________________ समणुण्ण 414 - अभिधानराजेन्द्रः - भाग 7 समणोवासग *स्वमनोज्ञ पुं० स्वमनोज्ञमात्मविशेषशब्दादिविषयं तत्साधनवस्तुनि। *समनुज्ञ पुं० संविज्ञविहारिभाविते, आचा०१ श्रु० 8 अ० 130 / स्था०। समणुण्णया स्त्री० (समनुज्ञता) परस्परोपसंपदि, व्य०४ उ०। समणुण्णा स्त्री० (समनुज्ञा) समिति संगता औत्सर्गिकगुणयुक्तस्वेनोचिता आचार्यादितया अनुज्ञा समनुज्ञा / आचार्यादित्वेन समनुज्ञापने, स्था० 3 ठा०३ उ०। तिविधा समणुन्ना पण्णत्ता,तं जहा-आयरियत्ताते, उवज्झायत्ताते, गणित्ताते। (सू० 174+) 'अणुन्न' त्ति-अनुज्ञानमनुज्ञा-अधिकारदानम्, आचर्यतेमर्यादावृत्तितया सेव्यत इत्याचार्यः, आचारे वा पञ्चप्रकारे साधुरित्याचार्यः, आह च- "पंचविह आयारं, आयसमाणा तहा पयासंता। आयार दसेन्ता, आयरिया तेण वुच्चंति।।१।।" तथा "सुतत्थविऊलक्खणजुत्तो गच्छस्स मे ढिभूओ य / गणतत्तिविप्पमुक्को, अत्थं वाएइ आयरिओ / / 2 / / " तद्भावस्तत्ता तया, उत्तरत्र गणा-चार्यग्रहणादनुयोगाचार्यतयेत्यर्थः, तथा उपेत्याधीयतेऽस्मादि-त्युपाध्यायः, आह च- “सम्मत्तनाणदंसणजुत्तो सुत्तत्थतदुभ-यविहिन्नू। आयरियठाणजोगो, सुत्त वाएइ उवझाओ।।१।।" इति / तद्भाव उपाध्यायता तया, तथा गणः-साधुसमुदायो यस्यास्ति स्वस्वामिसम्बन्धेनासौ गणीगणाचार्य स्तद्भावस्तत्ता तया, गणनायकतयेति भाव इति, तथा समितिसङ्गता औत्सर्गिक गुणयु-- क्तत्वेनोचिता आचार्यादितया अनुज्ञा समनुज्ञा, तथाहि-अनु -- योगाचार्यस्यौत्सर्गिकगुणाः-"तम्हा वयसंपन्ना" कालोचियगहियसयलसुत्तत्था। अणुजोगाणुण्णाए, जोगा भणिया जिणिदेहि // 1 // इह पर (रहा) मोसावाओ, पवयणखिंसाय होइ लोयम्मि। सेसाण वि गुणहाणी, तित्थुच्छेओ य भावेणं // 2 // " इति, गणाचार्योऽप्यौत्सर्गिक एवम"सुत्तत्थे निम्माओ, पियदढधम्मोऽणुवत्तणाकुसलो। जाईकुलसंपन्नो, गंभीरो लद्धिमंतो य॥१।। संगहुवग्गहनिरओ, कयकरणो पवयणाणुरागी य / / एवंविहो उ भणिओ, गणसामी जिण वरिंदे हिं / / 2 / / " अथैवंविधगुणाभावे अनुज्ञाया अप्यभावात् कथमन्या समनुज्ञा भविष्यतीति ? अत्रोच्यते--उक्तगुणानां मध्यात् अन्यतमगुणाभावेऽपि कारणविशेषात् सम्भवत्येवासौ, कथमन्यथा विधीयते- “जे या वि मंदित्ति गुरु विइत्ता,डहरे इमे अप्पसुए ति नचा / हीलति मिच्छ पडिवजमाणा, करति आसायण ते गुरूण // 1 // " इति। अतः केषाश्चित गुणानामभावेऽप्यनुज्ञा, समग्रगुणभावे तु समनुज्ञेति स्थितम्। अथवा-- स्वस्य मनोज्ञाः-समानसामाचारीकतया अभिरुचिताः स्वमनो-ज्ञाः सह वा मनोज्ञैर्ज्ञानादिभिरिति समनोज्ञाः-एकसाम्भोगिकाः साधवः, कथं त्रिविधा इत्याह- 'आचार्यतये' त्यादि भिक्षुक्षुल्लकादिभेदाः