________________ संकम 18 - अभिधानराजेन्द्रः - भाग 7 संकम इयमत्र भावना-दर्शनमोहनीयत्रितयसत्कर्मा मिथ्यादृष्टिरूत्कृष्ट संक्लेशे वर्तमानो मिथ्यात्वस्योत्कृष्टां स्थिति बद्ध्वा ततोऽन्तर्मुहूर्तमात्रानन्तरं मिथ्यात्वात् प्रतिपत्त्य विशुद्धिमासादयन् सम्यक्त्वं प्रतिपद्यते / ततो मिथ्यात्वस्योतकृष्टां स्थिति सप्ततिसागरोपमकोटीकोटीप्रमाणामन्तमुहूर्तानां सम्यक्त्वे सम्यग्मिथ्यात्वे च संक्रमयति / सा च संक्रान्ता सती संक्रमावलिकायामतीतायामुदयावलिकात उपरितनी सम्यक्त्वस्थितिमपवर्तनाकरणेन स्वस्थाने संक्रमयति। सम्यग्मिथ्यात्वस्थितिमपि संक्रमावलिकायामतीतायामुदयावलिकात उपरितनी सम्यक्त्वे संक्रमयति अपवर्तयति च। तदेवं मिथ्यात्वस्यान्तर्मुहूर्तानः सम्यक्त्वसम्यग्मिथ्यात्वयोस्त्वन्तर्मुहूर्तावलिकाद्विकहीन उत्कृष्टः स्थितिसंक्रमः इह तीर्थकरस्याहारक सप्तकस्य चोत्कृष्टः स्थितिबन्धा - ऽन्तःसागरोपमकोटीकोटीप्रमाणःसत्कर्माऽप्येतेषामन्तःसागरापमकोटीकोटीप्रमाणमेव, ततः संशयः-किमेताःसंक्रमोत्कृष्टा उत बन्धोत्कृष्टा इति, तदपनोदार्थमाह- 'अंतो कोडाकोडी' त्यादि आहारके आहारकसप्तके तीर्थकरे च संक्रमतः स्थितिसत्कर्म अन्तःसागरोपमकोटीकोटी, अत एताः संक्रमोत्कृष्टाः। यद्यपिच बन्धेऽप्यन्तःसागरोपमकोटीकोटीप्रमाणं स्थितिसत्कर्माभिहितं, तथाऽपि बन्धोत्कृष्टायाः स्थितेः सकाशात् संक्रमोत्कृष्टा स्थितिः संख्येयगुणा द्रष्टव्या। उक्त च चूर्णो - "बंधढिईओ संतकम्मट्टिई संखिजगुणा" / ननुनामकर्मण उत्कृष्टा स्थितिर्विशतिसागरोपमकोटीकोटीप्रमाणा तत आहारके तीर्थकरे च संक्रमादुत्कृष्टा स्थितिः प्राप्यमाणा बन्धावलिकोदयावलिकारहिता विंशतिसागरोपमकोटीकोटीप्रमाणैव लभ्यते, कथमुच्यते तीर्थकराहारकयोः संक्रमतोऽप्युत्कृष्टा स्थितिरन्तःसागरोपमकोटीकोटीप्रमाणेति ? तद-युक्तमभिप्रायापरिज्ञानात् / तथाहि-तीर्थकराहारकयोः प्रकृत्यन्तरस्य स्थितिः संक्रामति बन्धकाले नान्यदा, बन्धश्चानयोर्यथाक्रमं विशुद्ध-सम्यगदृष्टः संयतस्य च। विशुद्धसम्यगदृष्टीनां संयतानां च स्थितिसत्कर्म सर्वेषामपि कर्मणामायुर्वर्जानामन्तः सागरोपमकोटीकोटीप्रमाणं नाधिकम् / ततः संक्रमोऽप्येतावन्मात्र एव प्राप्यते नाधिक इत्यदोषः। सम्प्रति सर्वासां प्रकृतीनां बन्धोत्कृष्टानां संक्रमोत्कृष्टानां वा संक्रमणकाले यावती स्थितिः प्राप्यते तावतीं निर्दिदिक्षुराहसव्वासिं जट्ठिइगो, सावलिगो सो अहाउगाणं तु। बंधुक्कोसुक्कोसो, साबाहठिईए जट्ठिइगो॥३१॥ 