________________ संकम 21 - अभिधानराजेन्द्रः - भाग 7 संकम रणो' ति कृतकरणः क्षपणकरणेऽभ्युद्यतो जघन्यस्थितिसंक्रमस्वामी भवति। मिथ्यात्वसम्यग्मिथ्यात्वयोर्जधन्यस्थितिसंक्रमस्वामिनमाह'सक्खवगे' त्यादि दृष्टिमोहयोमिथ्यात्वसम्यग्मिथ्यात्वयोः क्षपणकाले राधरभरखण्ड संक्षुमणं सर्वापवर्तननापवर्त्य परस्थाने पल्योपमासंख्येयभागमात्रचरभखण्डे प्रक्षेपण तत्र वर्तमानो मनुष्योऽविरतसम्यगदृष्टिर्देशविरतः प्रमत्तोऽप्रमतो वा जघन्यस्थितिसंक्रमस्वामी भवति। समउत्तरालिगाए, लोभे सेसाएँ सुहुमरागस्स। पढमकसायाण विसं-जोयण संछोभणाए उ॥४२।। 'समउत्तरे' ति-सूक्ष्मसम्परायस्य स्वगुणस्थानकस्य समयाधिकांवलिकाशेषाया स्थितौ वर्तमानस्य लोभे लोभस्य जघन्यः स्थितिसंक्रमो भवति इटमिह तात्पर्यम्-सूक्ष्मसम्परायः स्वगुणस्थानकस्य समयाधिकावलिकाशेषाया स्थिती वर्तमानो लोभसत्कजधन्यस्थितिसंक्रमस्वामी भवति / / अनन्तानुबन्धिनां जघन्यस्थितिसंक्रमस्वामिनमाह- 'पढमें त्यादि, प्रथमकषायाणामनन्तानुबन्धिनां विसंयोजनेविनाशने या वरमा पल्योपमासंख्येयभागमात्रा संक्षोभणा प्रक्षेपणं तत्र वर्तमानश्चतुर्गतिकानामन्यतमः सम्यग्दृष्टिर्जघन्यस्थितिसंक्रमर वामी भवति। चरिमसजोगे जा अ-त्थि तासि सो चेव सेसगाणं तु। खवगक्कमेण अनिय-ट्टिवायरो वेयगो वेए॥४३।। 'चरिम' त्ति-य सयोग्यन्तिकाः प्रकृतयश्चतुर्नवतिसंख्याः प्रागुक्तास्तासां स व सयोगिकेवली चरमापवर्तने वर्तमानो जघन्यस्थितिसंक्रमस्वामी भवति / / शेषप्रकृतीनां जघन्यस्थितिसंकभस्वामिनमाह.. 'सेसगाण' मित्यादि, शेषाणां स्त्यानद्धित्रिकनामत्रयोदशकाष्टकषायनवनांकषायसंज्वलनक्रोधमानमायालक्षणाना पत्रिंशत्प्रकृतीनां क्षपणक्रमणक्षपणपरिपाट्या चरमे पल्योपमासंख्ययभागादिम त्रे संछोभणे वर्तमानोऽनिवृत्तिबादरो जघन्यस्थितिसंक्रमस्वामी भवाते। 'वेयगो वेदे' ति वेदको वेदे वेदस्य जघन्यस्थितिसंक्रमस्वामी / इयमत्र भावना-पुरूषवेदोदये वर्तमानः पुरुषवेदस्य, स्त्रीवेदोदय वर्तमानः स्त्रीवदस्य, नपुंसकवेदोदये वर्तमानो नपुंसकवेदस्यानिवृत्तिबादरसंपरायश्चरमसंक्रम कुर्वन् जघन्यस्थितिसंक्रमस्वामी वेदितव्यः / अन्येन हि वेदेन क्षपकश्चेणिमारूढरम्यान्यस्य वेदस्य जघन्यस्थितिसक्रमो न लभ्यते : तथाहि-येन वेदेन क्षपक श्रेणिमारोहति तस्य वेदस्यो-दयोदीरणापवर्तनादिभिःस्थिते पुद्गलाश्व बहवः परिसटन्ति। तता यद्यपि नपुंसकवेदन क्षपकश्रेणिं प्रपन्नः स्त्रीवेदनपुंसकवेदौ युगपरक्षपयति, तथापि नपुंसकवेदस्यैव जघन्यः स्थितिसंक्रमः प्राप्यते, न स्त्रीवेदस्य उदयादीरणयोरभावात् / स्त्रीवेदेन च प्रतिपन्नो नपुसकवक्षयानन्तरमन्तर्मुहूर्तन कालेन स्त्रीवेदं क्षपयति / एतावता च कालेनोदयोदीरणाभ्यां बह्री स्थितिस्त्रुट्यति। यद्यपि च पुरुषवेदेनाऽपि प्रतिपन्नस्यतावान् कालो लभ्यते तथाऽपि