________________ समाहि 427 - अभिधानराजेन्द्रः - भाग 7 समाहि प्राप्नोति। तत्रायोगाद्योगमुख्याद्भवोपग्राहिकर्मणाम् / क्षयं कृत्वा प्रयात्युच्चैः, परमानन्दमन्दिरम् / / 32 / / तत्रेति-तत्र योगान्ते शैलेश्यवस्थायाम् अयोगादव्यापारात् योगमुख्यात् भवोपग्राहिणां कर्मणां क्षयं कृत्वा उसलोकान्ते परमाऽऽनन्दमन्दिरं प्रयाति / द्वा० 24 द्वा०॥ साम्प्रतं समाधिरुच्यते तत्रापि नामस्थापने क्षुण्णत्वादनादृत्य द्रव्यादिसमाधिमाहदव्वं जेण व दवेण समाही आहिअंच जं दव्वं / भावसमाहिचउविह-दसणनाणे तवचरित्ते / / 327 / / द्रव्यमिति द्रव्यमेव समाधिः द्रव्यसमाधिर्यथा मात्रकम, अवि-रोधि या क्षीरगुडादि, तथा येन वा द्रव्येणोपयुक्तेन समाधिरित्र-फलादिना तद् द्रव्यसमाधिरिति / तथा आहितं वा यद् द्रव्यं समता करोति तुलारोपितपलशतादिवत् स्वस्थाने तत् द्रव्यं समाधिरिति / उक्तो द्रव्यसमाधिः || भावसमाधिमाह-भावसमाधिः प्रशस्तभावविरोधलक्षणश्चतुर्विधः, चातुर्विध्यमेवाह-दर्शनज्ञानत-पश्चारित्रेषु एतद्विषयो दर्शनादीना व्यस्तानां समस्तानां वा सर्वथा अविरोध इति गाथार्थः / दश०६ अ०१ उ०। पा० / उत्त० / मोक्षे, सम्यग्ध्याने, सदनुष्टाने च। सूत्र०१ श्रु०३ अ० 3 उ०। स्था०। दसविहा समाही पण्णत्ता, तं जहा-पाणाइवायवेरमणे मुसावायवेरमणे अदिण्णादाणवेरमणे मेहुणवेरमणे परिग्गहवेरमणे इरियासमिई मासासमिई एसणासमिई आयाणउच्चारपासवणखेलसिंघाणगपारिठ्ठावणियासमिई। (सू०११४) समाधानं समाधिः, समता सामान्यतो रागाद्यभाव इत्यर्थः, स चोपाधिभेदात् दशधेति। स्था० १०ठा०३ उ०। संथा०। अनु-ठाने,सूत्र० 1 श्रु०१४ अ०। सम्यगमार्गानुष्ठाने, सूत्र०१ श्रु०१४ अ० / गुर्वादीना कार्यकारणद्वारेण चित्तस्वास्थ्योत्पादने, ज्ञा० 1 0 8 अ० / आ० क० / / 'समाहाण' शब्दे अस्मिन्नेव भागे कथा-नकम्।) शुभलेश्याध्यवसाये, दश०२ चू० / भारते वर्षे उत्सर्पि-ण्यां भविष्यति सप्तदशे तीर्थकर, स० 84 सम० / ति० / सत्तरसो रेवइजीवो समाही। ती०२ कल्प। समतायाम, प्रश्न०१ संव० द्वार। धर्मे समाधिः कर्तव्यः, सभ्यगाधीयते व्यवस्थाप्यते मोक्ष मार्ग वा प्रति येनात्मा धर्मध्यानादिना स समाधिः धर्मध्यानादिकः / स सम्यग ज्ञात्वा स्पर्शनीयः / नामनिष्पन्नं तु निक्षेपमधिकृत्य नियुक्तिकृदाह-- आयाणपदेणाऽऽघं, गोणं नामं पुणो समाहि त्ति। णिक्खिविऊण समाहिं, भावसमाहीइ पगयं तु // 103 / / णाम ठवणा दविए, खेत्ते काले तहेव भावे य। एसो उ समाहीए, णिक्खेवो छविहो होइ / / 104 / / पंचसु विसएसु सुभेसु,दव्वम्मित्ता भवे समाहि त्ति। खेत्तं तु जम्मि खेत्ते, काले कालो जहिं जो उ॥१०५।। भावसमाही चउव्विह, दंसणणाणे तवे चरित्ते य। चउसु वि समाहियप्पा, सम्मं चरणट्ठिओ साहू॥