सन्तोऽपि न विवक्षिताः, त्रिस्थानकाधिकारादिति / स्था० 3 ठा० 3 उ० / मनोज्ञाऽऽहारतया लम्पटे, बृ०१ उ०२ प्रक०। समणुबद्ध न० (समनुबद्ध) अनवच्छिन्ने, ओघ०। प्रश्न० / रा०।। समणुबद्धवेरि त्रि० (समनुबद्धवैरिन्) अव्यवच्छिन्नवैरिभावे, भ० 13 श०६ उ०। समणुमणिय अव्य० (समनुमान्य) संभाष्येत्यर्थे , नि० चू० 1 उ० / समणुवासणा स्त्री० (समनुवासना) विधाने, आचा० 1 श्रु०२ अ० 1 उ०। सम्यग्विधाने, आचा० 1 श्रु०२ अ०४ उ०। समणुसह त्रि०(समनुसृष्ट) दत्ते,आचा०२ श्रु०१ चू०१ अ०१० उ०। समणुसुविहिय त्रि० (समनुसुविहित) शोभनं विहितमनुष्ठानं येषां ते सुविहिताः, श्रमणाश्च ते सुविहिताश्च श्रमणसुविहिताः। श्रमणशब्देन सह विशेषणसमासः / शोभनानुष्ठानवत्सु साधुषु, व्य०१उ० / दश०। समणोवासग पु० (श्रमणोपासक) श्रमणानुपास्ते सेवत इति श्रमणोपासकः / दशा०१अ०। देशविरतेन सह यः श्रमणोपासनमहिम्ना प्रतिदिनप्रवर्द्धमानसंवेगो यावजीवं सूक्ष्मबादरादिभेदपरिज्ञानवान् भवति / भ०८ श० 5 उ० / सूत्र० / आव० / श्रा० / स्था)। श्रावके, स्था०। चत्तारिसमणोवासगापण्णत्ता, तं जहा-रायणिए समणोवासए महाकम्मे तहेव 4 / (सू०३२०) श्रमणोपासकश्रमणोपासिकासूत्राणि 'चत्तारि गम' त्ति-त्रिष्वपि सूत्रेषु चत्वार आलापका भवन्तीति। स्था० 4 ठा०३ उ०। (शेषपदानांव्याख्या स्वस्वशब्दे1) चत्तारिसमणोवासगा पण्णत्ता, तं जहा-अम्मापिइसमाणे भाइसमाणे मित्तसमाणे सवत्तिसमाणे। (सू० 321) 'अम्मापिइसमाणे' त्ति-मातापितृसमानः, उपचारं विनासाधुषु एकान्तेनैव वत्सलत्वात्, भ्रातृसमानः अल्पतरप्रेमत्यात्तत्त्वविचारादौ निष्ठुरवचनादप्रीतेः तथाविधप्रयोजने त्वत्यन्तवत्सलत्वाच्चेति भित्रसमानः सोपचारवचनादिना प्रीतिक्षतेः, तत्क्षतौ चापापेक्षकत्वादिति समानः--साधारणः पतिरस्याः सा सपत्नी, यथा सा सपत्न्या इविशादपराधान वीक्षते एवं यः साधुषु दूषणदर्शनतत्परोऽनुपकारी च स सपत्नीसमानाऽभिधीयत इति। स्था० 4 ठा० 3 उ० / चत्तारिसमणोवासगा पण्णत्ता, तं जहा–अद्दागसमाणे पडागसमाणे खाणुसमाणे खरकंटकसमाणे / (सू० 3214) 'अहाग' ति-आदर्शसमानो यो हि साधुभिः प्रज्ञाप्यमानानुत्सर्गापवादादीनागमिकान भावान् यथावत्प्रतिपद्यते सन्निहिता र्थानादर्शकवत् स आदर्शसमानः, यस्यानवस्थितो बोधो विचित्रदेशना वायुना सर्वतोऽपहियमाणत्वात् पताकेव स पताकासमान इति, यस्तु कुत्तोऽपि कदाग्रहान्न गीतार्थदशनया चाल्यते सोऽनमनस्वभाव-बाधत्वेनाप्रज्ञापनीयः स्थाणुसमान इति, यस्तु प्रज्ञाप्यमानो न केवलं स्वाग्रहान्न चलति अपि तु प्रज्ञापक दुर्वचनकण्टकैर्विध्यति स खरकण्टकसमानः, खरानिरन्तरा निष्ठुरा वा कण्टा:-कण्टका यस्मिस्तत् खरकण्ट ब