________________ समट्टिइ 410 - अभिधानराजेन्द्रः - भाग 7 समण समट्टिइ त्रि० (समस्थिति) सममेवोत्पन्ने, भ०३४ श०१ उ०। समण पुं० (शमन) चिकित्सायाम, आव० 4 अ०। रोगप्रशमने, नि०५० / 20 उ०। औषधे, व्य०३ उ०॥ समण पुं० समिति समतया शत्रुमित्रादिषु अगति प्रवर्तते इति समणः प्राकृततया सर्वत्र 'समण' ति / स्था० 4 ठा० 4 उ० / अणत्यनेकार्थत्वाद्धातूना प्रवर्तते इति समणो निरुक्तिवशात् / सर्वत्र तुल्यप्रवृत्तिमति, भ० 1 श०१ उ० / स्था० / सूत्र० / अनु०। जह मम ण पिअंदुक्खं, जाणिआ एमेव सव्वजीवाणं / न हणइन हणावेइ अ,सममणई तेण सो समणो।।३।। यथा मम-स्वात्मनि हननादिजनितं दुःखं न प्रियमेवमेव सर्वजी-वानां / तन्नाभीष्टमिति ज्ञात्वा-चेतसि भावयित्वा समरतानपि जीवान्न हन्ति स्वयं, नाप्यन्यैर्घातयति, चशब्दात्-घतश्चान्यान्न समनुजानीत इत्यनेन प्रकारेण 'सममणति' त्ति--सर्वजीवेषु तुल्य वर्त्तते यतस्तेनासी समण इति गाथार्थः / अनु०। *समनस् पुं० सह मनसा शोभनेन निदानपरिणामलक्षणतापरहितेन च वर्तत इति समनाः, तथा-समानं स्वजनपरजनादिषु तुल्यं मनो यस्य सः समनाः / सर्वत्र समभावेषु, स्था० 4 ठा०४ उ०। तदेवं सर्वजीवेषु समत्वेन समणतीति समण इत्येकः पर्यायो दर्शितः, एवं समं मनोऽस्येति समना इत्यन्योऽपि पर्यायो भवत्येवेति दर्शयन्नाहणत्थिय से कोइ वेसो, पिओ असव्वेसुचेव जीवेसु। एएण होइ समणो, एसो अन्नोऽविपज्जाओ।।४।। नास्ति च 'से' तस्य क्वचिद् द्वेष्यः प्रियो वा, सर्वेष्वपि जीवेषु सममनस्त्वाद, अनेन भवति सम मनोऽस्येति निरुक्तविधिना समना इत्येषोऽपि पर्याय इति गाथार्थः / अनु०। *श्रमण पुं० श्राम्यतीति श्रमणः / साधी, स्था० 4 ठा० 4 उ०। श्राम्यतिश्रममानयति पञ्चेन्द्रियाणि मनश्चेति श्रमणः / दर्श० 3 तत्त्व / पं० चू०। श्राम्यति-संसारविषयखिन्नो भवति तपस्यतीति वा नन्दादित्वात कर्तर्यनट् / श्रमणः / ध० 2 अधि० / “कृत्यल्युटो बहुलमिति" वचनात कर्तरि ल्युट्। दश० 1 अ०। श्रमुतपसि खेदे / आ० चू० 3 अ० / आव / श्राम्यतीति श्रमणः / विशे०। उत्त। स्था० 1 आचा०। सूत्र०॥ तदेव पूर्वोक्तप्रकारेण सामायिकवतः साधोः स्वरूपं निरूप्य प्रकारान्तरेणापि तन्निरूपणार्थमाहउरगगिरिजलणसागर-नहतलतरुगण समो अजो होइ। भमरमियधरणिजलरुह-रविपवणसमो असो समणो / / 5 / / स श्रमणो भवतीति सर्वत्र संबध्यते,यः कथंभूतो भवतीत्याह-उरगःसर्पस्तत्समः परकृताश्रयनिवासादित्येवं समशब्दोऽपि सर्वत्र योज्यते, तथा गिरिसमः परीषहोपसर्गनिष्प्रकम्पत्वात्, ज्वलनसमस्तपरतेजोमयत्वात् तृणादिष्विव सूत्रार्थेष्वतृप्तः, सागरसमो गम्भीरत्वात ज्ञानादि रत्नाकरत्वात् स्वमर्यादानतिक्र माच्च, नभस्तलसमः सर्वत्र निरालम्बनत्वात. तरुगणसमः सुखदुःखयोरदर्शितविकारत्वात, भ्रमरसमोऽनियतवृत्तित्वात, मृगसमः संसारभयोद्विग्नत्वात्, धरणिसमः सर्वखदसहिष्णुत्वात्, जलरुहसमः कामभोगोद्भवत्वेऽपि पङ्कजलाभ्यामिव तदूर्ध्व वृतेः,रविसमः धर्मास्तिकायादिलोकमधिकृत्याविशेषण प्रकाशकत्वात. पवनसमश्च सर्वत्राप्रतिबद्धत्वात्, स एवंभूतः श्रमणो भवतीति गाथार्थः। यथोक्तगुणविशिष्टश्च श्रमणस्तदा भवति यदा शोभनं मनो भवेदिति दर्शयतिसो समणो जइ सुमणो, भावेण जइण होइपावमणो। सयणे अजणे यसमो, समोअमाणाऽवमाणेसु॥६॥ ततः श्रमणो यदि द्रव्यमन आश्रित्य सुमना भवेत्, भावननश्चाश्रित्य यदि न भवति पापमनाः। सुमनस्त्वचिहान्येव श्रमणगुणत्वेन दर्शयतिस्वजने च-पुत्रादिके जने च-सामान्ये समोनिर्विशषः मानापमानयोश्च सम इति गाथार्थः / अनु०। पशा०।दश। “यः समः सर्वभूतेषु,सेषु स्थावरष च / तपश्चरति श्रद्धात्मा, श्रमणोऽसौ प्रकीर्तितः" ||1|| इति। दश१ अ०॥ श्रमणनिक्षेपःसमणस्स उ निक्खेवो, चउक्कओ होइआणुपुवीए। दव्वे सरीरभविओ, भावेण उसंजओ समणो।।१५३।। श्रमणस्य तु-तुशब्दोऽन्येषां च मङ्गलादीनामिह तु श्रमणेना धकार इति विशेषणार्थः, निक्षेपश्चतुर्विधो भवत्यानुपूर्या नामाऽऽ'देक मेण / नामस्थापने पूर्ववत् / द्रव्यश्रमणो द्विधा-आगमता, नो-आगमतश्च / आगमतो ज्ञातानुपयुक्तः, नोआगमतस्तुज्ञशरीरभव्य-शर रतद्व्यतिरिक्तोऽभिलापभेदेन दुमवदवसेयस्तं चानेनो-पलक्षयति / 'दध्ये सरीरभविओ' त्ति-भावश्रमणोऽपि द्विविध एव-आगमतो ज्ञानोपयुक्तः, नोआगमतस्तु चारित्रपरिणामवान् यतिः। तथा चाह-भावतस्तु संयतः श्रमण इति गाथार्थः। अस्यैव स्वरूपमाहजह मम न पियं दुक्खं, जाणिय एमेव सव्वजीवाणं। न हणइन हणावेइय, सममणई तेण सो समणो॥१५४।। नत्थिय से कोइ वेसो, पिओ व सव्वेसुचेवजीवेसु। एएण होइसमणो, एसो अन्नो विपज्जाओ।।१५५|| तो समणो जइ सुमणो,भावेण य जइन होइ पावमणो। सयणे य जणे य समो, समो उमाणावमाणेसु॥१५६।। उरगगिरि जलण सागर-णहयलतरुगणसमो य जो होइ। भमरमिगधरणिजलरुह-रविपवणसमोजओ समणो।।१५७|| (गाथाचतुष्टयं सुगमम्।) विसतिणिसवाययंजुल-कणियारुप्पलसमेण समणेणं। भमरुंदुरुनडकुकुड-अद्दागसमेण होयव्वं / / 1 / / (प्र०)