१०६।। आदीयते-गृह्यते प्रथमम्-आदौ यत्तदादानम् आदानं च तत्पदं च सुबन्तं तिडन्त वा तदादानपदं तेन 'आघं' ति नामास्याध्य-यनस्य, यस्मादध्ययनादाविदं सूत्रम्- "आधं मईम मणुवीइधम्म” इत्यादि, यथोत्तराध्यनेषु चतुर्थमध्ययनं प्रमादाप्रमादाभिधाय-कमप्यादानपदेन 'असंखय' मित्युच्यते, गुणनिष्पन्न पुनरस्या-ध्ययनस्य नाम समाधिरिति, यस्मात्स एवात्र प्रतिपाद्यते, तं च समाधिं नामादिना निक्षिप्य भावसमाधिनेह प्रकृतम् --अधिकार इति / समाधिनिक्षेपार्थमाह-नामस्थापनाद्रव्यक्षेत्रकालभावभेदात्, एष तु समाधिनिक्षेपः षडविधो भवति / तु शब्दो गुणनिष्पन्नस्यैव नाम्नो निक्षेपो भवतीत्यस्यार्थस्याविर्भावनार्थ इति / नामस्थापने सुगमत्वादनाहृत्य द्रव्यादिकमधिकृत्याह-पञ्चस्व-पि शब्दादिषु मनोज्ञेषु विषयेषु श्रोत्रादीन्द्रियाणां यथास्व प्राप्तौ सत्यां यस्तुष्टिविशेषः स द्रव्यसमाधिः,तदन्यथा त्वसमाधिरिति। यदिवा--द्रव्ययोर्द्रव्याणां वा सम्मिश्राणामविरोधिनां सतां न रसोपघातो भवति, अपितु रसपुष्टिः स द्रव्यसमाधिः / तद्यथाक्षीरशर्करयोर्दधिगुडचातुर्जातकादीनां चेति, येन वा द्रव्येणोपभु-क्तेन समाधिपानकादिना समाधिर्भवति तद् द्रव्यं द्रव्यसमाधिः। तुलादावोरोपितं वा यद द्रव्यं समतामुपैतीत्यादिको द्रव्यसमाधि-रिति / क्षेत्रसमाधिस्तु यस्य यस्मिन् क्षेत्रे व्यवस्थितस्य समाधि-रुत्पद्यते स क्षेत्रप्राधान्यात क्षेत्रेसमाधिः / यस्मिन् वा क्षेत्रे समा-धियावर्ण्यत इति। कालसमाधिरपि यस्य यं कालमवाप्य समा-धिरुत्पद्यते तद्यथा-शरदि गवां नक्तमुलूकानामहनि बलिभुजा, यस्य वा यावन्त काल समाधिर्भवति यस्मिन् वा काले समाधि-याख्यायते स कालप्राधान्यात कालसमाधिरिति / भावसमाधि त्वधिकृत्याह-भावसमाधिस्तु दर्शनज्ञानतपश्चारित्रभेदाच्चतुर्द्धा, तत्र चतुर्विधमपि भावसमाधि समासतो गाथापश्वार्धनाह-मुमुक्षुणा चर्यत इति चरणं तत्र सम्यक् चरणे चारित्रे व्यवस्थितः समुधुक्तः साधुः-मुनिश्चतुर्ध्वपि भावसमाधिभेदेषु दर्शनज्ञान-तपश्चारित्ररूपेषु सम्यगाहितो-व्यवस्थापित आत्मा येन स रामा-हितात्मा भवति। इदमुक्तं भवति यः सम्यक्चरणे व्यवस्थितःस चतुर्विधभावसमाधिसमाहितात्मा भवति / यो वा भावसमाधिसमाहितात्मा भवति, ससम्यक्चरणे व्यवस्थितो द्रष्टव्य इति। तथाहिदर्शनसमाधौ व्यवस्थितोजिनवचनभावितान्तः करणो निवातशरणप्रदीपवन कुमतिवायुभिम्यिते, ज्ञानसमाधिना तु यथा यथाऽपूर्व श्रुतमधीते तथा तथाऽतीवभावसमाधावुद्यक्तो भवति। तथा चोक्तम्"जह जह सुयमवगाहइ, अइसयरसपस-रसंजुयमउव्व। तह तह पल्हाइ मुणी, णवणवसंवेगसद्धाए // 1 // " चारित्रसमाधावपि विषयसुखनिःस्पृहतया निष्किशनोऽपि परं समाधिमाप्नोति, तथा चोक्तम्- "तण संथारणिसन्नो, ऽवि मुणि-वरो भट्टरागमयमोहो। जं पावइ मुत्तिसुह, कत्तो तं चक्कवट्टी वि? ||1 / / नैवास्ति राजराजस्य तत्सुखं नैव देवराजस्य / यत्सुख-मिहैव साधोर्लोकव्यापाररहितस्य" ||2|| इत्यादि,