________________ सम 404 - अभिधानराजेन्द्रः - भाग 7 सम त्यादि.इहाल्पत्वं महत्त्वं चापेक्षिक, तत्र जघन्यमल्पत्वम् अङ्गुलासङ्ग्ययभागमात्रत्वम, उत्कृष्ट महत्त्व पशुधनुः शतमानत्वम्, एतब गवधारणीयशरीरापेक्षया, उत्तरवैक्रियापेक्षया तु जघन्यमल्पत्वम अङ्गुलसङ्ख्यातभागमात्रत्वम् इतरद् धनुः सहस्रमानत्वम्, एतावता च किं समशरीरा इत्यस्य प्रश्नस्योत्तरमुक्तम् / अथ शरीरप्रश्रो द्वितीयस्थानोवतः तत्कथमस्य प्रथमत एव निर्वचनमुक्तम् ? उच्यतेशरीरविषमताभिधाने सति आहारोच्छासयोर्वषम्यं सुप्रतिपादित भवतीति द्वितीयस्थानोक्तस्यापि शरीरप्रश्नस्य प्रथम निर्वचनमुक्तम्। इदानीमाहरोच्छासयो निर्वचनमाह-. 'तत्थ णं' भित्यादि, तत्रअल्पशरीरमहाशरीररूपराशिद्वयमध्ये 'ण' मिति वावयालङ्कारे ये यतो गहाशरीरास्ते तदपेक्षया बहुतरान पुद्गलानाहारयन्ति महाशरीरत्वादेव, दृश्यते हि लोके बृहच्छरीरो बलाशी यथा हस्ती, अल्पशरीरोऽल्पभोजी शशकवत्, बाहुल्यापेक्ष चेदमुदाहरणमुपन्यस्यते, अन्यथा कोऽपिा बृह-- च्छरीरोऽप्यल्पमश्राति कश्चिदल्पशरीरोऽपि भूरि भुङ्क्ते तथाविधमनुष्यवत,नारकाः पुनरुपपातादिसवे द्यानुभावादन्यत्रा-- सवे द्योदयवर्तित्वादेकान्तेन यथा महाशरीराः दुःखितास्तीवाहाराऽभिलाषाश्च भवन्ति तथा नियमाद् बहुतरान्पुद्गलानाहारयन्ति तथा यहु तरान् पुद्गलान परिणामयन्ति, आहारपुद्गलानुसारित्वात परिणामरय,परिणामश्चापृष्टोऽप्याहारकार्यमित्युक्तः, तथा 'बहुतराए पुग्गले उरससंति' इति-बहुतरान् पुद्गलान् उच्छ्वासतया गृह्णन्ति 'नीससंति' इति-निःश्वासतया मुञ्चन्ति, महाशरीरत्वादेव, दृश्यन्ते हि बृहच्छरीरास्तज्जातीयेतरापेक्षया बहूच्छासनिः श्वासाइति, दुःखिता अपि तथैव, दुःखिताश्व नारका इति / आहारस्यैव कालकृतं वैषम्यमाह'अभिवखण' मित्यादि, अभीक्ष्ण-पौनः पुन्ये नाहारयन्ति,ये यता महाशरीरास्ते तदपेक्षया शीघ्रशीघ्रतराहारग्रहणस्वभावा इत्यर्थः, अभीक्ष्णम् उच्चसन्ति अभीक्ष्णं निःश्वसन्ति, महाशरीरत्वेन दुःखिततरत्वादनवरतमुच्छ्रासादि कुर्वन्तीति भावः, 'तत्थ ण जे ते' इत्या-दि, 'जे ते' इति इह ये इत्येतावतैवार्थसिद्धौ ये ते इति (यद्) उच्यते तद्भाषामात्रमेव, अल्पशरीरास्ते अल्पतरान् पुद्गलानाहारयन्ति, ये यताऽल्पशरीरास्ते तदाहारणीयपुद्रलापेक्षया अल्पतरान पुद्गलानाहारयन्ति, अल्पशरीरत्वादेवेति भावार्थः, 'आहच्च आहारयन्ति' इतिकदाचिदाहारयन्ति कदाचिन्नाहारयन्ति, महाशरीराहारग्रहणान्तरालापेक्षया बहुतरकालान्तरतयेत्यर्थः, 'आहच ऊससंति आहच्च नीससंति' एते हि अल्पशरीरत्वेनैव महाशरीरापेक्षया अल्पतरदुःखत्वात्, ‘आहच' कदाचित् सान्तरमित्यर्थः,उच्छ्रासादि कुर्वन्तीति भावः, अथवा अपर्याप्तिकाले अल्पशरीराः सन्तो लोमाहारापेक्षया नाहारयन्ति उच्छासापर्याप्तकत्वेन च नोच्छुसन्ति, अन्यदा त्वाहारयन्ति उच्छृसन्ति चेत्यत आह- 'आहच आहारयन्ति आहच ऊससन्ति' इत्युक्तम् / 'रसे एएणद्वेणमित्यादि निगमनवाक्यं सुगमम् / संप्रति समकर्मत्वाधिकारमाह-- 'नेरइयाण' मित्यादि पुव्वोववन्नगा य पच्छोववन्नगाय' इति पूर्व-प्रथमम् पन्नाः पूर्वोपपन्नाः तत एव स्वास्र्थिकः