तस्य स्त्रीवेदसत्के उदयोदीरणे नभवत इति स्त्रीवेदप्रतिपन्नस्यैव स्त्रीवेदस्य जघन्यः स्थितिसंक्रमो, न शेषस्य / तथा पुरुषवेदन क्षपकश्रेणिं प्रपन्नो हास्यादिषट्कक्षयानन्तरं पुरूषवेदं क्षपयति, अन्यथा तु हास्यादिषट्कसहितम् / उदितस्य च वेदस्योदीरणाऽपि प्रवर्तत इति बढी स्थितिस्त्रुट्यति / पुरूषवेदस्यापि पुरुषवेदारुढस्येव च धन्यस्थितिसंक्रमोन शेषस्य। तदेवमुक्तः स्थितिसंक्रमः, सम्प्रत्यनुभागसंक्रमा:भिधानावसरः, तत्र चैतेऽर्थाधिकारास्तद्यथा-भेद-स्पर्धकप्ररूपणा, विशेषलक्षणप्ररूपणा, उत्कृष्टानुभागसंक्रमप्रमाणप्ररूपणा, जघन्यानुभागसंक्रमप्र माणप्ररूपणा, साधनादिप्ररूपणा, स्वामि त्वं चेति। तत्र भेदप्ररूपणार्थमाहमूलत्तरपगइगतो, अणुभागे, संकमो जहा बंधे। फडुगनिदेसो सिं, सव्वेयरघायऽघाईणं / / 44|| 'मूलत्तर' ति-अनुभागेऽनुभागविषये संक्रमो मूलो तरप्रकृतिगतः। किमुक्त भवति ? द्विधाऽनुभागसंक्रमस्तद्यथामूलप्रकृत्यनुभागसंक्रमश्च, उत्तरप्रकृत्यनुभागसंक्रमश्च / ते च मूलोत्तरप्रकृतिभेदा यथा बन्धेबन्धशतकेऽभिहितास्तथापि द्रष्टव्याः / कृता भेदप्ररूपणा / / स्पर्धकप्ररूपणार्थमाह-'फड्डगे' त्यादि आसां सर्वधातिनीनां देशघातिनीनामघातिनीनां प्रकृतीनां स्पर्धकनिर्देशः स्पर्धकप्ररूपणा यथा शतके कृता तथात्राऽपि कर्तव्या। तथापि किंचिदुच्यते-तत्र च केवलज्ञानावरणकेवलदर्शनावरणाद्यद्वादशकषायनिद्रापञ्चकमिथ्यात्वलक्षणाना विंशतिप्रकृतीनां रसस्पर्धकानि सर्वघातीनि, सर्व स्वघात्यं केवलज्ञानादिलक्षण गुणं घातयन्तीति सर्वघातीनि, तानि च ताम्रभाजनवत् निश्छिद्राणि घृतवत् सिग्धानि द्राक्षावत्तनुप्रदेशोपचितानि स्फटिकाभ्रहारबचातीव निर्मलानि / उक्तं च- "जो घाएइ सविसयं, सयलं सो होइ सव्वघाइरसो / सो निच्छिड्डो निद्धो, तणुओ फलिहत्भहरविमलो / / 1 / / " मतिश्रुतावधिमनः पर्यायज्ञानावरणचक्षुरचक्षुरवधिदर्शनावरणसंज्वलनचतुष्टयनवनोकषायान्तरायपञ्चकलक्षणानां पञ्चविंशतिसंख्यानां देशघातिप्रकृतीनाम्। (देशघातिप्ररूपणा 'देसघाइण' शब्दे चतुर्थभागे 2626 पृष्ठे गता / ) वेदनीयायुर्नामगोत्राणां सम्बन्धिन एकादशोत्तरप्रकृतिशतस्याघातिनो रसस्पर्धकान्यघातीनि वेदितव्यानि। केवल वेद्यमानसर्वघातिरसस्पर्धकसम्बन्धात्तान्यपि सर्वघातीनि भवन्ति / यथेह लोके स्वयमचौराणामपि चौरसम्बन्धाचौरता। उक्त च- "जाण न विसओघाइत्तणम्मिताणं पिसव्वघाइरसो। जायइघाइसगासे-ण चोरया वेहऽचोराणं / / 1 / / सम्प्रति दर्शनमोहनीयस्य स्पर्धकप्ररूपणार्थमाहसव्वेसु देसघाइसु, सम्मत्तं तदुवरिं तु वा मिस्सं। दारूसमाणस्साणं-ततमो मिच्छत्तमुप्पिमओ॥४५|| 'सव्व सु' त्ति-इह दर्शनमोहनीयस्य सत्कर्म प्रतीत्य द्विविधानि रसस्पर्ध कानि / तद्यथा-देशघातीनि, सर्वघातीनि च / तत्र यानि देशघातीनि स्पर्घकानि एक स्थानक रसोपेतानि द्वि