________________ सम 401 - अभिधानराजेन्द्रः - भाग 7 सम कर्मणां च बहु तरवेदनादल्पकर्मत्वम्, पश्चादुत्पन्नानां च नारका - णामायुष्कादीनामल्पतराणां वेदितत्वात् गहाकर्मत्वम्, एतच्च सूत्र समानस्थितिका ये नारकास्तानङ्गीकृत्य प्रणीतम्, अन्यथा हि रत्नप्रभायामुत्कृष्ट स्थितेरिकस्य बहून्यायुषि क्षयमुपगते पल्योपमावशेषे च तिष्ठति तस्यामेव रत्नप्रभायां दशवर्षसहस्र-स्थितिनरिकोऽन्यः कश्चिदु-पन्न इति कृत्वा प्रागुत्पन्नं पल्योपमा-युष्क नारकमपेक्ष्य विवक्तु शवयं महाकम्र्मेति? एवं वर्णसूत्रे पूर्वोत्पन्नस्याल्पं कर्म ततस्तस्य विशुद्धो वर्णः, पश्चादुत्पन्नस्य च बहुकर्मत्वादविशुद्धतरो वर्ण इति। एवं लेश्यासूत्रेऽपि,इह च लेश्याशब्देन भावलेश्या ग्राह्या, बाह्यद्रव्यलेश्या तु वर्णद्वारेणैवोको-ति / 'समवेयण' ति-समवेदनाः-समानपीडाः 'रान्निभूय' त्ति-सज्ज्ञासम्यग्दर्शनं तद्वन्तः संज्ञिनःसचिनो भूताःसंज्ञित्वं गतासंज्ञिभूताः। अथवा असंज्ञिनः संज्ञिनो भूताः संज्ञिभूताः, च्चिप्रत्यययोगात्, मिथ्यादर्शनमपहाय सम्यग्दर्शनजन्मना समुत्पन्ना इति यावत्. तेषां च पूर्वकृतकर्मविपाकमनुस्मरतामहो मह-दुःखसङ्कटम, इदमकस्मादस्नाकमापतितं न कृतो भगवदर्हत्प्रणीतः सकलदुःखक्षयकरा विषयविषमविषपरिभोगविप्रलब्धचेतोभिर्द्धर्म इत्यतो महद् दुखं मानसमुपजायते अतो महावेदनास्ते, असंज्ञिभूतास्तु मिथ्यादृष्टयः, ते तु स्वकृतकर्मफलमिदमित्येवमजानन्तोऽनुपतप्ता-मानसा अल्पवेदनाः स्युरित्यके, अन्य त्वाः -संज्ञिनः-संज्ञिपञ्चेन्द्रियाः सन्तो भूतानारकत्वं गताः सज्ञिभूताः, ते महावेदनाः तीव्राशुभाध्य-वसायेनाशुभतरकर्मबन्धनेन महानरकेषूत्पादात्, असज्ञिभूतास्त्वनुभूतपूर्वासज्ज्ञिाभवाः, ते चासिज्ञत्वादेवात्यन्ताशुभाध्यवसायाभावात् रत्नप्रभायामनतितीव्रवेदननरकेपुत्पादादल्पवेदनाः, अथवा-- 'संज्ञिभूताः' पर्याप्तकीभूताः, असज्ञिनस्तु अपर्याप्तकाः, ते च क्रमेण महावेदना इतरे च भवन्तीति प्रतीयत एवेति / 'समकिरिय' ति-समाः तुल्याः क्रियाःकर्मनिबन्धनभूता आरम्भिक्यादिका येषां ते समक्रियाः, 'आरंभिय' त्ति-आरम्भः-पृथिव्यायुपमर्दः स प्रयोजन-कारणं यस्याः साऽऽरम्भिकी 1, 'परिगहिर' ति-परिग्रहोधर्मोपकरण-वर्जवस्तुस्वीकारोधर्मोपकरणमूर्छा च स प्रयोजनं यस्याः सा पारिग्रहिकी 2, 'मायावत्तिय' त्ति-माया-अनार्जवम् उपलक्षणत्वात्क्रोधादिरपि च सा प्रत्ययः--करणं यस्याः सा मायाप्रत्यया 3, 'अप्पचक्खाणकिरिय' त्ति-अप्रत्याख्यानेननिवृत्त्यभावेन क्रिया-कर्मबन्धादिकरणम / अप्रत्याख्यानक्रियेति 4, 'पंच किरियाओ कजंति' त्ति-क्रियन्ते, कर्मकर्तरि प्रयोगोऽयं तेन भवन्तीत्यर्थः, 'मिच्छादसणवत्तिय' त्ति-मिथ्यादर्शनं प्रत्ययोहेतुर्यस्याः सा मिथ्यादर्शनप्रत्यया / ननु मिथ्यात्वाविरतिकषाययोगा: कर्मबन्धहेतव इति प्रसिद्धिः, इह तु आरम्भादयस्तेऽभिहिता इति कथ न विरोधः? उच्यते-आरम्भपरिग्रहशब्दाभ्यां योगपरिग्रहो योगानां तद्रूपत्वात्, शेषपदैस्तु शेषबन्धहेतुपरिग्रहः प्रतीयत एवेति, तत्र सम्यगदृष्टीनां चतन एव. मिथ्यात्वाभावात् शेषाणां तु पश्चापि, सम्यग्मिथ्यात्वस्य मिथ्यात्वेनैवेह विवक्षितत्वादिति। 