क इति कप्रत्ययविधानात् पूर्वोपपन्नकाः, एवं पश्चादुपपन्नकाः, तत्र पूर्वोत्यन्नपश्चात् पन्नाना मध्ये ये पूर्वोत्पन्नास्तैर्नर-कायुर्नरकगत्यसातवेदनीयादिक प्रभूत निर्णिमल्पं विद्यत इति अल्पकर्मतरकाः इतरे तद्विपर्यायात महाक तरकाः, एतच समानस्थितिका ये नारकास्तानधिकृत्य प्रणीतमवसेयम्, अन्यथा हि रत्नप्रभायाम् उत्कृष्टस्थिते रकस्यबहून्यायुषि क्षयमिते पल्योपमावशेषे च तिष्ठति तस्यामेव रत्नप्रभायां दशवर्षसहसस्थितिनगरकोऽन्यः कश्चिदुत्पन्नः स किं प्रागुत्पन्नं पल्योपमावशेषायुष नारकमपेक्ष्य वक्तुशक्यो यथा महाकर्मेति? वर्णसूत्रे-विशुद्धवर्णतरका' इति-विशुद्धतरवर्णा इत्यर्थः, कथमिति चेद,उच्यते-इह यस्मान्नैरयिकाण मप्रशरतवर्णनामकर्मणोऽशुभस्तीव्रोऽनुभागोदयो भवापेक्षः, तथा चोक्तम्"कालभवखेत्तवेक्खो उदओ सविवागअविवागो / " नन्यायपि तत्र भवविपाकानि उक्तानि तत्कथमप्रशस्तवर्णनामकर्मण उदयो भवापेक्षा वर्ण्यते? सत्यमेतत् तथाप्यसौ वर्णनाम- कर्मणोऽप्रशस्तस्योदयस्तीव्रानुभागोऽध्रुवश्च भवापेक्षः पूर्वाचायैर्व्यवहृतः, स पूर्वोतान्नैः प्रभूतो निर्जीर्णः स्तोकावशेषोऽवतिष्ठत, पुद्गलविधाकि च वर्णनाम, तेन पूर्वोत्पन्ना विशुद्धतरवर्णाः, पश्चादुत्पन्नैस्तु नाद्यापि प्रभूतो निजीर्ण इति त अविशुद्धतरवर्णाः, एतदपि समानस्थितिनैरयिक-विषयमवसेयम्, अन्यथा पूर्वोक्रारीया व्यभिचारसंभवात् 'एवं जहेव वन्ने भणिया' इत्यादि, एवम्-उक्तेन प्रकारेण यथैव वर्णे भणितास्तथैव लेश्यास्वपि वक्तव्याः, तद्यथा- 'नेरइयाणं भंते ! सव्वे समलेस्सा? गोयमा ! नो इण? समढे इत्यादि.सुगम चैतत्, नवरं पूर्वोत्पन्ना विशुद्धलेश्याः यस्मा पूर्वोत्पन्नः प्रभूतान्यप्रशस्तलेश्याद्रव्याणि अनुभूय अनुभूय क्षयं नीतानि तस्मात्ते विशुद्धलेश्याः इतरे पश्चादुत्पन्नतया विपर्ययादविशुद्धलेश्याः, एतदपि लेश्यासूत्र समानस्थितिक नैरयिकापेक्षमवसे यम्, समवेदनपदोपलक्षितार्थाधिकारप्रतिपाद–नार्थमाह- 'नेरइया भंते !' इत्यादि, समवेदनाः-समानपीडाः 'सन्निभूया य' इति संज्ञिनः-संज्ञिपञ्चेन्द्रियाः सन्तो भूतानारकत्वं गताः संज्ञिभूताः ते महावेदनाः तीव्राशुभाध्यवसायेनाशुभतरकर्मबन्धनेन महानरकेपुत्पादात्, असज्ञिनः-असझिापदोन्द्रियाः सन्तो भूता असज्ञिभूताः,असज्ञिनो हि तसृष्यपि गतिषूत्पद्यन्ते, तद्योग्यायुर्बन्धसंभवात,तथा चोक्तम्-"कइविहेण भते ! असन्निआउए पन्नते? गोयमा ! चउविहे असन्निआउए पन्नत्ते ? त जहा.नेरइयअसन्निआउए तिरिवखजोणियअसन्निआउए मणुस्रजोणियअसन्निआउए देवअसन्निआउए, इति,तत्र देवेषु नैयिकेषु च असङ्ग्यायुषो जघन्यतः स्थितिर्दश वर्षसहस्राणि उत्कर्षतः पल्योपमासंख्येयभागः, तिर्यक्षु मनुष्येषु च जघन्यतोऽन्तर्मुहूर्तम उत्कर्षतः पल्योपमासंख्येयभागः, एवं चासज्ञिनः सन्ताये नरकषूत्पद्यन्तो तेऽतितीवाशुभाध्यवसाया-भावात् रत्नप्रभायामनतितीव्रवेदनेषु नरकेषूत्पद्यन्ते अल्पस्थि-तिकाश्चेत्यल्पवेदनाः, अथवा-सज्ञीभूताःपर्याप्तकीभूतास्त महावेदनाः पर्याप्तत्वादेव, असज्ञिनस्तु अल्पवेदनाः अपर्याप्ततया प्रायो वेदनाया असंभवात्। यदिवा- 'सन्निभूय' ति सज्ञा