________________ संकम 16 - अभिधानराजेन्द्रः - भाग 7 संकम 'अट्ठावीसाए' त्ति अष्टाविंशतावपि तान्येव पूर्वोक्तानि यशीति युत्तरशतवर्जितानि शेषाणि व्युत्तरशतपणवतियानवतित्रिनवतिचतुरशीतिरूपाणि पञ्च संक्रमस्थानानि संक्रामन्ति / तत्र मिथ्यादृष्ट नरकगतिप्रायोग्यां नरकगतिनरकानुपूर्वीप क्षेन्द्रियजातिवैक्रि यशरीरव क्रि याङ्गोपाङ्ग हुण्ड संस्थानपराघाताच्छासाप्रशस्तविहायोगतित्रसबादरपर्याप्त प्रत्येकस्थिरास्थिरा-यतरशुभाशुभान्यतरदुर्भगदुःस्वरानादेयायशःकीर्तिवर्णादिचतुष्कागुरुलघूपघाततैजसकार्मणनिर्माणलक्षणा, तथा मिथ्यादृष्ट : सम्यगदृष्टवा देवगतिप्रायोग्यां तेजसकार्मणवर्णादिचतुष्कागुरुलघूपघातनिर्माणदेवगतिदेवानुपूर्वीपोन्द्रियजातिवं क्रियशरीरक्रियाद्गोपाङ्गसमचतुरस्त्रसंस्थानपराघातोच्छ्वासप्रशस्तविहायोगतित्रसबादरपर्याप्त प्रत्येक स्थिरास्थिरान्यतरशुभाशुभान्यतरसुभगसुखरादेययशः कीर्त्ययशःकीय॑न्यतरलक्षणामष्टाविंशति बनतो व्युत्तरशतसत्कर्मणो ट्युत्तरशतमष्टाविंशतिपतद्ग्रहे संक्रामति। तथा मनुष्यस्य तीर्थकरनामसत्कर्मणः पूर्वमेव नरके बद्धायुष्कस्य सतो नरकाभिमुखस्य सतो मिथ्यात्वं प्रपन्नस्य नरकगतिप्रायोग्यां पूर्वोक्तामष्टाविंशति बध्नतः षण्णवतिसत्कर्मणोऽष्टाविंशतिपत-द्ग्रहे षण्णवतिः संक्रामति / यथा व्युत्तरशतस्य भावना कृता तथा पञ्चनवतेरपि भावना कार्या केवलं व्युत्तरशतस्थाने पञ्चनवतिरित्युचारणीयम्। तथा मिथ्यादृष्टस्त्रिनवतिसत्कर्मणो देवगतिप्रायोग्यां पूर्वोक्तामष्टाविंशतिं बध्नतो वैक्रियसप्तकदेवगरिदेवानुपूर्वीणां बन्धावलिकायाः परतो वर्तमानस्य त्रिनवतिरष्टाविंशतौ संक्रामति / अथवा-पञ्चनवतिसत्कर्मणो देवगतिप्रायोग्यां पूर्वोक्तामेवाष्टाविंशति बनतो देवगतिदेवानुपूर्योन्या-वलिकाया अभ्यन्तरे वर्तमानस्य त्रिनवतिरष्टाविंशती संक्रामति। त्रिनवतिसकर्मणो मिथ्यादृष्टेनरकगतिप्रायोग्यां पूर्वोक्तामष्टाविंशति बध्नतो नरकगतिनरकानुपूर्वविक्रियसप्तकाना बन्धावलिकायाः परतो वर्तमानस्य त्रिनवतिरष्टाविंशतौ संक्रामति / अथवा पञ्चनवतिसत्कर्मणो मिथ्यादृष्टनरकगतिप्रायोग्यां पूर्वोक्तामष्टाविंशति बनतो नरकगतिनर कानुपूर्योबन्धावलिकाया अभ्यन्तरे वर्तमानस्य त्रिनवतिरष्टाविंशतौ संक्रामति। तथा त्रिनवतिसत्कर्मणो मिथ्यादृष्टदेवगतिप्रायोग्यामष्टाविंशति बध्नतो देवगतिदेवानुपूर्वीवक्रियसप्तकानां बन्धावलिकाया अभ्यन्तरे वर्तमानस्य चतुर-शीतिरष्टाविंशती संक्रामति। अथवा-त्रिनवतिसत्कर्मणो मिथ्यादृष्टेनरकगतिप्रायोग्या पूर्वोक्तामष्टाविंशतिं बनतो नरकगतिनरकानुपूर्वीवैक्रियसप्तकानां बन्धावलिकाया अभ्यन्तरे वर्तमानस्य चतुरशीतिरष्टाविंशतो संक्रामति / षड्विंशत्यादिपतद्ग्रहेषु संक्रमस्थानान्याह-'ते चिये' त्यादि शेषेषु षदिशतिपञ्चविंशतित्रयोविंशतिलक्षणेषु पतद्ग्रहेषु तान्येव पूर्वोक्तानि व्युत्तरशतादीनिषण्णवतिरहितानि द्वयशीतियुतानि पञ्च संक्रमस्थानानि संक्रामन्ति / तद्यथाव्युत्तरशतं पञ्चनवतिस्त्रिनवतिश्चतुरशीतिद्वर्यशीतिश्च। तत्रैकेन्द्रियादीना नैरयिकवर्जिताना व्युत्तरशतसत्कर्मणां पञ्चनवतिसत्कर्मणां च तैजस