________________ संकम 22 - अभिधानराजेन्द्रः - भाग 7 संकम स्थानकरसेपेतानि च तेषु सर्वेष्वपि सम्यक्त्वं तदुवरितुवा मिस्स' यत्र देशघातीनि स्पर्धकानि निष्ठितानि तत उपरि सम्यग्मिथ्यात्वस्य स्पर्धकानि भवन्ति। तानि च सर्वघातीनि द्विस्थानकरसोपेतानि च तानि सम्यग्मिथ्यात्वस्य स्पर्धकानि तावद् द्रश्व्यानि यावत् 'दारूसमाणस्साणंततमो त्ति' दारूसमान इति द्विस्थानको रसस्तस्य सम्बन्धिनां स्पर्धकानामनन्ततमो भागो गतो भवति। ततो यत्र सग्यग्मिथ्यात्वस्य स्पर्धकानि निष्ठां यान्ति, ततः प्रभृति द्विस्थानकत्रिस्थानकचतुःस्थानकरसोपेतानि स्पर्धकानि सर्वाण्यपि मिथ्यात्वस्य द्रष्टव्यानि। कृता स्पर्धकप्ररूपणा। सम्प्रति विशेषलक्षणप्ररूपणार्थमाह - तत्थट्ठपयं उव्व-ट्टिया व ओवट्टिया व अविभागा। अणुभागसंकमो ए-स अन्नपगई निया वाऽवि॥४६।। 'तत्थ' त्ति-तत्रानुभागसंक्रमेऽर्थपदं याथात्म्यनिर्धारणमिदम्यदुत उद्घर्तिताः प्रभूतीकृताः, यदा-अपवर्तिता ह्रस्वीकृता अथवाऽन्यां प्रकृति नीता अन्य प्रकृतिस्वभावेन परिणमिताः अविभागा अनुभागाः / एष सर्वाऽप्यनुभाग संक्रमः / तत्र मूलप्रकृतीनामुद्वर्तनापवर्तनारूपी द्वावेव संक्रमौ नान्यप्रकृतिनयनरूपः संक्रमः, तासां परस्परं संक्रमाभावात् उत्तरप्रकृतीनां तु त्रयोऽपि संक्रमाः। तदेवमुक्त विशेषलक्षणम्। सम्प्रत्युत्कृष्टानुभागसंक्रम प्रमाणप्रतिपादनार्थमाहदुविहपमाणे जेट्ठो, सम्मत्ते देसघाददुट्ठाणा। नरतिरियाऊ आयव-मिस्से वि यसव्वघाइम्मि।।४७|| 'दुविहे' त्ति-द्विविधे प्रमाणे स्थानप्रमाणे घातित्वप्रमाणे च ज्येष्ठ उत्कृ ष्ठोऽनुभागसंक्रमः सम्यक्त्वस्य देशघातिनि द्विस्थानके रसस्पर्धके संक्रम्यमाणे वेदितव्यः / एतदुक्तं भवति-सम्यक्त्वस्य घातित्वमाश्रिते देशघातिस्थानमाश्रित्य सर्वोत्कृष्टद्विस्थानकरसोपेतं स्पर्धकपटलं यदा संक्रामति तदा तस्योत्कृष्टोऽनुभागसंक्रम इति नरायुस्तिर्यगायुरातपसम्यग्मिथ्यात्वानां स्थानं प्रतीत्य सर्वोत्कृष्ट द्विस्थानकरसोपेतघातित्वमाश्रित्य सर्वघातिनि रसस्पर्धके उत्कृष्टोऽनुभागसंक्रमः / अनापीयं भावना-नरतिर्यगायुरातपसम्यग्मिथ्यात्वानां सर्वोत्कृष्टद्विस्थानकरसोपेतं सर्वघातिरसस्पर्धक यदा संक्रामति तदा स तेषामुत्कृष्टोऽनुभागसंक्रमः। अत्र नरतिर्यगायुरातपाना “दुतिचउट्ठाणा उसेसा उ" इति वचनात् द्वित्रिचतुःस्थानकरससंभवेऽपि यत् द्विस्थानकरसस्पर्धकस्यैव संक्रमे उत्कृष्टोऽनुभागसंक्रम उक्तः, स एवं ज्ञापयति- एतेषा कर्मणां तथा स्वाभाव्यादेव त्रिस्थानकचतुःस्थानकरसस्पर्धकानाभुदर्तनापवर्तनाप्रकृत्यन्तरनयनरूपस्त्रिप्रकारोऽपि संक्रमो न भवतीति। सेसासु चउट्ठाणे, मंदो संमत्तपुरिससंजलणे। एगट्ठाणे सेसा-सु सव्वघाइम्मि दुट्ठाणे॥