________________ संकम 17 - अभिधानराजेन्द्रः - भाग 7 संकम स्य / उत्तरप्रकृतिस्थितिसक्रमोऽष्टपञ्चाशदधिकशतधा / तद्यथानतिज्ञानावरणीयस्य श्रुतज्ञानावरणीयस्य यावतीर्यान्तरायस्य। 'तदेवं मलुत्तरपगईउ' इत्यनेन भेद उक्तः / 'उवडिया व' इत्यादिना तु विशेषलक्षण त्रिप्रकारम् / तत्र कर्मपरमाणूनां हस्वस्थितिकालतामपहाय दीर्घकालतया व्यवस्थापनमुद्वर्तना। कर्मपरमाणूनामेव दीर्घस्थितिकालतामपहाय हस्वस्थितिकालतया व्यवस्थापनमपवर्तना। यत्पुनः संक्रम्यमाणप्रकृतिस्थितीनां पतद्ग्रहप्रकृतौ नीत्वा निवेशनं तत्प्रकृत्यन्तरनयनं, स्थितीनां चान्यत्र निवेशन स्थितियुक्तानां परमाणूनामवसेयम, स्थितेरन्यत्र नेतुमशक्यत्वात्। इदं च विशेषलक्षणं सामान्यलक्षणे सत्येवावगन्तव्यं, न सर्वथा तदपवादेन, तेन मूलप्रकृतीनां परस्पर संक्रमप्रतिषेधात्, तासामन्यप्रकृत्यन्तरनयनलक्षणः स्थितिसंक्रमो न भवति, किंतु-द्वावेव उद्वर्तनापवर्तनालक्षणौ संक्रमौ / उत्तरप्रकृतीनां तु त्रयोऽपि संक्रमा द्रष्टव्याः। तदेवं भेदविशेषलक्षणे प्रतिपाद्य संप्रत्युत्कृष्टस्थितिसंक्रमपरिमाणप्रतिपादनार्थमाहतीसासत्तरि चत्ता-लीसा वीसुदहिकोडिकोडीणं / जेट्ठा आलिगदुगहा, सेसाण वि आलिगतिगूणो ||26|| 'तीस' त्ति-इह सर्वासां प्रकृतीनां बन्धमाश्रित्योत्कृष्टा स्थितिः प्रागेव बन्धनकरणे प्रतिपादिता। अत्र पुनः संक्रमे उत्कृष्टा स्थितिश्चिन्त्युमाना द्विधा प्राप्यतेबन्धोत्कृष्टा, संक्रमोत्कृष्टा च। तत्रया बन्धादेवे केवलादुत्कृष्टा स्थितिलभ्यते सा बन्धोत्कृष्टा / या पुनर्बन्धेऽबन्धे वा सति संक्रमादुत्कृष्टा स्थितिर्भवति सा संक्रमोत्कृष्टा / तत्र यासामुत्तरप्रकृतीनां स्वस्वमूलप्रकृत्यपेक्षया स्थितेन्यूनता न भवति, किंतु-तुल्यतैव, ता बन्धोत्कृष्टा ज्ञातव्याः / ताः सप्तनवतिसंख्याः / तद्यथा-ज्ञानावरणपश्चकम्, दर्शनावरणनवकम्, अन्तरायपञ्चकम्, आयुश्चतुष्टयम्, असातवेदनीयम्, नरकद्विकम्, तिर्यग्द्विकम्, एकेन्द्रियजातिः, पञ्चेन्द्रियजातिः, तैजससप्तकम्, औदारिकसप्तकम्, वैक्रियसप्तकम, नीलतिक्तवर्जमशुभवर्णसप्तकम्, अगुरुलघु, पराघातम्, उपाघतम्, उच्छासाऽऽतपोद्द्योतानि, निर्माणम्, षष्ठं संस्थानम्, षष्ठ संहननम्, अशुभविहायोगतिः, स्थावरम्, सचतुष्कम्, अस्थिरषट्कम्. नीचैर्गोत्रम्, षोडश कषायाः, मिथ्यात्वं च। सर्वसंख्यया सप्तनवतिः / अत्र नरकतिर्यगायुषी यद्यपि स्वमूलप्रकृत्यपेक्षया तुल्यस्थितिके न भवतः, तथाऽपि संक्रमोत्कृष्टत्वाभावात्ते बन्धोत्कृष्ट उक्ते / शेषास्त्वेकषष्टिप्रकृतयः संक्रमोत्कृष्टाः / ताश्चेमाःसातवेदनीयम, सम्यक्त्वम्, सम्यग्मिथ्यात्वम्, नवनोकषायाः, आहारकसप्तकम्, शुभवधिकादशकम, नीलम, तिक्तम्, देवद्विकम्, मनुजद्विकम, द्वित्रिचतुरिन्द्रियजातयः, अन्तवानि संस्थानानि, अन्तवर्जानि संहननानि, प्रशस्तविहायोगतिः, सूक्ष्म, साधारणम, अपर्याप्तम्, स्थिरशुभसुभगसुखरादेययशः कीर्तितीर्थकरोच्चैर्गोत्राणि च। तत्र बन्धोत्कृष्टाना मतिज्ञानावरणीयादिमिथ्यात्वषोडशकषायनरकद्विकादीना