________________ सम 403 - अभिधानराजेन्द्रः - भाग 7 सम श्याभेदविशेषणभाहारादिपदैनिरूपयन् दण्डकसप्तकमाह- 'सलेरसाणं भंत ! नेरइया सव्वे समाहारग' ति-अनेनाहारशरीरोच्छासकर्मवर्णलेश्या वेदनाक्रियोपपाताख्यपूर्वोक्तनवपदोपेतनारकादिचतुर्विशतिपददण्डको लेश्यापदविशेषितः सूचितः, तदन्ये घ कृष्णलेश्यादिविशेषिताः / पूर्वोक्तनवपदोपेता एव यथासम्भव नारकादिपदात्मकाः षड् दण्डकाः सूचिताः / तदेवमेतेषां सप्तानां दण्डकानां सूत्रसङ्गे पार्थ यो यथा अध्येतव्यस्त तथा दर्शयन्नाह... 'ओहियाण' मित्यादि, तत्राधिकानां पूर्वोक्तानां निर्विशेषणानां नारकादीनां तथा सलेश्यानाधिकृतानामेव शुक्लले श्यानां तु सप्तमदण्डकवाच्यानामेषां त्रयाणामेको गमः-सदृशः पाठः, सलेश्यः शुक्ललेश्यश्चेत्यवंविधविशेषणकृत एव तत्र भेदः, औधिकदण्डकसूत्रवदनयोः सूरमिति हृदयम्। तथा 'जस्सत्थि' इत्येतस्य वक्ष्यमाणपदस्येह सम्बन्धाद्यस्य शुक्ललेश्याऽस्तिसएव तद्दण्डकेऽध्येतव्यः, तेनेह पञ्चन्द्रियतिर्यशो मनुष्या वैमानिकाच वाच्याः नारकादीनां शुक्ललेश्याया अभावादिति, 'किण्हलेस्सनीललेसाणं पि एगो गमो' औधिक एक्त्यर्थः, विशेषमाह-नवरं 'वेयणा' इत्यादि, कृष्णलेश्यादण्डके नीललेश्यादण्डके च वेदनासूत्रे- "दविहा णेरइया पन्नतासन्निभूया य असन्निभूया य" त्ति, औधिकदण्डकाधीतं नाध्येतव्यम्, असंज्ञिना प्रथमपृथिव्यामेवोत्पादात्, 'असण्णी खलु पढमम्मि' ति वचनात्, प्रथमायां च कृष्णनीललेश्ययोरभावात्, तर्हि किमध्येतव्यमित्याह'मायिमिच्छादिट्टि उववन्नगा य' इत्यादि, तत्र मायिनो मिथ्यादृष्टयश्च महायेदना भवन्ति, यतः प्रकर्षपर्यन्तवर्तिनी स्थितिमशुभां ते निर्वर्त्तयन्ति, प्रकृष्टाया च तस्यां महती वेदना संभवति. इतरेषां तु विपरीतेति / तथा मनुष्यपदे क्रियासूत्रे यद्यप्यौधिकदण्डके 'तिविहा मणुस्सा पन्नत्ता, तं जहा-संजया 3, तत्थ णं जे ते संजया ते दुविहा पन्नत्ता, तं जहा-सरागसंजया य, वीयरागसंजया य / तत्थ णं जे ते सरागसंजया ते दुविहा पन्नत्ता, तं जहा-पमत्तसंजया य अप्पमत्तसंजया य' ति पठितं. तथाऽपि कृष्णनीललेश्यादण्डकयो ऽध्येतव्यं, कृष्णनीललेश्योदये संयमस्य निषिद्धत्वात्, यच्चोच्यते'पुव्वपडिवन्नओ पुण अन्नयरीए उ लेस्साए' त्ति, तत्कृष्णादिद्रव्यरूपा द्रव्यलेश्याभङ्गीकृत्य न तुकृष्णादिद्रव्यसाचिव्यजनितात्मपरिणामरूपा भावलेश्याम्, एतच्च प्रागुक्तमिति, एतदेव दर्शयन्नाह- 'मणुरसे' त्यादि, तथा कापोतलोश्यादण्डकोऽपि नीलादिलेश्यादण्डकवदध्येतव्यो, नवरं नारकपदे वेदनासूत्रे नारका औधिकदण्डकवदेव वाच्याः , ते चैवम्'नेरइया दुविहा पन्नत्ता, तं जहा- सन्निभूया य, असन्नि भूया य त्ति, असंज्ञिनां प्रथमपृथिव्यत्पादेन कापोतलेश्यासम्भवादत आह'काउलेस्साण वी' त्यादि / ( तेजोलेश्या पालेश्या च यस्य जीवविशेषस्यास्ति तमाश्रित्य यथाघेको दण्डकस्तथा तयोर्दण्डको भणितव्यौ, तदस्तिता चैवम्-नारकाणां विकलेन्द्रियाणां तेजोवायूना चाद्यास्तिर एव, भवनपतिपृथिव्यम्बुवनस्पतिव्यन्तराणामाद्याश्वतस्रःपञ्चेन्द्रियतिर्यग्मनुष्याणां षड्, ज्योतिषां तेजोलेश्या, वैमानिकानां तिस्रः प्रशस्ता इति, आह च"विण्हा नीला काऊ-तऊलेसा य भवणवतरिया। जोइससोहम्मीसा-ण लेउलेसा मुणेयव्वा / / 1 / / कप्पे सणकुमारे, माहिदे चेव बंभलोगे य। एएसु पम्हलेसा, तेण पर सुकलेस्सा उ॥