________________ सम 367 - अभिधानराजेन्द्रः - भाग 7 सम णिककृष्णादीनां सापराधे निरपराधेऽपि च परे क्रोधवता विषयतृष्णातरलितमनसां च कथं शमः? तदभावे च कथं सम्यकत्वसम्भवः इति चेत? मैवम, लिगिनि सम्यक्त्वे सति लिङ्गै रवश्यं भाव्यमिति नाय नियमः,दृश्यते हि धूमरहितोऽप्ययस्कारगृहेषु वह्निः भस्मच्छन्नस्य वा / भवत्येव / यदाह-“लिङ्गे लिङ्गीभवत्येव, लिङ्गिन्येवेतरत्पुनः। नियमस्य विपर्यासे, सम्बन्धो लिङ्गलिङ्गिनोः / / 1 // " इति। संज्वलनकषायोदयाद्वा कृष्णादीनां क्रोधकण्डु विषयतृष्णे। संज्वलना अपि के चन कषायास्तीव्रतया अनन्तानुबन्धिसदृशविपाका इति सर्वमवदातम्।।१।। ध०२ अधि०। चं० प्र०। (2) अष्टकेन शमस्य गुणकथनम्ज्ञानी हि ज्ञानात् क्रोधादिभ्य उपशाम्यति, अतः शमाष्टकं विस्तार्यत, तत्र आत्मनः क्षयोपशमाद्याः परिणतयः स्वभावपरिणामेन परिणमन्ति न तप्तादिपरिणतौ स शमः, नामशमस्थापनाशमौ सुगमौ, द्रव्यशमः परिणत्यसमाधौ प्रवृत्तिसंकोचो द्रव्यशमः आगमतः, शमस्वरूपपरिज्ञानी अनुपयुक्तो नोआगमतः मायया लब्धिसियादिदेवगत्याद्यर्थम उपकारापकारविपाकक्षमादिक्रोधोपशमत्वम् इत्यपि द्रव्यशमः / भावतः उपशमस्वरूपोपयुक्त आगमतः, नोआगमतो मिथ्यात्वमपहाय यथार्थभासनपूर्वकचारित्रमोहोदयाभावात् क्षमादिगुणपरिणतिः--शमः, सोऽपि लौकिकलोकोत्तरभेदाद् द्विविधः। लौकिकं वेदान्तवादिनाम्, लोकोत्तरं जैनप्रवचनानुसारिशुद्धस्वरूपरमणैकत्वम्, आद्यनयचतुष्टये भावक्षमादिस्वरूपगुणपरिणमनहेतुः मनोवाकायसंकोच-विपाक चिन्तनतत्त्वज्ञानभावनादिः, अन्त्यनयत्रये क्षयोपशम क्षमादिः, शब्दनयेन क्षपक श्रेणिमध्यवर्तिसूक्ष्मकषायवतः, समभिरूढनयेन क्रोधादिशमः क्षीणमोहादिषु एवंभूतनयेन कषायशमः / अत्र भावना--चिन्तास्मृतिविपाकभयादिकारणतः। क्षयोपशमभावादिसाधनतः क्षायिकशमः साध्यः, एवं शमपरिणतिःकरणीया आत्मनो मूल स्वभावत्वात्, मूलधर्मपरिणमनं हि तेनैव कारणेन शुद्धात्मपदप्रवृत्तिः सङ्गत्यागात्मध्यानसंवरीचञ्चरीकत्वं करणीयम्विकल्पविषयोत्तीर्णः,स्वभावालम्बनः सदा। ज्ञानस्य परिपाको यः,सशमः परिकीर्तितः||१|| विकल्प इति-विकल्पः-चित्तविभ्रमः, तस्य विषयो विस्तारः,तेन उत्तीर्णो -निवृतः आत्मस्वादनतो वर्णादिषु निवृत्तविषयः स्वभावः अनन्तगुणपर्यायसम्यगज्ञानदर्शनचारित्रस्वरूपः तस्य आलम्बनः स्वभावालम्बन इत्यनेन आत्मस्वभावदर्शी, आत्मस्वभावज्ञानी,आत्मस्वभावरमणी, आत्मस्वभावविश्रामी, आत्मरवभावाऽऽस्वादी, शुद्धतत्त्वपरिणतः, ज्ञानस्य आत्मोपयोगलक्षणस्य यः परिपाकः प्रौढावसरः स शमः--शमभावलक्षणः परिकीर्तितः। अत्र योगस्य पञ्चविधत्वं प्रोक्तं हरिभद्रपूज्यैः अध्यात्मयोगः 1 भावनायोगः 2 ध्यानयोगः 2 समतायोगः 4 वृत्तिक्षययोगः 5 / तत्र