कार्मणागुरुलघूपघातनिर्माणवर्णादिचतुष्कैकोन्द्रियजातिहुण्डकसंस्थानौदारिकशरीरतिर्यग्गतितिर्यगानुपूर्वीस्थावर (बादर) पर्याप्त प्रत्येकस्थिरास्थिरान्यतरशुभाशुभान्यतर दुर्भगानादेयायश: कीर्तिपराघातोच्छासातपोद्योतान्यतररूपामेकेन्द्रियप्रायोग्यां षड्विंशति बध्नतां व्युत्तरशतं पञ्चनवतिश्च तस्यामेव षड्दिशतौ संक्रामति। तथा तेषामेवैकेन्द्रियादीनां देववर्जानां त्रिनवतिसत्कर्मणां देवनारकवर्जानां चतुरशीतिसत्कर्मणां च तामेव पूर्वोक्तां षदिशति बनतां त्रिनवतिश्चतुरशीतिश्च तस्यामेवषड्विंशतो संक्रामति / तथा तेषामेवैकेन्द्रियादीनां देवनारकमनुष्यवर्जानां द्व्यशीतिरात्कर्मणां तामेव पूर्वोक्तां षड्डिशतिं बध्नता द्व्यशीतिस्तस्यामेष षद्भिशतौ संक्रामति। तथा पञ्चविंशतिपतद्ग्रहे तान्येव पञ्च संक्रमस्थानानि चिन्त्यन्तेतत्रैकेन्द्रियपर्याप्तघ्रायोग्यां पूर्वोक्तामेव षड्विशतिमातपेनोद्द्योतेन वा रहितां पञ्चविंशति बध्नतामेकद्वित्रिचतुरन्द्रियादीनां व्युत्तरशतपश्चनवतित्रिनवतिचतुरशीतिद्व्यशीतिसत्कर्मणां यथासंख्यतस्याभेव पञ्चविंशतौ व्युत्तरशतं पञ्चनवतिः त्रिनवतिः चतुरशीतिः ट्यशीतिश्च संक्रामति। अथवा-अपर्याप्तविकलेन्द्रियतिर्यपञ्चेन्द्रियमनुजप्रायोग्या तैजसकार्मणवर्णा-दिचतुष्कागुरुलघूपघातनिर्माणद्वीन्द्रियाद्यन्यतमजातिहुण्डसंस्थानसेवार्तसंहननौदारिकशरीरौदारिकाङ्गोपाङ्ग - तिर्यग्गातितिर्यगानुपूर्वीत्रसबादरपर्याप्त प्रत्येकस्थिरास्थिरान्यतरशुभाशुभान्यतरदुर्भगानादेयायशःकीर्तिलक्षणां पञ्चविंशतिं बध्नतामेकद्वि-त्रिचतुःपञ्चेन्द्रियतिरश्चां व्युत्तरशतादिसत्कर्मणां पञ्चविंशतौ द्व्युत्तरशतादीनि पश संक्रमस्थानानि संक्रामन्ति / तथा पर्याप्तकै केन्द्रियप्रायोग्यां वर्णादिचतुष्कागुरुलघूपघातनिर्माणतैजसकार्मणहुण्डसंस्थानौदारिकशरीरैकोन्द्रयजातितिर्यग्गतितिर्यगानुपूर्वीबादरसूक्ष्मान्यतरस्थावरपर्याप्त प्रत्येकसाधारणान्यतरास्थिराशुभदुर्भगानादेयायशः कीर्तिलक्षणां त्रयोविंशति बनतामेकद्वित्रिचतुःपञ्चेन्द्रियतिरश्वां व्यत्तरशतपञ्चनवतित्रिनवतिचतुरशीतिद्व्यशीतिसत्कर्मणां यथासंख्य द्वयुत्तरशतादीनि पञ्च संक्रमस्थानानि संक्रामन्ति। तदेवमुक्तः प्रकृतिसंक्रमः / सम्प्रति स्थितिसंक्रमाभिधानावसरः। तत्र चैतेऽर्थाधिकाराः / तद्यथा-भेदो विशेषलक्षणम् उत्कृष्टस्थितिसंक्रमणप्रमाण जघन्यस्थितिसंक्रमप्रमाणं साद्यनादिप्ररूपणा स्वामित्वप्ररूपणा चेति। तत्र भेदविशेषलक्षणयोः प्रतिपादनार्थमाहठिइसंक्रमो त्ति वुधइ, मूलत्तरपगईउ य जा हि ठिई। उव्वट्टिया उ ओव-ट्टिया व पगई निया वswणं // 28 // 'ठिइ'त्ति-इह 'मूलत्तरपगईउ।' इत्यत्र षष्ट्यर्थे पञ्चमी / ततोऽयमर्थः-हि स्पुटं या स्थितिर्मूलप्रकृतीनामष्टसंख्यानामुत्तरप्रकृतीनां वाऽष्टपञ्चाशदधिकशतसख्यानां सम्बन्धिनी उद्वर्तिता हस्वीभूता सती दीर्धाकृता, अपवर्तिता वादी/भूता सती ह्रस्वीकृता, अन्यां वा प्रकृतिंनीता, पतद्ग्रहप्रकृतिस्थितिषु मध्ये नीत्वा निवेशिता स स्थितिसंक्रम उच्यते। एतदुक्तं भवति-द्विविधः स्थितिसक्रमो मूलप्रकृतिस्थितिसंक्रमः, उत्तरप्रकृतिस्थितिसंक्रमश्च / तत्र मूलप्रकृतिस्थिति संक्रमोऽष्टप्रकारः। तद्यथा-ज्ञानावरणीयस्य यावदन्तराय