________________ संकम 19 - अभिधानराजेन्द्रः - भाग 7 संकम पायामिति। सम्प्रति थासा परप्रकृतिषु संभवी जघन्यस्थितिसंक्रमस्ताः प्रतिपादयति- 'हासच्छक्के' इत्यादि, हास्येनोपलक्षितं षट्क हास्यषट्क हास्यरत्यरतिभयशोकजुगुप्सालक्षण, तस्य क्षपकेणापवर्तनाकरणेन संख्येयवर्षप्रमाणा स्थितिः कृता।ततः सास्वनिर्लेपनावसरे संज्वलनक्रोधे प्रक्षिप्यमाणा जघन्यः स्थितिसंक्रमः। सोणमुहुत्ता जट्टिइ, जहन्नबंधो उपुरिससंजलने। जट्ठिइसगऊँणजुत्तो, आवलिगदुगूणओ तत्तो॥३४॥ 'सोणमुहुत्त' त्ति-संक्रमणकाले सैव संख्येयवर्षप्रमाणा स्थितिः सोनमुहूर्ता-अन्तर्मुहूर्तेनाभ्यध्रिका यत्स्थितिः सर्वा स्थितिः। तथाहिअन्तरकरणे वर्तमानस्ता संख्येयवर्षप्रमाणां स्थिति संज्वलनक्रोधे संक्रमयति, अन्तरकरणे च कर्मदलिकंन वि (वे) द्यते, किंतु-ततऊर्ध्वम्, ततोऽन्तरकरणकाल नाभ्यधिका संख्येयवर्षप्रमाणा स्थितिहास्यषट्कस्य जघन्यस्थितिसंक्रमकाले यस्थितिः / 'जहन्नबंधो' इत्यादि, पुरूषवेदस्य संज्वलनानां च यो जघन्यः स्थितिबन्धः प्रागुक्तः। तद्यथापुरूषवेदस्याष्टौ संवत्सराणि, संज्वलनक्रोधस्य मासद्वयं, संज्वलनमानस्य मा-सः, संज्वलनमायाया अर्धमासः, स एव जघन्यः स्थितिबन्धोऽबाधाकालोनस्तेषां जधन्यःस्थितिसंक्रमः अबाधारहिता हि स्थितिरन्यत्र संक्रामति, तत्रैव कर्मदलिकसंभवात्, 'अबाधाका-लोना कर्मस्थितिः कर्मनिषेकः' इति वचनात्, जघन्यस्थितिबन्धे चाऽबाधाऽन्तर्मुहूर्तप्रमाणा। न च जघन्यस्थितिसंक्रमणकाले-ऽबाधाकालमध्ये प्राग्बद्धं सत्कर्म प्राप्यते, तस्य तदानीं सर्वस्याऽपि क्षीणत्वात्। ततोऽन्तमुहूर्तहीन एवैतेषां पुरूषवेदादीनां स्वखो जघन्यस्थितिबन्धो जघन्यस्थितिसंक्रमः, तदानी चैतेषां यस्थितिः सर्वा स्थितिः खकीयेनोनेनाबाधारूपान्तर्मुहूर्तलक्षणेन युक्तोऽबाधाकालसहित इत्यर्थः, जघन्यः स्थितिबन्धः / ततः पुनरप्यावलिकाद्विकेनोनो हीनः सन् द्रष्टव्यः / एतदुक्तं भवति-जघन्यस्थितिसंक्रमऽबाधाकालःप्रक्षिप्यते। तत्प्रक्षेपानन्तरं चावलिकाद्विकं ततोऽपसार्यते / तदुत्सारणे च कृते यावती स्थितिर्भवति, एतावती जघन्यस्थितिसंक्रमकाले सर्वा स्थितिः। आवलिकाद्विक करमादुत्सार्यत इति चेदुच्यते-बन्धव्यवच्छेदानन्तर बन्धावलिकायामतीतायां चरमसमयबद्धाः पुरूषवेदादिप्रकृतिलताः संक्रमयितुमारब्धाः / आवलिकामात्रेण च कालेन ताः संक्रम्यन्ते, सक्रमावलिकाचरमसमये च जघन्यः स्थितिसंक्रमः प्राप्यते / ततो बन्धावलिकासक्रमावलिकारहित एवाबाधासहितो जघन्यः स्थितिबन्धो जघन्यस्थिति-संक्रमकाले सर्वास्थितिः। सम्प्रति केवलिसत्कर्मणा जघन्यस्थितिसंक्रमप्ररूपणा __ र्थमाहजोगंतियाण अंतो, मुहुत्तिओ सेसयाण पल्लस्स। भागो असंखियतमो, जद्विइगो आलिगाइ सह // 35 / / 'जोगतियाण' त्ति-योगिनि-सयोगिकेवलिनि संक्रममाश्रित्यान्तःपर्यन्तो यासां ता योग्यन्तिकाः नरकद्विकतिर्यग्द्विकपञ्चेन्द्रियजाति- | वर्जशेषजातिचतुष्टयस्थावरसूक्ष्मसाधारणातपोद्द्योतवर्जाः