२॥" तथा"पुढवीआउवणस्सइ-वायरपत्तेयलेस चारि। गढभयतिरियनरेसु, छलेसा तिन्नि सेसाणं / / 3 / / " केवलमौघिकदण्डके क्रियासूचे मनुष्याः सरागवीतरागविशेषणा अधीताः, इह तु तथा न वाच्याः, तेजः पालेश्यययोतिराग थाराम्भवात् शुक्ललेश्या यामेव तत्सम्भवात्, प्रमत्ताप्रमत्तास्तूच्यन्त इति, एतदेव दर्शयानाह.. 'ते उले सापम्हलेसे' त्यादि / 'गाई' ति-- उद्देशकादितःसूत्रार्थसड्ग्रहगतार्थाऽपि सुखबोधार्थमुच्यते-दुःखमायुश्चोदीर्ण वेदयतीत्येकत्वबहुत्वाभ्यां दण्डकचतुष्टयमुक्तम्, तथा 'आहारे त्ति 'नेरइया किं समाहारा?' इत्यादि, तथा 'किं रामकम्मा?' तथा 'किं समवन्ता?' तथा कि समलेसा? तथा 'किं समवेयणा?' तथा 'किं समकिरिया?' तथा कि समा--उया सभोववन्नग' ति गाथार्थः / भ०१श०२ उ०। (सर्वे द्वीप-कुमाराः समाहारा इति 'दीवकुमार' शब्दे चतुर्थभागे 2542 पृष्ठे गतम्।) (वाणमन्तराः सर्वं समाहाराः इति 'वाणमंतर शब्दे षष्ठे भागे गतम्।) नैरयिकादीनां समाहारस्वादिपृच्छाविषयकाणि सूत्राणि भगवतीसूत्रवदवसेयानि तानि चेहैवोक्तानि, अथ प्रज्ञापनाटीकायां विशेष इति कृत्वा सा प्रदर्श्यते - समशब्दः पूर्वार्द्ध प्रत्येकमपि सम्बध्यते, उत्तरार्द्ध प्रतिपदं साक्षा-- त्सम्बन्धित एवास्ति, ततोऽयमर्थः-प्रथमोऽधिकारः सर्वे समाहाराः सर्वे समशरीराः सर्वे समोच्छासा इति प्रश्नोपलक्षितः, द्वितीयः समकमाण इति तृतीयः समवण्णा इति,चतुर्थः समलेश्याका इति,पक्षमः समवेदनाका इति, षष्ठः समक्रिया इति, सप्तमः समायुष इति / अथ लेश्यापरिणामविशेषाधिकारे कथममीषामानामुपन्यासोपपत्तिः? उच्यते-अनन्तरप्रयोगपदे उक्तम्- 'कतिविहे णं भंते ! गइप्पवाए पण्णसे, गोयमा ! पंचविहे गइप्पवाए पण्णत्ते तं जहा पयोगगई तत्तगई बधणदणगई उववा--यगई विहायोगई। तत्थजा सा उववायगई सा तिबिहा खिताबवायगई भवोववायगई नोभवोदवायगई, तत्थ भवोववायगई चउविहाने रइयभवोववायगई देवभयो बवायगई तिरिक्खजोणि-यभवोववायगई मणुस्सभवोववायगई इति / तत्र नारकत्वादिभवत्वे नोत्पन्नानां जीवानामुपपातसमयादारभ्य आहाराद्यर्शसम्भवोऽवश्यंभावी ततो लेश्याप्रक्रमेऽपि तेषाभूपन्याससूत्रम- 'यथोद्देशं निर्देश' इति न्यायात्, प्रथम समाहारा इत्यादिप्रश्नोपलक्षितमर्थाधिकारमाह- 'नेरइया णं भंते ' इत्यादि प्रभसूर्य सुगम, भगवानाह- 'गोयमा' इत्यादि नायमर्थः समर्थः-नायमों युक्त्युपपन्न इति भावः, पुनः प्रश्नयति- 'से केणट्टेणमि' त्यादि, सेशब्दोऽथशब्दार्थः / अथ केनार्थेन-केन प्रयोजनेन केन प्रकारेणेति भावः, भदन्त ! एवमुच्यते नैरयिकाः सर्वे समाहारा इत्यादि? भगवान्ाह- 'गोयमे'