यथाक्रम त्रिंशत्-सप्ततिचत्वारिंशविंशतिसागरोपमकोटीकोटीस्थितिकानां ज्येष्ठ उत्कृष्टः स्थितिसंक्रमः 'आ (व) लियद्गह' त्ति आवलिकाद्विकहीनः / तथाहि-स्थितिबद्धा सती बन्धावलिकायामतीतायां सत्यां संक्रामति। तत्राप्युदयावलिका सकलकरणायोग्येति कृत्वोदयावलिकात उपरितनी / ततो बन्धोत्कृष्टानां मतिज्ञानावरणीयानामुत्कृष्टः स्थितिसंक्रमो - बन्धावलिकाद्विकहीन एव प्राप्यते / इहो-दयवतीनामनुदयवतीनां वा प्रकृतीनामुदयसमयादारभ्यावलिकामात्रा स्थितिरूदयावलिकेति पूर्वग्रन्थेषु व्यवहियते। तथा यद्यपि 'तीसासत्तरिचत्तालीसा' इत्यनेन ग्रन्थेनेह मिथ्यात्वस्य सप्ततिसागरोपमकोटीकोटीस्थितिकस्योत्कृष्टतः स्थितिसक्रम आवलिका-द्विकहीन उक्तस्तथाऽप्यन्तर्मुहूर्तोमोऽवगन्तव्यः / यतो मिथ्यात्व-स्योत्कृष्टा स्थिति बवा जघन्यतोऽप्यन्तर्मुहूर्त कालं यावन्मिथ्यात्वे एवावतिष्ठते / ततः सम्यक्त्वं प्रतिपद्य मिथ्यात्वस्य स्थितिमन्तर्मुहूर्तानां सम्यक्त्वे सम्यग्मिथ्यात्वे च संक्रमयति।ततोऽन्तमुहूर्तान एवास्योत्कृष्टः स्थितिसक्रमः / वक्ष्यति च- 'मिच्छत्तमुक्कोसो' इत्यादि इह पुनर्यत् सत्तरीत्युपादानं तदशेषाणामपिबन्धोत्ष्टानां प्रकृतीनां व्याप्तिपुरः सरमविशेषेणावलिकाद्विकहीनोत्कृष्टस्थितिसंक्रमप्रदर्शनार्थम्। 'सेसाण वि आलिगतिगूणो' त्ति शेषाणां संक्रमोत्कृष्टानामावलिकात्रिकहीन उत्कृष्टः स्थितिसंक्रमः। तथाहि-बन्धावलिकायामतीतायां सत्यामावलिकात उपरितनी स्थितिः सर्वाऽप्यन्यत्र प्रकृत्यन्तरे आवलिकाया उपरि संक्रामति / तत्र च संक्रान्ता सती आवलिकामात्र काल यावत्सकलकरणायोग्येति कृत्वा संक्रमावलिकायामतीतायां सत्यामुदयावलिकात उपरितनी स्थितिस्ततोऽप्यन्यत्र प्रकृत्यन्तरे संक्रामति / ततः संक्रमोत्कृष्टानामुत्कृष्टः स्थितिसंक्रम आवलिकात्रिकहीन एव / तद्यथा-नरकद्विकस्य विंशतिसागरोपमकोटीकोटीप्रमाणामुत्कृष्टां स्थिति बडा बन्धावलिकायामतीतायां सत्यामावलिकात उपरितनी तां सर्वामपि स्थिति मनुजद्विकं बध्नन् तत्र मनुजद्विके संक्रमयति, तत्र च संक्रान्ता सती आवलिकामात्रं कालं यावत्सकलकरणायोग्येति कृत्वा संक्रमावलिकायामतिक्रान्तायां सत्यामुदयावलिकात उपरितनी ता सर्वामपि स्थितिं देवद्विक बध्नन् तत्र संक्रमयति / एवमन्यासामपि संक्रमोत्कृष्टानामुत्कृष्टः स्थितिसंक्रमः आवलिकात्रिकहीनो भावनीयः। तदेवं यासां प्रकृतीनां बन्धे सति संक्रमादुत्कृष्टा स्थितिर्भवति, तासामेव तत् उत्कृष्टस्थितिसक्रमपरिमाणमुक्तम्। सम्प्रति पुनर्यासा बन्धेन विना संक्रमादेव केवलादुत्कृष्टा स्थितिलभ्यते, तासामुत्कृष्टस्थितिसंक्रमप रिमाणनिरूपणार्थमाहमिच्छत्तस्सुक्कोसो, भिन्नमुहुत्तूणगो उसम्मत्ते। मिस्सेवंतो कोडा-कोडी आहारतित्थयरे // 30 / / 'मिच्छतस्स' ति-मिथ्यात्वस्योत्कृष्टः स्थितिसंक्रमो भिन्नमुहूर्तानोऽन्तमुहर्मोनस्तथा सम्यक्त्वे सम्यक्त्वस्य मिश्रे मिश्रस्य चोत्कृष्टः स्थितिसंक्रमो भिन्नमुहूर्तानः। तुशब्दस्याधिकार्थसंसूचनादावलिकाद्विकहीनश्च वेदितव्यः।