शेषा नाम्रो नवतिप्रकृत्यः सातासातवेदनीयोचैर्गोत्रनीचैर्गोत्राणि / एतासां सयौगिकेवलिचरमसमये सर्वापवर्तनयाऽऽन्तमुहूर्तिकी स्थितिर्भवति / सा चापवर्त्यमाना उदयावलिकारहिता, जघन्यस्थितिसंक्रमः उदयावलिकासकलकरणायोग्येति कृत्वा नापवर्त्यते, तया चावलिकया सहिता अपवर्तनारूपजघन्यस्थिातसंक्रमकाले तासा यस्थितिः / नन्वासा प्रकृतीनामयोगिकेवलिनि समयाधिकावलिकाशेषायां स्थितौ वर्तमानो जघन्यः स्थितिसंक्रमःकरमान्नाभिधीयते, क्षीणकषाय इव मतिज्ञानावरणीयादीनामिति? उच्यते-अयोगिकेवली भगवान् सक-लसूक्ष्मबादरयोगप्रयोगरहितो मेरूरिव निष्प्रकम्पो नैकमप्यष्टानां करणाना मध्ये करणं प्रवर्तयति, नित्क्रियत्वात् / केवलमुदयप्राप्तानि वेदयते / ततः सयोगिकेवलिन एवैतासां जघन्यः स्थितिसंक्रमः प्राप्यते। 'सेससियाणे' त्यादि उक्तशेषाणां प्रकृतीनां स्त्यानर्द्धित्रिकमिथ्यात्वसम्यग्मिथ्यात्वानन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणनपुंसकस्त्रीवेदनरकद्विकतिर्यग्द्विकपचेन्द्रियजातिवर्जशेषजातिचतुष्टयस्थावरसूक्ष्मातपोद्योतसाधारणलक्षणानां द्वात्रिंशत्प्रकृतीनामात्मीयात्मीयक्षपणकाले यश्चरमः संक्षोभः पल्योपमासंख्येयभागमात्रः स जघन्यः स्थितिसंक्रमः / यस्थितिकस्तु सर्वस्थितियुक्तस्तु स एवावलिकया सह युक्तो वेदितव्यः / अयमिह सम्प्रदायः-स्त्रीनपुरसकवेदवर्जानां प्रकृतीनामेकामधस्तादावलिका मुक्त्वा शेषमुपरितनं पल्योपमासंख्येयभागमात्रं चरमखण्डमन्यत्र संक्रमयति / ततस्तासां जघन्यस्थितिसंक्रमकाले यत्स्थितिः स एव जधन्यस्थितिसंक्रमः आवलिकयाऽयधिको वेदितव्यः / स्त्रीनपुंसकवेदयोस्त्वन्तर्मुहूर्तेनाभ्यधिको यतस्तयोश्चरम स्थितिखण्डमन्तरकरणे स्थितः सन् संक्रमयति। अन्तरकरणे च कर्मदलिकं न वि (वे) द्यते, किं तु-तत ऊर्द्धन, अन्तरकरणं चान्तर्मुहूर्तप्रमाणम्। ततोऽन्तर्मुहूर्तयुक्ता जघन्यस्थितिसंक्रमस्तयोर्यत्स्थितिरवसे यां / शेषाणां तु प्रकृतीनामन्तरकरण न भवति, ततस्तासामावलिकायुक्त एव यस्थितिः। तदेवमुक्त जधन्यस्थितिसंक्रमपरिमाणम्। सम्प्रति साधनादिप्ररूपणावसरः / सा च द्विधा मूलप्रकृतीनामुत्तरप्रकृतीनां च / तत्र मूलप्रकृतीनां साद्यनादिप्ररूपणार्थमाहमूलठिई अजहन्नो, सत्तण्ह तिहा चऊव्विहो मोहे / सेसविगप्पा तेसिं, दुविगप्पा संकमे होंति // 36 // 'मूलठिइ' त्ति-इह जघन्यादन्यत्सर्वमजघन्यं यावदुष्कृष्टम् / उत्कृष्टादन्यत्सर्वमपि यावजघन्य तावदनुत्कृष्टम् / तत्र मोहनीयवर्जानां सप्ताना कर्मणामजघन्यस्थितिसंक्रमस्त्रिधा। तद्यथा-अनादिधुवोऽध्रुवश्च। तथाहिज्ञानावरणदर्शनावरणान्तरायाणां क्षीणकषायस्य समयाधिकावलिकाशेषायां स्थितौ वर्तमानस्य जघन्यः स्थितिसक्रमो भवति। नामगोत्रवेदनीयायुषां तु सयोगिकेवलिचरमसमयेऽन्तर्मुहूर्तप्रमाणे आवलिकारहितो जघन्यः स्थितिसंक्रमः। स च सादिरध्रुवश्वा तस्मादन्यः सर्वोऽपि स्थितिसंक्रमोऽजघन्यः। सचानादिःध्रुवोऽभट्यानां भव्यानामध्रुवः। चउब्यिहो