'सवासिं' ति-सर्वासां प्रकृतीनां संक्रमो यस्थितिक संक्रमणकाले या स्थितिर्विद्यते सा यत्स्थितिरित्युच्यते। सा यस्य संक्रमस्यास्ति स संक्रमो यत्स्थितिकः / या स्थितिर्विद्यते यस्याऽसौ इति बहुव्रीहिसमासाश्रयणात् / सावलिक आवलिकया सहितो द्रष्टव्यः / एतदुक्तं भवति-यःप्रागुक्तःसंक्रमः स आवलिकया सहितः सन यावान भवति तावती संक्रमकाले स्थितिरित्यर्थः / ततो बन्धोत्कृष्टानामावलिकाहीना, संक्रमोत्कृष्टानां त्वावलिकाद्विकहीना संक्रमकाल सर्वा स्थितिर्वेदितव्या। तथाहि-संक्लेशादिकारणवशत उत्कृष्टां स्थिति बद्धवा बन्धावलिकायामतीतायामुदयावलिकात उपरितनी स्थितिमन्यत्र प्रकृत्यन्तरे संक्रमयितुमारभते। ततो बन्धोत्कृश्टानामेकावलिकाहीना संक्रमकाले सर्वा स्थितिः प्राप्यते। संक्रमोत्कृष्टानां पुनर्बन्धावलिकानां संक्रमावलिकयोरतीतयोरुदयावलिकातः परतो वर्तमान स्थितिमन्यत्र संक्रमयति / तेन संक्रमोत्कृष्टानामावलिकाद्विकहीना संक्रमकाले सर्वा स्थितिरवाप्यते / अथायुषामुत्कृष्ट स्थितिः किं बन्धोत्कृष्टा उत संक्रमोत्कृष्टा ? उच्यते-बन्धोत्कृष्ट्वा तथा चाह-'अहाउगाण' मित्यादि आयुषामुत्कृष्टः स्थितिसंभवो बन्धोत्कृष्ट एव न संक्रमोत्कृष्टः, यतोनायुषा परस्परं संक्रमः “मोहदुगाउग-मूलप्पगडीणनपरोप्परम्मिसकमणं" इति वचनात् / 'साबाह-ठिईए' इत्यादि आयुषां साबाधा अबाधसहिता या सर्वा स्थितिः सा यत्स्थितिरवगन्तव्या। केवल "बंधुक्कोसाणं आवलिगूणा ठिई जट्टिई” इति वचनात् बन्धावलिकोना द्रष्टव्या / तथाहि-आयुर्घन्धे प्रवर्तमान एव प्रथमसमये यद्वद्धं दलिकं तद्न्धावलिकातीतं सदुद्वर्तयति / तत उद्भर्तनारूपसंक्रमे बन्धावलिकोना साबाधा यत्स्थितिः प्राप्यते। अथवा-अपवर्तनाऽपि नियाघातभाविन्यायुषो बन्धावलिकायामतीतायां सर्वदैव प्रवर्तते। ततस्तामधिकृत्य यथोक्ता यत्स्थितिरवसेया। तदेवमुक्तमुत्कृष्टस्थितिसंक्रमपरिमाणम्। सम्प्रति जघन्यस्थितिसंक्रमपरिमाणप्रतिपादनावसरः / जघन्यस्थितिसंक्रमश्च द्विधा-स्वप्रकृती परप्रकृतौ च / तत्र स्यप्रकृती जघन्य स्थितिसंक्रमप्रतिपादनार्थमाहआवरणविधिदसण, चउक्कलोभंतवेयगाऊणं। एगा ठिई जहन्नो, जट्टिइ समयाहिगावलिया॥३२।। 'आवरण' त्ति-पश्चानां ज्ञानावरणीयप्रकृतीना 'विग्घत्ति पञ्चानागन्तरायप्रकृतीनां, चतसृणां दर्शनावरणीय प्रकृतीनां चक्षुरचक्षुरवधिके वलदर्शनावरणलक्षणानां, संज्वलनलोभस्य, वेदकसम्यक्त्वस्य, चतुर्णा चायुषा, सर्वसंख्यया विंशतिप्रकृतीनाम् आत्मीयात्मीयसत्ताव्यवच्छेदसमये समयाधिकावलिकाशेषायां स्थितावुदयावलिका सर्वकरणायोग्यति कृत्वोदयावलिकात उपरितनी समयमात्रा स्थितिरपवर्तनासंक्रमेणाधस्तेन उदयावलिकात्रिभागे समयाधिके संक्रामति, तदा च सर्वस्थितिपरिमाणं समयाधिकावलिका। तथा चाह- 'जट्टिई' इत्यादि। निदादुगस्स एक्का, आवलिगदुगं असंखभागो य। जट्ठिइहासच्छक्के, संखिजाओसमाओ य॥३३|| 'निह' त्ति निद्राद्विकस्य-निद्राप्रचलालक्षणस्य जघन्यःस्थिति-संक्रमः स्वसंक्रमान्ते स्वस्थितरूपरितनी एका समयमात्रा स्थितिः, सा आवलिकाया अधस्तेन त्रिभागे निक्षिप्यते। तदानीं च यत्स्थितिः सर्वा स्थितिः आवलिकाद्विकं तृतीयस्याश्चावलि-काया असंख्येयो भागः। अत्र वस्तुस्वभाव एष यन्निद्राद्विकस्यावलिकाऽसंख्येयभागाधिकाऽऽवलिकाद्विकशेषायां स्थितावुपरितनी समयमात्रैका स्थितिः संक्रामति, न पुनर्मतिज्ञानावरणीयादीनामिव समयाधिकायलिकाशे