'सव्वे समाउया' इत्यादि प्रश्नस्य निर्वचनचतुर्भझ्या भावना क्रियते, निबद्धदशवर्षसहसप्रमाणायुग युगपच्चोत्पन्ना इति प्रथमभङ्गः 1. तेष्वेव दशवर्ष.. सहसस्थितिषु नरकेष्वेके प्रथमतरमुत्पन्ना अपरे तु पश्चादिति द्वितीयः 2. अन्यविषममायुर्निबद्ध के श्चिद्दशवर्ष-सहस्रस्थितिष कैश्चिच्च पञ्चदशवर्षसहसस्थितिषु उत्पत्तिः पुनर्युगपदिति तृतीयः 3, कचित्सा. गरोपमस्थितयः केचित्तु दशवर्षसहस्रस्थितय इत्येवं विषमायुषो विषममेव चोत्पन्ना इति चतुर्थः 4, इह संग्रहगाथा-"आहाराईसु समा, कम्गे वन्न तहेव लेसाए / वियणाए किरियाए, आउयउवव त्ति चउभंगी / / 1 / / " 'असुरकुमाराणं भंते !' इत्यादिना असुरकुमारप्रकरणमाहारादिपदनवकोपेतं सूचितं तच्च नारक-प्रकरणवन्नेयम्, एतदेवाह- 'जहा नेरइया' इत्यादि, तत्राहारकसूत्रे नारकसूत्रसमानेऽपि भावनाविशेषेण लिख्यते-- असुरकुमाराणामल्पशरीरत्वं भवधारणीयशरीरापेक्षया जघन्यतोऽहुलासंक्येयभागमानत्वं, महाशरीरत्वं तूल्कर्षतः सप्तहस्तप्रमाणत्वम, उत्तरवैक्रियापेक्षया त्वल्पशरीरत्वं जघन्यतोऽङलसंख्येयभागमानत्वं महाशरीरत्वं तत्कर्षतो योजनलक्षमानमिति, तत्रैते महाशरीराबहुतरान् पुद्गलानाहारयन्ति, मनोभक्षणलक्षणाहारापेक्षया, देवाना ह्यसौ स्यात् प्रधानश्च, प्रधानापेक्षया च शास्त्रे निर्देशो वस्तूना विधीयते, ततोऽल्पशरीरग्राह्याहारपुद्गलापेक्षया बहुतरांस्ते तानाहारयन्तीत्यादि प्राग्वत्, अभीक्षणमाहारयन्ति अभीक्ष्णमुच्छसन्ति च इत्यत्र ये चतुर्थादेरपर्याहारयन्ति स्तोकसमकादेश्वोपर्युच्छ्रसन्ति तानाश्रित्या-भीक्ष्णमित्युच्यत, उत्कर्षतो ये सातिरेकवर्षसहस्रस्योपरि आहारयन्ति सातिरेकपक्षस्य चोपर्युच्छुसन्ति तानङ्गीकृत्य एतेषामल्पकालीनाहारोच्वासत्वेन पुनः पुनराहारयन्तीत्यादिव्यपदेशविषयत्वादिति, तथाऽल्पशरीरा अल्पतरान् पुद्गलानाहारयन्ति उच्छुसन्ति च अल्पशरीरत्वादेव, यत्पुनस्तेषां कादाचित्कत्वमाहारोच्छ्रासयोस्तन्महाशरीराहारोच्छासान्तरालापेक्षया बहुतमान्तरालत्वात्,तत्र हि अन्तराले ते नाऽऽहारादि कुर्वन्ति तदन्यत्र कुर्वन्तीत्येवविवक्षणादिति, महाशरीराणामप्याहारोच्छ्रासयोरन्तरालमस्ति, किन्तु-तदल्पमित्यविवक्षणादेवाभीक्ष्णमित्युक्तं, सिद्धं च महाशरीराणां तेषामाहारोच्वासयोरल्पान्तरत्वम्, अल्पशरीराणां तु महान्तरत्वं, यथा सौधर्मदेवानां सप्तहस्तभानतया महाशरीराणां तयोरन्त क्रमेण वर्षसहरनद्वयं पक्षद्वयं च, अनुत्तरसुराणां च हस्तमानतया अल्पशरीराणां त्रयस्त्रिंशद्वर्षसहस्राणि त्रयस्त्रिंशदेव च पक्षा इति। एषां च महाशरीराणामभीक्ष्णाऽऽहारोरासाभिधानेनाल्पस्थितिकत्वमवसीयते, इतरेषां तु विपर्ययो वैमानिकवदेवेति, अथवा-लोमाहारापेक्षयाऽभीक्ष्णम्-अनुसमयमाहारयन्ति महाशरीराः पर्याप्तकावस्थायाम, उच्छृासस्तु यथोक्तमानेनापि भवन् परिपूर्णभवापेक्षया पुनः पुनरित्युच्यते, अपर्याप्तकावस्थायां त्वल्पशरीरा लोमाहारतो नाहारयन्ति ओजआहारत एवाहरणात इति कदाचित्ते आहारयन्तीत्युच्यते. उच्छ्रासापर्याप्तकावस्थायां च नोच्छसन्त्यन्यदा तूच्छसन्तीत्युच्यते आहत्योच्छु