________________ सम 402 - अभिधानराजेन्द्रः - भाग 7 सम सन्तीति 'कम्मवन्नलेस्साओ (वि) परिवन्नेयव्वाओ' त्ति कमादीनि नारकापेक्षया विपर्ययेण वाच्यानि / तथाहि-नारका ये पूर्वो -- त्पन्नास्तेऽल्पकर्मकशुद्धतरवर्णशुभतरलेश्या उक्ताः, असुरास्तु ये पूर्वोत्पन्नास्ते महाकर्माणोऽशुद्धवर्णा अशुभतरलेश्याश्चेति / कथम ? ये हि पूर्वोत्पन्ना असुरास्तेऽतिकन्दर्पदध्मातचित्तत्वान्नारकाननेकप्रकारया यातनया यातयन्तः प्रभूतमशुभ कर्म संचिन्वन्तीत्यतोऽभिधीयन्ते ते महाकर्माणः, / अथवा-ये बद्धायुषस्ते तिर्यगादिप्रायोग्यकर्मप्रकृतिबन्धनान्महाकणिः , तथा अशुभवर्णा अशुभलेश्याश्च ते. पूर्वोत्पन्नानां हि क्षीणत्वात् शुभकर्माणः शुभवर्णादयः शुभो वर्णो लेश्या च हसतीति, पश्चादुत्पन्नास्त्वबद्घायुषोऽल्पकर्माणो बहुतरकर्मणामबन्धगादशुभकर्मणामक्षीणत्वाच शुभवर्णादयः स्युरिति / वेदनासूत्र च यद्यपि नारकाणामिवासुरकुमाराणामपि तथापि तद्भावनायां विशेषः,स चायन-ये सज्ञिभूतास्ते महावे दनाः, चारित्रविराधनाजन्यचित्तसन्तापात्, अथवा-सज्ञिभूताः संज्ञिपूमर्वभवाः पर्याप्ता वा ते शुभवेदनामाश्रित्य महावेदना इतरे त्वल्पवेदना इति / एवं नागकुमारादयोऽपि औचित्येन वाच्याः / / 'पुढविक्काइया णं भते ! आहारकम्मवन्नलेस्सा जहा नेरइया णं ति-चत्वार्यपि सूत्राणि नारकसूत्राणीव पृथिवीकायिकाभिलापेनाधीयन्त इत्यर्थः, के वल-माहारसूत्रे भावनवम्-पृथिवीकायिकानामड्डुलासंख्येयभागमात्र-शरीरत्वेऽप्यल्पशरीरत्वम् / इतरचेत आगमवचनादवसेयम् / 'पुढविक्का-इयस्स ओगाहणट्टयाए चउट्ठाणवडिए' त्ति ते च महाशरीरालोमाहारतो बहुतरान पुद्गलानाहारयन्तीति उच्छुसन्ति च अभीक्ष्णं महाशरीर-त्वादेव, अल्पशरीराणामल्पाहारोच्छासत्वमल्पशरीरत्वादेव, कादाचित्कत्वं च तयोः पर्याप्तकेत्तरावस्थापेक्षमवसेयम्॥तथा कर्मादिसूत्रेषु पूर्वपश्चादुत्पन्नाना पृथिवीकायिकानां कर्मवर्णलेश्याविभागो नारकैः सम एव, वेदनाक्रिययोस्तु नानात्वमत एवाह– 'असन्नि' त्ति-मिथ्यादृष्टयो-ऽमनस्का वा 'असन्निभूय' त्ति-असंज्ञिभूता असंज्ञिनां या जायते तामित्यर्थः, एतदेव व्यनक्ति 'अणिदाए' ति-अनिर्धारणया वेदनां वेदयन्ति, वेदनामनुभवन्तोऽपि न पूर्वोपात्ताशुभकर्मपरिणतिरिय-मितिमिथ्यादृष्टित्वादवगच्छन्ति, विमनस्कत्वाद्वा मत्तमूञ्छितादिवदिति भावना / 'माईमिच्छादिट्टि' त्ति-मायावन्तो हि तेषु प्रायेणोत्पद्यन्ते, यदाह"उम्मग्गदेसओ मग्गणासओ गूढहिययमाइलो / सढसीलो य ससल्लो, तिरियाउं बंधए जीवो // 1 // " त्ति, ततस्ते मायिन उच्यन्ते। अथवामायेहानन्तानुबन्धिकषायोपलक्षणम्, अतोऽनन्तानुबन्धिकषायोदयवन्तोऽत एव मिथ्यादृष्टयोमिथ्यात्वोदयवृत्तय इति। 'ताण णियइयाओ' त्ति-तेषां पृथिवीकायिकानां नैयतिक्योनियता न तु त्रिप्रभृतय इति, पञ्चैवेत्यर्थः ‘से तेणढणं समकिरिय' ति-निगमनम्, 'जाव चउरिदिय' ति-इह महाशरीरत्वमितरच स्वस्वावगाहना-ऽनुसारेणावसे यम्, आहारश्च द्वीन्द्रियादीनां प्रक्षेपलक्षणोऽपीति। 