________________ समाहि 428 - अभिधानराजेन्द्रः - भाग 7 समाहि तपःसमाधिनाऽपि विकृष्टतपसोऽपि न ग्लानिर्भवति तथा क्षुत् - ष्णादिपरीषहेभ्यो नोद्विजते, तथा अभ्यस्ताभ्यन्तरतपोध्यानाश्रितमनाः स निवार्णस्थ इव न सुखदुःखाभ्यां बाध्यत इत्येवं चतुर्विधभावसमाधिस्थः सम्यवचरणव्यवस्थितो भवति साधु-रिति। गतो नामन्निष्पन्नो निक्षेपः,साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेत सूत्रमुचरणीयं, तच्चेदम्आघं मईमं मणुवीय धम्म, अंजू समाहिं तमिणं सुणेह। अपडिन्न भिक्खू उसमाहिपत्ते, अणियाणभूतेसु परिव्वएज्जा / / 1 / / उड्ढे अहेयं तिरियं दिसासु, तसा य जे थावर जे य पाणा। हत्थेहिं पाएहिं य संजमित्ता, अदिनभन्नेसु य णो गहेज्जा / / 2 / / सुयक्खायधम्भे वितिगिच्छतिण्णे, लाढे चरे आयतुले पयासु। आयं न कुज्जा इह जीवियट्ठी, चयं न कुज्जा सुतवस्सि भिक्खू / / 3 / / सव्विंदियाभिनिव्वुडे पयासु, चरे मुणी सव्वतो विप्पमुक्के / पासहि पाणे य पुढो वि सत्ते, दुक्खेण अट्टे परितप्पमाणे ||4|| अस्य चायमनन्तरसूत्रेण सह सम्बन्धः,तद्यथा-अशेषगारवपरिहारेण मुनिर्निर्वाणमनुसन्धयेदित्येतद्भगवानुत्पन्नदिव्यज्ञानः समाख्यातवान् एतच्च वक्ष्यमाणमाख्यातवानिति, 'आध' ति-आख्यातवान् काऽसौ?-मतिमान्-मननं मतिः-समस्तपदार्थ-परिज्ञानं तद् विद्यते यस्यासौ मतिमान् केवलज्ञानीत्यर्थः, तत्रा--सधारणविशेषणोपादानात्तीर्थकृद् गृह्यते, असावपि प्रत्यासत्ते–वीरवर्द्धमानस्वामी गृह्यते, किमाख्यातवान् ? धर्म-श्रुतचारित्रा-ख्यं, कथम्? अनुविचिन्त्यकेवलज्ञानेन ज्ञात्वाप्रज्ञापनायो-ग्यान पदार्थानाश्रित्य धर्म भाषते, यदि वाग्राहकमनुविचिन्त्य कस्यार्थस्यायं ग्रहणसमर्थः? तथाकोऽयं पुरुषः? कञ्च नतः? किं वा दर्शनमापन्नः? इत्येवं पर्यालोच्य, धर्मशुश्रूषको वा मन्य-न्ते, यथा-प्रत्येकमरमदभिप्रायनुविचिन्त्य भगवान् धर्म भाषते, युगपत्सर्वेषां स्वभाषापरिणत्या संशयापगमादिति, किं भूतं धर्म भाषते? ऋजुम्-अवक्र यथावस्थितवस्तुस्वरूपतिरूपणतो, न यथाशाक्याः सर्व क्षणिकाभ्युदगम्य कृतनाशाकृताभ्यागमदोष-भयात्सन्तानाभ्युपगम कृतवन्तः, तथा वनस्पतिमचेतत्वेनाभ्यु-पगम्य स्वयं न छिन्दन्ति तच्छेदनादावुपदेशं तु ददति, तथा कार्षापणादिक हिरण्यं स्वतो न स्पृशन्ति अपरेण तु तत्परिग्रहतः क्रयविक्रय कारयन्ति, तथा सांख्याः सर्वमप्रच्युतानुत्पन्न स्थिरैकस्वभाव नित्यमभ्युपगम्य कर्मबन्धमोक्षाभावप्रसङ्ग दोषभयादाविर्भावतिरोभावावाश्रितवन्त इत्यादिकौटिल्य भावपरिहा-रेणावळं तथ्यं धर्ममाख्यातवान्, तथा सम्यगाधीयते-मोक्ष सन्मार्ग वा प्रत्यात्मा योग्यः क्रियते-व्यवस्थाप्यते येन धर्मेणासी धर्मः समाधिस्तं समाख्यातवान् / यदिवा- धर्ममाख्यातवाँस्तत्समाधि च धर्मध्यानादिकमिति / सुधर्मस्वाभ्याह-तमिर्म-धर्म समाधि वा भगवदुपदिष्टं शृणुत