अनादिपरभावम् औयिकभावरमणीयताधर्मत्वेन निर्धार्य तत्पुष्टिहेतुक्रियां कुर्वन् / अधर्म धर्मवृत्त्या इच्छन प्रवृत्तः स एव निरामयः निरसङ्गः शुद्धात्मभावनाभाविन्तातः करणस्य स्वभाव एव धर्म इति योगवृत्त्या अध्यात्मयोगः 1 / सर्वपरभावान् अनित्यादिभावनया विबुध्य अनुभवभावनया स्वरूपाभिमुखयोगवृत्तिमध्यस्थ आत्मानं मोक्षोपाये युजन् भावनायोगः / स एव पिण्डस्थपदस्थरूपातीतध्यानपारणत-रूपंकत्वी ध्यानयोगी भण्यते 3 / ध्यानबलेन भस्मीभूतमोहकर्मा तप्तत्वादिपरिणतिरहितः समतायोगी उक्तः 4 / तथा योगाधी-नकर्मो दयाधीना अनादिवृत्तिः जीवस्य तस्याः क्षयः-अभावः स्वरूपवृत्तिः वृत्तिक्षययोगी उच्यते 5 / एवं पञ्चयोगेषु समतायोगी साधने परिष्ठ इति ज्ञानस्य पूर्णावस्था शमः। अनिच्छन् कर्मवैषम्यं, ब्रह्मांशेन शमं जगत्। आत्माऽभेदेन यः पश्ये-दसौ मोक्षङ्गमी शमी।।। अनिच्छन् कर्मेति-कर्मवैषम्यम् ऊनाधिकत्वम् अनिच्छन् गतिजातिवर्णसंस्थानब्राह्मणक्षत्रियादिवैषम्यं ज्ञानवीर्यक्षयोपशमकार्यवैषम्यम अनिच्छन् उदयतः आवरणतः क्षयोपशमभेदे सत्यपि ब्रह्मांशेन चेतनालक्षाणेन,अथवा-द्रव्यास्तिकाऽस्तित्ववस्तुत्वसत्त्वाऽगुरुलघुत्वप्रमेयत्वचेतनत्वाऽमूर्त्तत्वाऽसंख्येयप्रदेशत्वपरिणत्या जगत्-चराचरम् आत्माभेदेन-आत्मतुल्यवृत्त्या; समानत्वेन यः पश्येत् सर्वजीवेषु समत्वं कृत्वा अरक्तद्विष्टत्वेन वर्तमानः असौ योगी मोक्षगामी सकलकर्मक्षयलक्षणावस्थां गच्छतीत्येवंशीलो भवति। यो हि सर्वजीवेषु जीवत्वतुल्यवृत्त्या रागद्वेषपरिणतिभपहाय आत्मस्वभावानुषगी असौ योगी मोक्षङ्गमी भवति। आरुरुक्षुर्मुनिों गं, श्रयन् बाह्यक्रियामपि। योगारूढः शमादेव, शुद्धयत्यन्तर्गतक्रियः।।३।। आरुरुक्षुरिति-आरुरुक्षुः-आरोहणेच्छु: मुनिः-भावसाधकः, प्रीतिभक्तिवचनरूपशुभसंकल्पेन अशुभसंकल्पान् वारयन् अराधको भवति, सिद्धयोगी तु रागद्वेषाभावेन उपशमीकृतार्थः, बाह्या क्रियांबाह्याचारप्रतिपत्ति श्रयन् अपि-अङ्गीकुर्वन् अपि शमादेवशुद्ध्यतिशमात्क्रोधाभावात् शुद्ध्यति-निर्मलीभवति। कथंभूतो मुनिः?योगारूढः योगे-- सम्यग्दर्शनज्ञानचारित्रे आत्मीयसाधनरत्नत्रयीलक्षणे आरूढः, पुनः कथंभूतो मुनिः? अन्तर्गतक्रियः अन्तर्गता वीर्यगुणप्रवृत्तिरूपा क्रिया यस्य सः अन्तर्गतक्रियाः एवमभ्यन्तरक्रियावान रत्नत्रयपरिणतःशमात्क्षमाया मार्दवार्जवमुक्तिपरिणतिपरिणतो निर्मलो भवति / ध्यानवृष्टेर्दयानद्याः, शमपूरे प्रसर्पति। विकारतीरवृक्षाणां, मूलादुन्मूलनं भवेत् / / 4 / / ध्यानवृष्टरिति-ध्यानवृष्टः ध्यान-धर्मशुक्लाख्यम्, अन्तमुहूर्त यावत् चित्तस्य एकवावस्थानं ध्यानम्। उक्तं च--"अंतोमुत्तमित्तं, चित्तावत्थाणमेगवत्थुम्मि। छउमत्थाणझाणं, जोगनिरोहोजिणाणतु"॥१॥अत्र चनिमित्तरूपे