'पंचिंदियतिरिक्खजोणिया जहा नेरइय' ति-प्रतीतं, नवरमिह महाशरीरा अभीक्ष्णभाहारयन्ति उच्छ्रसन्ति चेति यदुच्यते तत्संख्यात-वर्षायुषोऽपेक्ष्येत्यवसेयं, तथैव दर्शनात, नासंख्यातवर्षायुषः,तेषां प्रक्षेपाहारस्य षष्ठ स्योपरि प्रतिपादितत्वात, अल्पशरीराणां त्वाहारोच्चासयोः कासाचित्कत्वं वचनप्रामाण्यादिति, लोमाहारापेक्षया तु सर्वेपासप्यभीक्ष्णमिति घटत एव, अल्पशरीराणां तु यत्कादाचित्कल्वं तदपर्याप्तकत्वे लोमाहा-- रोच्छासयोरभवनेन पर्याप्तकत्वे च तद्भावेनावसेयमिति। तथा कर्मसूत्र यत्पूर्वोत्पन्नानामल्पकर्मत्वमितरेषां तु महाकर्मत्वं तदारष्कादितद्रवर्वद्यकर्मापेक्षयाऽवसेयम् / तथा वर्णलश्यासूत्रयोर्यत्पूर्वोत्पन्नानां शुभवर्णाद्युक्तं तत्तारुण्यात्पश्चादुत्पन्नानां चाशुभवर्णादिवाल्यादवसेयम्, लोके तथैव दर्शनादिति। तथा 'संजयासंजय'त्ति-देशविरताः स्थूलात् प्राणातिपातादेर्निवृत्त-त्वादितरस्मादनिवृत्तत्वाचेति / 'मणुस्साणं जहा नेरइय' ति-तथा वाच्या इति गम्यम्, 'नाणत्न' ति-नानात्वं, भेदः पुनरयम-तत्र 'मणुस्सा णं भंते ! सर्व समाहारगा? इत्यादि प्रश्नः, 'नो इणढे समढे' इत्याधुत्तरं 'जाव दुविहा मणुस्सा पन्नत्ता, तंजहा महासरीरा य, अप्पसरीराय। तत्थणजे ते महासरीरा ते बहुतराए पोग्गले आहारति. एवं परिणामेति ऊससंति नीससंति' इह स्थाने नारकसूत्रे 'अभिक्खणं आहारेति' इत्यधीतम्, इह तु 'आहथे' त्यधीयते, महाशरीरो हि देवकुर्वादि-मिथुनकाः,ते च कदाचिदेवाहारयन्ति कावलिकाहारेण, 'अट्ठमभत्तस्स आहारों' ति वचनात्, अल्पशरीरास्त्वभीक्षणमल्पं च, बालानां तथैव दर्शनात् संमूछिममनुष्याणामल्पशरीराणाननवरतमाहारसम्भवाच, यच्चह पूर्वोत्पन्नाना शुद्धवर्णादि तत्तारण्यात संमूच्छिमापेक्षया वेति / 'सरागसंजय' त्ति-अक्षीणानुपशान्तकषायाः 'वीयरागसंजय'त्ति-उपशान्तकषायाः क्षीणकषायाश्च, 'अकि रिय'तिवीतरागत्वेनारम्भादीनामभावादक्रियाः, 'एगा मायावत्तिय' त्ति-अप्रमत्त - संयतानामेकैव मायाप्रत्या 'किरिया कजईत्ति क्रियते-भवति कदाचिदुडाहरक्षणप्रवृत्तानामक्षीणकषायत्वादिति, 'आरम्भिय'त्ति--प्रमत्तसंयताना च 'सर्वः प्रमत्तयोग आरम्भ' इति कृत्वाऽऽरम्भिकी स्यात्, अक्षीणकषायत्वाच्च मायाप्रत्ययेति। 'वाणमंतरजोइसर्वमाणिया जहा असुरकुमार'त्तितत्र शरीरस्याल्पत्वमहत्त्वे स्वावगाहनानुसारेणावसेये / तथा वेदनायामसुरकुमाराः 'सन्निभूया य असन्निभूयाय, सन्निभूया महावेयणा असम्भूिया अप्पवेयणा' इत्येवमधीताः, व्यन्तरा अपि तथैवाध्येतव्याः, यतोऽसुरादिषु व्यन्तरान्तेषु देवेषु असज्ञिन उत्पद्यन्ते, यतोऽत्रैवोद्देशके वक्ष्यति'असन्नीणं जहण्णेण भवणवासीसु उक्दो सेणं वाणमंतरेसु' शि, ते चासुरकुमारप्रकरणोक्तयुक्तेरल्पवेदना भवन्तीत्य-वसेय, यत्तु प्रागुक्तं सज्ञिनः सम्यग् दृष्टयोऽसज्ज्ञिनस्त्वितरे इति तदवृद्धव्याख्यानुसारेण - वति, ज्योतिष्कवैमानिकेषु त्वसझिनो नोत्पद्यन्ते अतो ददनापदे तेष्वधीयते- 'दुविहा जोतिसियामायिमिच्छादिही उववन्नगा ये' त्यदि, तत्र मायिमिथ्यादृष्टयोऽल्पवेदना इतरेच महावेदनाःशुभवेदनामाश्रित्येति, एतदेय दर्शयन्नाह-न वर 'वेयणाए' इत्यादि / अथ चतुर्विशतिदण्डकमेव ले..