूपाणा 36 मेकोनचत्वारिंशतः प्रकृतीनामनुभागोऽप्रशस्तप्रकृत्यनुभागमध्यप्रवेशनेनोपहन्यते, समुद्धातमाहात्म्यमेतत्। तस्य चोदरितस्य स्थितेरसंख्येयभागस्यानुभागस्य चानन्तभागस्य पुनर्यथाक्रममसंख्येया अनन्ताश्च भागाः क्रियन्ते, ततो द्वितीये कपाटसमये स्थितेरसंख्येयान् भागान् हन्ति एकोऽवशिष्यते, अनुभागस्य चानन्तान भागान् हन्ति एक मुञ्चति / अत्राप्यप्रशस्तप्रकृत्यनुभागमध्यप्रवेशनेन प्रशस्तप्रकृत्यनुभागघातो द्रष्टव्यः, पुरप्येतत् समयेऽवशिष्टस्य स्थितेरसंख्येयभागस्यानुभागस्य चानन्ततमभागस्य पुनर्बुद्ध्या यथाक्रममसंख्येया अनन्ताश्च भागाः क्रियन्ते ततस्तृतीये समये स्थितेरसंख्येयान् भागान् हन्ति, एकं मुञ्चति, अनुभागस्य चाऽनन्तान् भागान् हन्ति, एकमनन्तभागं मुञ्चति। अत्रापि प्रशस्तप्रकृत्यनुभागधातोऽप्रशस्तप्रकृत्यनुभा-गमध्यप्रवेशनेनावसेयः / ततः पुनरपि तृतीयसमयावशिष्टस्य स्थितेरसंख्येयभागस्यानुभागस्य चानन्ततमभागस्य बुद्ध्या यथाक्रममसंख्येया अनन्ताश्च भागाः क्रियन्ते, ततश्चतुर्थसमये स्थितेरसंख्येयान् भागान् हन्ति, एकस्तिष्ठति, अनुभागस्याप्यनन्तान् भागान् हन्त्येकोऽवशिष्यते, प्रशस्तप्रकृत्यनुभागधातश्च पूर्ववदयसे यः / एवं च स्थितिघातादि कुर्वतश्चतुर्थसमये स्वप्रदे-शापूरितसमस्तलोकस्य भगवतः केवलिनो वेदनीयादिकर्मत्रयस्थितिरायुषः संख्येयगुणा जाता, अनुभागस्त्वद्याप्यनन्तगुणः, चतुर्थसमयावशिष्टस्य च स्थितेरसंख्येयभा