यूयम्। तद्यथा न विद्यते ऐहिकामुष्मिकरूपा प्रतिज्ञाआकाङ्गा तपोऽनुष्ठानं कुर्वतो यस्यासावप्रतिज्ञो, भिक्षणशीलो भिक्षुः तुर्विशेषणे भावभिक्षुः, असावेव परमार्थतः साधुः, धर्म धर्मसमाधि च प्राप्तोऽसावेवेति। ('अणियाणभूतेसु परिव्व-एजा' अस्य पदस्य व्याख्या 'अणिदाणभूय' शब्दे प्रथमभागे 334 पृष्ठे गता।) तथा प्राणातिपातादीनि तु कर्मणो निदानानि वर्तन्ते, प्राणातिपातोऽपि द्रव्यक्षेत्रकालभावभेदाचतुर्धा / तच क्षेत्रप्राणा-तिपातमधिकृत्याह-सर्वोऽपि प्राणातिपातः क्रियमाणः प्रज्ञाप-कापेक्षयोर्ध्व मधस्तिर्यक क्रियते। यदिवाऊवधिस्तिर्यग्रूपेषु त्रिषु लोकेषु तथा प्राच्यादिषु दिक्षु विदिक्षु चेति, द्रव्यप्राणाति-पातस्त्वयंत्रस्यन्तीति त्रसा-द्वीन्द्रियादयो ये च स्थावराः पृथि-व्यादयः, चकारः स्वगतभेदसंसूचनार्थः, कालप्राणातिपातसंसूचनार्थो वा दिवा रात्रौ वा प्राणाः-प्राणिनः, भावप्राणातिपातं त्वाहएतान् प्रागुक्तान प्राणिनो हस्तपादाभ्यां संयम्य--बद्धा उपलक्षणार्थत्वादरयान्यथा वा कदर्थयित्वा यत्तेषां दुःखोत्पादन तन्न कुर्यात्। यदिवाएतान प्राणिनो हस्तौ पादौ च संयतकायः सन्न हिंस्यात् / चशब्दादुच्छासनिः श्वासकासितक्षुतवातनिस-गर्गादिषु सर्वत्र मनोवाकायकर्मसु सयतो भवन् भावसमाधिमनुपा-लयेत्। तथा परैरदत्त न गृह्णीयादिति तृतीयव्रतोपन्यासः, अदत्तादाननिषेधाच्चार्थतः परिग्रहो निषिद्धो भवति, नापरिगृही-तमासेव्यत इति मैथुननिषेधोऽप्युक्तः। समस्तव्रतसम्यक्पाल-नोपदेशाच्च मृषावादोऽप्यर्थतो निरस्त इति॥ ज्ञानदर्शनसमाधिमधिकृत्याह- सुष्ठाख्यातः श्रुतचारित्राख्यो धर्मो येन साधुना-ऽसौ स्वख्यातधर्मा, अनेन ज्ञानसमाधिरुक्तो भवति, न हि वि-शिष्टपरिज्ञानमन्तरेण स्वाख्यातधर्मत्वमुपपद्यत इति भावः / तथा विचिकित्साचित्तविप्लुतिर्विद्वज्जुगुप्सा वा तां (वि] तीर्णः- अतिक्रान्तः 'तदेव च निःशङ्क यज्जिनः प्रवेदित' मित्येवं निःशङ्कतया नक्वचिचित्तविप्लुतिं विधत्त इत्यनेन दर्शनसमाधिः प्रतिपादितो भवति, येन केनचित्प्रासुकाहारीपकरणादिगतेन विधिनाऽऽत्मानं यापयति-पालयतीति लाढः,स एवम्भूतः संयमानुष्ठानं चरेद्-अनुतिष्ठेत, तथा प्रजायन्त इति प्रजाःपृथिव्यादयो जन्तवस्तास्वात्मातुल्यः, आत्मवत्त्सर्वप्राणिनः पश्यतीत्यर्थः एवम्भूत एव भावसाधुर्भवतीति / तथा चोक्तम्- “जह मम ण पियं दुक्ख, जाणिय एमेव सव्वजीवाणं / ण हणेइण हणावेइय, सममणई तेण सो समणो // 1 // " यथा च ममाऽऽक्रुश्यमानस्या-भ्याख्यायमानस्य वा दुःखमुत्पद्यते एवमन्येषामपीत्येवं मत्वा प्रजास्वात्मसमो भवति / तथा इहासंयमजीवितार्थी प्रभूतं कालं सुखेन जीविष्यामीत्येतदध्यवसायी वा 'आय' कर्माश्रवलक्षणं न कुर्यात्। तथा-चयम्उपचयमाहारोपकरणादर्धनधान्यद्विपदचतुष्पदादेवा परिगृहलक्षणं संचयमायात्यर्थ सुष्टु तपस्वी सुतपस्वीविकृष्टतपोनिष्टप्तदेहो भि