४८|| 'सेसासु' त्ति-शेषाणामुक्तव्यतिरिक्ताना प्रकृतीनां स्थानमाश्रित्य सर्वोत्कृष्टश्चतुःस्थानको घातित्वमाश्रित्य सर्वघाती रसो यदा संक्रामति तदा स तासामुत्कृष्टोऽनुभागसंक्रमः / तदेवमुक्तमुत्कृष्टानुभागसंक्रम- ) प्रमाणम्।। सम्प्रति जघन्यानुभागसंक्रमप्रमाणप्रतिपादनार्थमाह- 'मंदो' त्ति सम्यक्त्वस्य पुरूषवेदस्य संज्वलनानां चैकस्थानकेरसे संक्रामति मन्दो जघन्योऽनुभागसंक्रमो वेदितव्यः / एतदुक्तं भवति-सम्यक्त्वस्य सर्वविशुद्ध एकस्थानको रसो यदा संक्रामति तदा तस्य जघन्योऽनुभागसंक्रमः, पुरूषवेदसंज्वलनानां च क्षपणकाले यानि समयोनावलिकाद्विकबद्धानि स्पर्धकानि एकस्थानरसोपेतानि तानि यदा संक्रामन्ति तदा से तेषां जघन्योऽनुभागसंक्रमः। 'सेसासु' इत्यादि शेषासूक्तव्यतिरिक्तासु सर्वासु प्रकृतिषु सर्वघातिनि द्विस्थानकरसोपेते स्पर्धके संक्रम्यमाणो जघन्योऽनुभागसंक्रमो वेदितव्यः / इदमत्र तात्पर्यम्सम्यक्त्वपुरूषवेदसंज्वलनचतुष्टयव्यतिरिक्तिानां शेषप्रकृतीनां घातित्वमाश्रित्य सर्वघातीनि, स्थानमाश्रित्य द्विस्थानकरसोपेतानि मन्दानुभावानि यानि रसस्पर्धकानि तानि यदा संक्रामन्ति तदा सतासा जघन्योऽनुभागसंक्रमः / इह यद्यपि मतिश्रुतावधिमनः पर्यायज्ञानावरणचक्षुरचक्षुरवधिदर्शनावरणान्तरायपञ्चकानामेकस्थानकोऽपि रसो बन्धे प्राप्यते तथाऽपि क्षयकालेऽपि प्रारबद्धो द्विस्थानकोऽपि रसः संक्रामति, नकस्थानकः केवल इतिजघन्यसंक्रमविषयतया नैतेषामेकस्थानकरस उक्तः / तदेवमुक्तं जघन्यानुभागसंक्रमपरिमाणम्। सम्प्रति साधनादिप्ररूपणा कर्तव्या। सा च द्विधा-मूलप्रकृतिसाद्यनादिप्ररूणा उत्तरप्रकृतिसाद्यनादिप्ररूपणा च / तत्र मूलप्र कृतीनां साद्यनादिप्ररूपणार्थमाहअजहण्णो तिण्णि तिहा, मोहस्स चउव्विहो अहाउस्स। एवमणुक्कोसो से-सगाण तिविहो अणुक्कोसो॥४६॥ सेसा मूलप्पगइसु, दुविहा अह उत्तरासु अजहणो। सत्तरसण्ण चउद्धा, तिविकप्पो सोलसण्हं तु / / 5 / / 'अजहण्णो' ति-ज्ञानावरणदर्शनावरणान्तरायलक्षणानां त्रयाणां कर्मणामजघन्योऽनुभागरित्रधा त्रिप्रकारस्तद्यथा-अनादिरधुवो, ध्रुवश्च / तथाहि-क्षीणकषायस्यैतेषां कर्मणां समयाधिकावलिकाशेषायां स्थितौ जघन्यानुभागसंक्रमो भवति, स च सादिरधुवश्च / ततोऽन्यः सर्वोऽप्यजघन्यः स चानादिः / अधुवधुवौ भव्याऽभव्यपेक्षया / मोहनीयस्याजघन्योऽनुभागसंक्रमश्चतुर्विधः / तद्यथासादिरनादिधुवोऽधु वश्च / तथाहि-सूक्ष्म-संपरायस्य क्षपकस्य मोहनीयस्य समयाधिकावलिकाशेषायां स्थितौ जघन्योऽनुभागसक्रमो भवति / स च सादिरधु वश्च ततोऽन्यः सर्वोऽप्यजघन्यः, सच क्षायिकसम्यग्दृष्टरूप-शमश्रेण्यां वर्तमानस्योपशान्तमोहगुणस्थानके न भवति / उपशान्त-मोहगुण-स्थानकाच्च प्रतिपपतः सतः पुनरपि भवति, ततोऽसौ सादिः। तत्स्थानमप्राप्तस्य पुनरनादिः / धुवाधुवा पूर्ववत्। आयुषस्त्वनुत्कृष्टोऽनुभागसंकमश्चतुर्विधः। तद्यथा-सादिरनादिधुंवोऽधुवश्च / तथाहि-अप्रमत्तो देवायुष उत्कृष्ट मनुभागं बवा बन्धावलिकायाः परतःसंक्रमयितुमारभते तं च, तावत्संक्रमयति यावदनुत्तरसुरभवे स्थितस्य त्रयस्त्रिंशत्सागरोपमाण्यतिक्रामन्ति