________________ संकम 20 - अभिधानराजेन्द्रः - भाग 7 संकम मोहे' ति मोहे मोहनीयेऽजघन्यः स्थितिसंक्रमश्चतुर्विधः / तद्यथासादिरनादिधुंवोऽध्रुवश्च / तथाहि-मोहनीयस्य जघन्यः स्थितिसंक्रमः सूक्ष्मसंपरायस्य क्षपकस्य समयाधिकावलिकायां शेषायां स्थिती, ततोऽसौ सादिरध्रुवश्च / तस्माच्च जघन्यादन्यः सर्वोऽप्यजघन्यः। स च क्षायिकसम्यग्दृष्टरूपशान्तमोहगुणस्थानके न भवति, ततः प्रतिपाते च भवति, ततोऽसौ सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, अध्रुवध्रुवौ भव्याभव्यापेक्षया / शेषविकल्पा उत्कृष्टानुत्कृष्टजघन्यलक्षणास्तेषां कर्मणां संक्रमे संक्रमविषये द्विविकल्पा भवन्ति। तद्यथा-स्रादयोऽधुवाश्च / तथाहि-यएवोत्कृष्टां स्थिति वध्नाति स एवोत्कृष्ट स्थितिसंक्रमं करोति, उत्कृष्टांच स्थिति बध्नाति उत्कृष्ट संक्लेशे वर्तमानः। न चोत्कृष्टः सल्केशः सर्वदैव लभ्यते, किं त्वन्तराऽन्तरा, शेषकालं त्वनुत्कृष्टः। तत एतौ द्वावपि साद्यध्रुवौ / जघन्यश्च साद्यधुवः प्रागेव भावितः। ___ सम्प्रत्युत्तरप्रकृतीनां साद्यनादिप्ररूपणार्थमाहधुवसंतकम्मिगाणं, तिहा चउद्धा चरित्तमोहाणं। अजहन्नो सेसेसुय, दुहेतरासिंच सव्वत्थ॥३७।। 'धुव' त्ति-ध्रुवं सत्कर्म यासांता ध्रुवसत्कर्मिकास्त्रिंशदुत्तरशतसंख्याः / तथाहि-नरकद्विकमनुजद्विकदेवद्विकवैक्रियसप्तकाहारकसप्तकतीर्थकरनामसम्यक्त्वसम्यग्मिथ्यात्वोच्चैर्गोत्रायुश्चतुष्टयलक्षणा अष्टाविंशतिसंख्या अध्रुवसत्कर्मिकाः प्रकृतयस्ता अष्टापञ्चाशदधिकात् शतादपनीयन्ते। ततः शेषं त्रिंशदुत्तरमेव शतं ध्रुवसत्कर्मिकाणां भवति। तस्मादपि चारित्रमोहनीयप्रकृतयः पञ्चविंशतिसंख्या अपनीयन्ते, तासा पृथग्वक्ष्यमाणत्वात्। ततः शेषस्य पञ्चोत्तरशतस्य स्वखक्षपणपर्यवसाने जघन्यः स्थितिसक्रमो भवति स च सादिरध्रुवश्च ततोऽन्यः सर्वोऽप्यजघन्यः / स चाऽनादिः, अध्रुवध्रुवी भव्याभव्यापेक्षया / चारित्रमोहनीयप्रकृतीनां पञ्चविंशतिसंख्यानामजघन्यः स्थितिसंक्रमश्चतुर्धा। तद्यथासादिरनादिधुवोऽधुवश्च / तथाहि-उपशमश्रेण्यामुपशान्तौ सत्यां संक्रमाभावः, उपशमश्रणितः प्रच्यवने न पुनरप्यजघन्यं स्थितिसंक्रममारभते, ततोऽसौ सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, अधुवधुवा भव्याऽभाव्यपेक्षया। 'सेसेसु य दुहा' शेषेषूत्कृष्टानुत्कृष्टजघन्येषु द्विधा प्ररूपणा कर्तव्या / तद्यथा-सा-दिरधुवश्च / तत्रोत्कृष्टानुत्कृष्टयार्यथा मूलप्रकृतिषु भावना कृता तथाऽत्रापि कर्त्तव्या। जघन्यस्थितिसंक्रमः स्वस्वक्षयावसरे प्राप्यते, ततोऽसौ सादिरध्रुवश्च / 'इयरासि' मित्यादि इतरासामधुवसत्कर्मणां पूर्वोक्तानामष्टाविंशतिसंख्याना सर्वत्रापि सर्वेष्वपि जघन्याजघन्योत्कृष्टानुत्कृष्षु द्विधा प्ररूपणा कर्तव्या। तद्यथासादिरध्रुवश्च / सा च साद्यध्रुवताऽध्रुवसत्कर्मत्वादेव परिभावनीया। सम्प्रति क्रमप्राप्त स्वामित्वमभिधानीयम् / तच द्वेधाउत्कृष्टस्थितिसंक्रमस्वामित्वं जघन्यस्थितिसंक्रमस्वामित्वं च। तत्रोत्कृष्टस्थितिसक्रमस्वामित्वं प्रतिपिपादयिषुराहबंधाओ उक्कोसो, जासिं गंतूण आलिगं परओ। उक्कोससामिओ सं-कमाउ जासिं दुगं तासिं // 38|| 'बंधाओ' त्ति-यासां प्रकृतीनां बन्धात्-बन्धनात् उत्कृष्टस्थितिबन्धी भवति तासां ते एवोत्कृष्टस्थितिबन्धका देवनैरयिकतिर्यड् मनुष्याः / 'गंतुण आलिगं परओ' त्ति बन्धाऽऽवलिकां गत्वा-अतिक्रम्य परतः बन्धावलिकायामतीतायामित्यर्थः / उत्कृष्ट-स्वामिनः उत्कृष्टस्थितिसंक्रामस्वामिन उत्कृष्टां स्थिति संक्रमयन्तीत्यर्थः / यासां पुनः प्रकृतीनामुत्कृष्टा स्थितिः संक्रमेण प्राप्यते तासां द्विक बन्धादलिकासंक्रमावलिकालक्षणं गत्वाऽतिक्रम्य परत उत्कृष्टस्वामिनः, बन्धावलिकासक्रमावलिकयोरतीतयोरुत्कृष्टस्थितिसंक्रमस्वामिनो भवन्तीत्यर्थः / सम्यक्त्वसम्यग्मिथ्यात्वयोरुत्कृष्टस्थितिसंक्रमस्वामिनमाहतस्संतकम्मिगो बं-धिऊण उक्कोसगं मुहुत्तंतो। सम्मत्तमीसगाणं, आवलिया सुद्धदिट्ठी उ॥३६।। 'तस्संतकम्भिगो' त्ति-तत्सत्कर्मा-सम्यक्त्वसम्यग्मिथ्यात्वसत्कमा मिथ्यादृष्टिरूत्कृष्टां स्थिति सप्ततिसागरोपमकोटीकोटीप्रमाण बद्ध्वा ततोऽन्तर्मुहूर्तादनन्तरं मिथ्यात्वात् प्रतिपत्य सम्यक्त्वं प्रतिपद्यते ततोऽसौ शुद्धदृष्टिः / सम्यग्दृष्टिरन्तर्मुहूर्तानामुत्कृष्टां मिथ्यात्वस्थिति सम्यक्त्वसम्यग्मिथ्यात्वयोः संक्रमयति ततः संक्रमावलिकायामतीतायामुदयावलिकात उपरितनी सम्यक्त्वस्थितिमपवर्तनाकरणेन स्वस्थाने संक्रमयति / सम्यग्मिथ्यात्वस्थितिमपि संक्रमावलिकायामतीतायामुदयावलिकात उपरितनीसम्यक्त्वे संक्रमयति, अपवर्तयति च / तत एवं तिसृणामपि दर्शनमोहनीयप्रकृतीनामुकृष्टस्थितिसंक्रमस्वामी सम्यग्दृष्टिरेवेति। तदेवमुक्त उत्कृष्टस्थितिसंक्रमस्वामी, संप्रति जघन्यस्थि तिसंक्रमस्वामिनमाहदंसणचउक्कविग्धा-वरणं समयाहिमालिगा छउमो। निदाणावलिगदुगे, आवलियअसंखतमसेसे॥४०॥ 'दसण' त्ति-चक्षुरचक्षुरवधिके वलदर्शनावरणीयानां 'विग्घ' ति पञ्चानामन्तरायप्रकृतीनां पञ्चानां च ज्ञानावरणीयप्रकृतीनां जघन्यस्थितिसंक्रमस्वामी 'छउमो' त्ति क्षीणकषायवीतरागच्छदास्थः स्वगुणस्थानकस्य समयाधिकावलिकाशेषे वर्तमानः / तथा निद्रयोनिद्राप्रचलयोः स एव क्षीणकषायवीतरागच्छद्मस्थो द्वयोरावलिकयो शेषयोस्तृतीयस्याश्वावलिकाया असंख्येयतमे भागे शेषो वर्तमानो जघन्यस्थितिसंक्रमस्वामी भवति। वेदकसम्यक्त्वस्य जघन्यस्थितिसंक्रमस्वामिनमाहसमयाहिगालिगाए, सेसाए वेयगस्स कयकरणे। सक्खवगचरमखंडग, संछुभणा दिट्ठिमोहाणं / / 41 / / 'समय' त्ति-दर्शनमोननीयक्षपको मनुष्यो जघन्यतोऽपि वर्षाष्टकादुपरि वर्तमानो मिथ्यात्वसम्यग्मिथ्यात्वेक्षपयित्वा सम्यक्त्वच सर्वापवर्तनयाऽपवर्त्य सम्यक्त्वं वेदयमानस्ततः सम्यक्त्वे क्षपितशेषे सति कश्चिचतसृणां गतीनामन्यतमस्यां गतौ प्रयाति / ततश्चतुर्गतिकानामन्यतमः सम्यक्त्वस्य समयाधिकावलिकाशेषायां स्थितौ वर्तमानः 'कयक